Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 313
________________ २५८ समराङ्गणसूत्रधारे भवो विशालः साम्मुख्यः प्रभवः शिविरागृहः । मुखशालो द्विशालश्च गृहराजोऽमलो. विभुः ॥१६॥ एवमेते समुद्दिष्टाश्चतुरश्रायता दश । अथ वृत्तायतान् ब्रूमः प्रासादानभिधानतः ॥ १७ ॥ आमोदो रैतिकस्तुङ्गश्चारुर्भूतिनिषेवकः । सदा(?)निषेधः सिंहाख्यः सुप्रभो लोचनोत्सवः ।। १८ ॥ एते वृत्तायताः प्रोक्ताः प्रासादा नामतो दश । अष्टाश्रीणां चं नामानि कथयामि समासतः ॥ १९ ॥ वज्रको नन्दनः शङ्कुर्मेखलो वामनो लयः । महापद्मश्च हंसश्च व्योमचन्द्रोदयाविति ॥ २० ॥ अष्टाश्रय इमे प्रोक्ताः प्रासादा दश संख्यया । भवन्त्येवं चतुष्पष्टिलेक्ष्मैषामधुनोच्यते ।। २१ ॥ संस्थानमानविन्यासैभद्रस्तम्भादिसङ्ख्यया। एषां विशेषा वक्ष्यन्ते पृथक पृथगनुक्रमात् ॥ २२ ॥ ज्येष्ठो भागश्चतुर्हस्तः सार्धहस्तत्रयोऽपरः । कल्पनीयः कनीयांस्तु हस्तत्रितयसम्मितः ॥ २३ ॥ ज्येष्ठमध्यकनीयोभिरेवं भागैर्विभाजिताः । भवन्ति सवेप्रासादा ज्येष्ठमध्याधमक्रमात् ॥ २४ ॥ चतरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।। कुर्यात् स्वारोहकावासं पीठमंशसमुवृतम् ॥ २५ ॥ तथा तस्योपरि स्थाप्या हंसपृष्ठी समन्ततः । हस्तमात्रोच्छ्रिता वृत्ता जलनिर्गमभूषिता ॥ २६ ॥ ततः पीठस्य तस्यान्तर्द्विभागा(य?या)मविस्तृतिः । प्रासादो रुचकः कार्यो भागत्रितयमुच्छ्रितः ॥२७॥ सार्धभागेन संछा स्यात् सार्धभागस्तु योऽपरः(?) । छा(योध)त्रयं सकण्ठं स्यात् तेन सामलसारकम् ॥ २८ ॥ 7. 'री' ख. ग. पाठः । २. 'तु', ३. 'छा' क. पाठः । ४. 'स्त' ख. ग. पाठः। ५. 'वृत्तसमु', ६. 'स्तम्भा स्यात् ' ख, पाठः । ७, 'धु' क. पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346