Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 323
________________ २६८ समराङ्गणसूत्रधारे द्वौ द्वौ गवाक्षौ चापि साम्मुख्यः स भवेत् तदा । प्राग्रीवास्त्रिदिशं तस्य गर्भकोष्ठायता यदा ॥ १३३ ॥ हित्वा वलभ्यt प्राग्री विधीयेते तथापरौ । कर्णेषु भागमेकैकं त्यक्त्वा स्यात् प्रभवस्तदा ॥ १३४ ॥ एतस्यैव मुखे स्यातां यदा माग्रीवकावुभौ । पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतो यदा ॥ १३५ ॥ कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिविरागृहः । यदास्यैव मुखे शाला भाग द्वितयविस्तृता ।। १३६ ॥ आयामेन च षड्भागा प्राग्रीरौ द्वौ तदग्रतः । द्वौ द्वौ गवाक्षकौ स्यातां तद्भिच्योरुभयोरपि ॥ १३७ ॥ सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् । अलिन्दो भागिकः कार्यो विशालस्यैव बाह्यतः ॥ १३८ ॥ प्राग्रीवभूमिषु वृतो भिरया च सगवाक्षकः । अग्रतः सहितः स्तम्भैः षड्भिव क्रियते यदा ।। १३९ ॥ द्विशाल इति विख्यातः प्रासादो जायते तदा । यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥ १४० ॥ प्राग्रीवौ चोभयतो गृहराजस्तदा भवेत् । सर्वस्यैव (?) यदालिन्दः स्यादन्यो भागविस्तृतः ॥ १४१ ॥ सीमान्तविस्तृते स्यातां वलभ्य भागनिस्सृते । भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ।। १४२ ॥ मुखे पड़दारुकं च स्यात् तदा स्यादमलाभिधः । एकादशायते क्षेत्रे तथा षड्भागविस्तृते || १४३ ॥ मुक्त्वा भागद्वयं पश्चाद् देवकोष्ठं निवेशयेत् । भागं मुक्त्वाग्रतः कुर्यात् सीमां भागचतुष्टयम् ॥ १४४ ॥ अष्टस्तम्भास्ततोऽलिन्दविंशतिस्तम्भभागिकाः । भागिकः परितोऽलिन्दोऽष्टाविंशतिधरोऽपरः ।। १४५ ॥ १. ‘ख्यात् स' २. ‘लाख्ये च बा', ३. 'चौ', ४. 'वि', ५. ' विस्तृते ' क. पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346