Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 20
________________ ॥ अर्हम् ।। नवाङ्गीटीकाकारश्रीमदभयदेवसूरिविरचितटीकाविभूषितं पञ्चमगणधरदेवश्री सुधर्मस्वामिपरम्पराऽऽयातं श्री समवायाङ्गसूत्रम् । सूत्रम् १] [१] सुयं मे आउसं ! तेणं भगवता एवमक्खातं[टीका] श्रीवर्द्धमानमानम्य समवायाङ्गवृत्तिका । विधीयतेऽन्यशास्त्राणां प्रायः समुपजीवनात् ।।१।। दु:सम्प्रदायादसदहनाद्वा भणिष्यते यद् वितथं मयेह । तद् धीधनैर्मामनुकम्पयद्भिः शोध्यं मतार्थक्षतिरस्तु मैवम् ।।२।। इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो 10 भवतीति सोऽधुना समारभ्यते । तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवदवसेया, नवरं समुदायार्थोऽयमस्य– समिति सम्यक् अवेत्याधिक्येन अयनम् अय: परिच्छेदो १. श्री महावीर जैन विद्यालयेन विक्रमसंवत् २०४१ (ईशवीयसन १९८५] वर्षे प्रकाशिते जैनागमग्रन्थमालायाः तृतीय ग्रन्थाङके प्राचीनान् हस्तलिखितादर्शानवलम्ब्य अस्माभिः संशोधितं सम्पादितं च यत् समवायाङ्गसूत्रं वर्तते प्रायः तदेवात्र मुद्रितम् । ये तु तत्र पाठभेदाः ते जिज्ञासुभिः तत्रैव विलोकनीयाः ।। २. अत्रेदमवधेयम्- अस्याः समवायागवृत्त: संशोधनं ज१.२, खं० इति प्राचीनास्तालपत्रापरिलिखितानादर्शानवलम्ब्य विहितम् । जे१ = जेसलमेरुदर्गस्थ खरतरगच्छीयाचार्यश्री जिनभद्रसूरिभिः विक्रमसंवत् १४०१ वर्षे संस्थापिते तालपत्रीयजैनग्रन्थभाण्डागारे विद्यमान आदर्श:, New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION अनुसारेण अस्य ८ अष्टम: क्रमाङ्कः, अत्र १-४५ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तते, पञ्चदशं पत्रमत्र नास्ति, ४६-१३४ पत्रेषु समवायाङ्गवृत्तिर्वर्तते, “समवायाङ्गवृत्तिः सम्पूर्णा ।। संवत् १४८७ वर्षे पोस सुदि १० रवौ” इति अस्यान्ते उल्लेखः ।। जे२ = अयमपि जेसलमेरुदर्गस्थ एवादर्शः, अस्य ९ नवमः क्रमाङ्कः, अत्र १-६४ पत्रेषु मूलमात्रं समवायाङ्गसूत्रं वर्तत, चतुर्विंशतितमं पत्रमत्र नास्ति, ६५-२१५ पत्रेषु समवायाङ्गवृत्तिर्वर्तते, "संवत् १४०१ वर्षे माघ-शुक्ल एकादश्यां श्री समवायाङ्गसूत्रवृत्तिपुस्तकं सा. रउलासुश्रावकेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालङ्कार श्रीजिनचन्द्रसूरिसुगुरोः प्रादायि । आचन्द्रार्क नन्दतात्' इति अस्यान्ते उल्लेखः । खं० = खम्भातनगरे श्री शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमान आदर्श: Catalogue of Palm-leaf Manuscripts in the Santinatha Jain Bhandara, Cambay अनुसारेण अस्य क्रमाङ्कः ३७, अत्र १-९७ पत्रेषु मूलमात्र समवायाङ्गसूत्रं वर्तते, ३४, ३५. ६७ तमानि पत्राणि न सन्ति, ९८-३३० पत्रेषु समवायाङ्गवृत्तिवर्तते, १८३, २७३ त: २७८. ३१८. ३२० तः ३२२ पत्राणि न सन्ति. "संवत् १३४९ वर्षे माघ सुदि १३ अद्येह दयावट श्रे० होना श्रे० कमरसीह थे० सोमप्रभृतिसंघसमवायसमारब्धपुस्तकभाण्डागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तक लिखितम् इत्येवमस्यान्ते उल्लेखः । अत्रोपयुक्ताना हे१,२ इति कागजपत्रोपरिलिखितानामादर्शानां तु स्वरूपमस्य ग्रन्थस्य प्रान्ते टिप्पण विलोकनीयम् ।। ३. स्था० टी० पृ०२।।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 362