Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 476
________________ ३२८ सम्मति• काल ३, गा० ४. णयवाया' यावन्तो नयवादा: 'तावहया चेत्र परसमया' तावन्त एव परसमया:, स्वेच्छापरिकल्पितवक्तृविकल्पमात्रकल्पितत्वात्तेषाम् । स्याद्वादैकवाक्यतारहिता एकैकनया वस्तुनो यावन्तोऽनन्ता अंशास्तान् सर्वान् नाभ्युपगच्छन्ति, किन्त्वेकैकांशानित्येकैकांशग्राहका यावन्तः प्रतिपत्तुणामभिप्रायास्तावतां नयानां वचनपथतुल्यसंख्यकानामपरिमितत्वेन तत्कल्पितनयवादात्मकपरसमया अप्यपरिमिता एव, अभिनिवेशान्वितवस्त्वेकैकांशविषयकप्रतिपत्रभिप्रायलक्षणनयप्रभवनयवादस्यैव परसमयलक्षणत्वादिति परमार्थः । नन्वेवं नयवादानां वचनपथतुल्यसङ्ख्यकानामपरिमितत्वेन तत्तनयवादात्मकपरसमयानामपि परिमितिर्न विद्यते, तर्हि तन्निबन्धनभूतानां नयानामध्यवसायलक्षणानां " से किं तं णए ? सत्त मूलण या पण्णत्ता, तं जहा-णेगमे संगहे ववहारे उज्जुसूए सद्दे समभिरूढे एवंभूए" इत्यनुयोगद्वारसूत्रेण यः सप्तधा विभागो विहितस्सोऽपि प्रमाणतां नैव प्राप्नुयादिति, चेत्, उच्यते, स्थूलन्यायेन मूलजातिभेदतस्सोऽपि प्रमाणभावमश्चत्येव, ततोऽपि सूक्ष्मतरभेदविवक्षायामेकैकनयः शतभेद इति नयत्वसाक्षाव्याप्यजात्यवच्छिमानां सप्तनयानां प्रमेदारसप्तनयशतानि भवन्ति, नयत्वव्याप्यजातिव्याप्य जात्यवच्छिन्नत्वात् , तदुक्तं विशेषावश्यकभाष्ये--" इकिको य सयविहो सत्तनयसया हवंति एमेव" इति । उपर्दाशतनयसङ्खथाऽपरिमाणत्वविधानन्तु ततोऽपि सूक्ष्मतरदृष्टिपर्यालोचनयैव, ततोऽनन्तां. शात्मके वस्तुन्येकांशपयेवसायिनो यावन्तः प्रतिपत्तृणामभिप्रायास्तावन्तो नया:, ते च नियतसङ्कथा सङ्ख्यातुं न शक्यन्ते, अत एव तदुत्थनयप्रवादानामपि परसमयरूपाणां सावधारणत्वेनैकान्ततत्त्वप्रतिपादकानां नियतसङ्खथा न विद्यत इति । एतेन मूलत एव नयविचारो नारम्भणीयः निष्फलत्वात् , काकदन्तपरीक्षावदिति तत्सङ्खथा भवतु मा वा किं तद्विज्ञानेनेति निरस्तम् , नयविचाराऽकरणे नयविधिमजानता नयज्ञानाऽभावेन सम्य. ग्वागुच्चारणमेव अन्योन्यवाग्युक्तायुक्तत्वविवेकोऽपि च न स्यात्, एवं नैगमादितत्तभयाऽन. पेक्ष्य जीवाजीवाद्यर्थ एवंस्वरूप इति सूक्ष्मेक्षिकया विचाराऽकरणे यथार्थज्ञानाऽमावेनऽ. युक्तमपि युक्तं युक्तमप्ययुक्तं प्रतिभासेत, किश्च परसमयरूपं यदेकान्तनित्यत्वादिप्रतिपादकमेकनयमतं तदेकान्तानित्यत्वादिप्रतिपादकेन तत्प्रतिपक्षभूतेनान्येन नयेन नयविधिज्ञो यदि स्यात्तदा निराकुर्याद, नान्यथा, किश्च स्वसिद्धान्तेऽपि यदज्ञानद्वेषादिकलुषितस्सन् कोऽपि दोषबुद्ध्या किमपि यजीवादिवस्तु अन्यथा परिगृहीयात् तदपि यो नयविधिज्ञस्स एव नयोक्तिभिर्यथार्थतया स्थापयेत् , अन्यथा तु कथं, तस्मात्रयविचारस्सफलत्वेनारम्भणीय एवेति सिद्धम् । नन्वेवं तर्हि जीवो जीवस्वरूपतया व्यवहर्त्तव्यः वेतनावचात् , यन्नैवं सौवम् , घटादिवत् , एवमजीवोऽजीवस्वरूपतया व्यवहर्तव्यः अवेतनावस्यात् , यनैवं तवम् , आत्मवदित्येवं लक्ष्यस्य लक्ष्यस्वरूपतया व्यवहारप्रयोजनकत्वेन लक्ष्यव्यवस्थापक लक्षणमेव, अत एव लक्षणाधीना लक्ष्यव्यवस्थितिरिति गीयते तत्वज्ञैः, जीव इतरमिन्न: "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556