Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 470
________________ १२२ सम्मति• काण्ड ३, गा० ४६ स्मनोरन्योन्यानुप्रवेशाद्विषमीकृताऽसङ्खथातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च षड्गुणहा. निवृद्धि भावेन नीलरक्तादिरूपमधुराम्लादिरससुरभ्यादिगन्धशीतोष्णादिस्पर्शात्मकपर्यायाणामपि प्रतिक्षणोत्पत्तिनश्वराणां सजातीयविजातीयस्वभावतयोत्पत्तिः, तदैव च मिथ्यात्वा. विरति-प्रमाद-कषायादिपरिणतिसमुत्पादितकर्मवन्धनिमित्ताऽऽगामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्यमानोपादीयमानानन्तपरमाण्यापादिततत्प्रमाणसंयोगविभागानामुत्पत्तिः, तदैव च तत्तज्ज्ञानविषयत्वादीनामुत्पत्तिः, यदैव शरीरादेरेकस्य द्रव्यस्योत्पत्तिस्तदैव त्रैलोक्यान्तर्गतसमस्तद्रव्येस्सह साक्षात्पारम्पर्येण वा सम्बन्धानामुत्पत्तिः, सर्वद्रव्यव्याप्तिव्यवस्थिताकाश-धर्माधर्मास्तिकायादिद्रव्यसम्बन्धाद , एवं तत्र त्रैलोक्यान्तर्गताशेषपदार्थान्तर्गतैकैकार्थापेक्षया भिन्नत्वादिपर्यायाणानोत्पत्तिः, किंबहुना ? मयूराण्डकरसे प्रथमक्षण एव शिरो-ग्रीवा-चच-नेत्र-पिच्छो-दर-चरणाधनेकावयवोत्पादनानुगुणशक्त्युत्पत्तिवद् भाव्यनन्तस्वपरपर्यायोत्पत्त्यनुकूलशक्तीनाश्चोत्पत्तिा, अन्यथा तत्र तेषामुत्तरकालमप्यनुत्पत्तिप्रस. ङ्गस्स्यात्, तदेवं कायमनोवचनक्रियारूपादिगतिविशेषापेक्षया संयोगभेदापेक्षया च ज्ञानविषयत्वाद्यपेक्षया चैकस्यैव द्रव्यस्यानेकधोत्पत्तिभावादनन्तपर्यायात्मकत्वं सिद्धम् । भिन्न भिन्नवस्तुनोऽपि कथञ्चित्सम्बन्ध एकद्रव्येण सह समस्तीति सम्बन्धितयैक्यमतस्तदुत्प. क्याऽपि तदुत्पत्तिभावात् । अथ यद्यप्येकक्षणेऽप्यनन्तानामुत्पादानां तत्समानां विगमानां तन्नियतस्थितीनां च पूर्वोक्तयुक्त्या सम्भवादस्त्वेकद्रव्यमनन्तपर्यायात्मकम् , तथापि न च तत्तथात्वेनास्मदादिभिरध्यक्षेण गोचरीक्रियत इति तत्तथात्मकमिति कथं श्रद्धेयमिति चेत्, मैवम् , यतोऽस्मदाद्यध्यक्षस्याखिलस्वस्थासाधारणधर्मरूपेण निरव शेषधर्मविशिष्टवस्त्वग्राहक. त्वस्वभावत्वादेव तथा तथोल्लेखेन तदग्रहणम्, न तु तदभावात् , अन्यथा गुरुत्वादेरस्मदध्यक्षाग्रहणादसत्त्वं स्यात् , अथ नमनोन्नमनादिकार्यलिङ्गेनानुमीयमानत्वात्तत्सत्त्वमिति चेत्, अत्रापि यद्येकैकं द्रव्यमनन्तपर्यायात्मकं न स्यात् तर्हि साक्षात्सम्बन्धेन स्वपर्यायाणां त्रिभुवनान्तर्गतस्वभिन्न सर्वद्रव्यपर्यायात्मकपरपर्यायाणां च स्वाभाववत्त्वरूपपरम्परासम्बन्धेन तत्र सत्त्वमेव न स्यात् , सच्चश्वास्ति, तस्मात्तदनन्तपर्यायात्मकमिति प्रसङ्गविपर्ययाभ्यां तसिद्धः, तथा च त्रैलोक्यव्यावृत्तस्वलक्षणान्यथाऽनुपपत्तिलिङ्गकानुमानेनानन्तपर्यायात्मक द्रव्यमिति सिद्धम् । अत एवानन्तधर्मात्मकं तत्वमित्यहत्सिद्धान्तदृढसंस्कारवतां प्रयोजनवशादेकमपि पर्यायं गृह्नता भावतस्तथा परिज्ञानमस्त्येव, तदानीं तेषां मतिज्ञानावरणकर्मक्षयोपशमजनितस्याद्वादसंस्कारसद्भावेन भावतोऽनन्तपर्यायात्मकतया वस्तुग्रहणपरिणाम स्याक्षीणत्वादिति सिद्धान्ते गीयते । तदाह-भाष्यसुधासुधाम्भोधिः पज्जायमासयन्तो, एक पि तओ पओयणवसाओ। तत्तियपजायं चिय, तं गिण्हइ भावओ वत्थु । ३२२ । इति ॥ ४२ ॥ अथ प्रत्यक्षपरोक्षभेदेन प्रमाणं द्विविधं प्राक् प्रोक्तम् , तत्र प्रत्यक्षभेदस्वरूपमुक्त्वा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556