Book Title: Samta Sagar Charitam
Author(s): Hemchandrasuri Acharya
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 4
________________ वाग्रोधलेखनादिप्रेरणाकृतमुनिश्रावकयोगक्षेमप्रवृत्तयः सर्वानाश्चर्यमुग्धानकुर्वन् । अन्तिमोच्छ्वासं यावत्ते कर्मसत्तया सहाऽयुध्यन् । वि.स. २०१७ वर्षे श्रावणकृष्णैकादशीतिथौ स्वप्रगुरुदेवाचार्यश्रीमद्विजयप्रेमसूरीश्वर-गुरुदेवपंन्यासभानुविजय-आ. यशोदेवसूरीश्वर-पं. भद्रङ्करविजयादिविशालमुनिसमुदायचतुर्विधसङ्घपावननिश्रायामद्भूतसमाधिना जीवनयात्रा समाप्य स्वर्ग प्रति प्रस्थिताः । तदा शताधिकसाधुपालकपित्राचार्यदेवश्रीमद्विजयप्रेमसूरीश्वरहृदयादुद्गारा निःसृताः- 'मम दक्षिणो हस्तो नष्टः । अष्टचत्वारिंशद्वर्षप्रमाणलघुजीवनयात्रायां तैः षड्विशतिवर्षसंयमयात्रा पालिता । यदि ते स्तोककालमधिकमजीविष्यंस्तदाऽद्य सङ्घशासनसमुदायपरिस्थितिर्विशिष्टाऽभविष्यत्, तेषां योगक्षेमप्रवृत्त्या च निष्पादिताः प्रभूता मुनिवरा अद्य शासनसङ्घयोर्विशेषप्रकाशं व्यस्तारयिष्यन् ।' किन्तु कालभवितव्यतादिकं निश्चितम्। तथापि षड्विंशतिवर्षसंयमपर्याये तैर्यः सुगन्धः प्रसारितः सोऽद्यापि: सर्वत्रानुभूयते। तैर्दत्तान्यालम्बनानि वर्षाणां सहस्राणि यावदखण्डितानि भविष्यन्ति । प्रस्तुतचरित्रे तु तेषां जीवनस्यात्यल्पकथनमेवाऽस्ति। सम्पूर्णन्यायो दातुं न शक्यो मया, तहृदयसूक्ष्मभावज्ञानसामर्थ्य मयि न विद्यते। तत्साधनामानक्षमक्षयोपशममद्यापि नाहं लब्धवान् । तथापि तेषां जीवनस्य : यत्स्तोकमपि कथनमत्रास्ति तदपि महदनेकजीवनप्रका शकञ्चास्ति। तान्प्रतीषत्कृतज्ञताभावप्रकटनाशयेन तान्प्रतीषद्भक्तिभावेन चैतदल्पालेखनप्रयासो मया कृतः । अत्र तान्प्रत्यन्यान्वृद्धान्प्रति वा यः कश्चिदप्यविनयो जातः स्यात्तर्हि तस्य सरलभावेन क्षमा याचे । इदमत्रावधेयम् । पूज्यपद्मविजयस्वर्गमनद्वितीयवर्षे पूज्यमित्रानन्दसूरिपूज्यभद्रगुप्तसूरिभ्यां तेषां चरित्रं 'पद्मसुवास' पुस्तकरुपेण लिखितम् । अत्र तत्पुस्तकमतीव सहायीभूतम्। ततोऽत्र प्रसङ्गे तयोर्महात्मयोरुपकारमपि स्मरामि, एतदूज़ पूज्यानां साक्षादनुभूतप्रसङ्गा अप्यत्रालिखिताः । ___एतच्चरित्रालेखनजातगुणानुरागेण तत्सदृशगुणसाधने प्राप्नुयां भवान्तरेऽपि तद्योगं प्राप्नुयां ‘पत्तेसु एएसु अहं सेवारिहे सिया, आणारिहे सिया, पडिवत्तिजुत्ते सिया, निरइयारपारगे सिया' इति च पञ्चसूत्रोक्तानुसारेणाहं तत्सेवायोग्यो भवेयमाज्ञापालनयोग्यो भवेयमाज्ञाप्रतीच्छको भवेयं निरतिचाराज्ञापारप्रापको भवेयमविचलमुक्तिसुखं प्राप्नुयामित्येकमात्रशुभाभिलाषा मनसि वर्त्तते । अत्र चरित्रे 'आचार्यभगवत्पूज्यपादश्री' इत्यादि शब्दप्रयोगेण प्रेमसूरीश्वराणां, 'प्रगुरुदेवश्री' इति शब्दप्रयोगेण पं.भानुविजयानां, 'पूज्यश्री' इति शब्दप्रयोगेण च पं. पद्मविजयानामुल्लेखः कृत इति वाचकवर्गोऽवधारयतु । प्रस्तुतचरित्रं लिखता मया पूज्यानामन्येषां वेषदप्यविनय आशातना वा कृता स्यात्तर्हि पुनः पुनस्तस्य क्षमा याचे ।। पं. पद्मविजयचरणकिङ्करो हेमचन्द्रविजयः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 80