Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 211
________________ षष्ठोध्यायः । २०७ कथं, इति । किमिति, अवश्यं नियमेन करिष्ये विधास्येऽहं । कां, सल्लेखनां बाह्याभ्यन्तरतपोभिः सम्यक्कायकषायकृशीकरणमाचारं । किंविशिष्टां मारणांतिकीं मरणमेवान्तो मरणान्तः तद्भवमरणमित्यर्थः तत्र भवां । केन विधिना शास्त्रोक्तविधानेन ॥ ५७ ॥ सहगामि कृतं तेन धर्मसर्वस्वमात्मनः । समाधिमरणं येन भवविध्वंसि साधितम् ।। ५८ ।। टीका - तेन पुंसा कृतं । किं तत्, आत्मनः स्वस्य धर्मसर्वस्वं व्यवहारनिश्चयरत्नत्रयं । किंविशिष्टं, सहगामि आत्मना सह भवान्तरगन्त । येन किं, न साधितं निर्वर्तितं । किं तत्, समाधिमरण रत्नत्रयैकाग्रतया प्राणत्यागः । किंविशिष्टं भव विध्वंसि संसारनिर्मूलनशीलं ॥ ५८ ॥ , - यत्प्रागुक्तं मुनीन्द्राणां वृत्तं तदपि सेव्यताम् । सम्यङ् निरूप्य पदवीं शक्ति च स्वामुपासकैः ॥ ५९ ॥ टीका — प्राक् चतुर्थाद्यध्यायषट्के । मुनींद्राणां महामुनीनां । यद्वृत्तं समि तगुप्त्याद्याचरणमुक्त तदपि न केवलं संसेव्यतामनुष्ठीयतां । केः, उपासकैः श्रावकैः । किं कृत्वा, सम्यङ् निरूप्य अविपरीतं पर्यालोच्य । कां स्वामामीयां पदवीं संयमभूमिकां शक्तिं च वीर्य ॥ ५९ ॥ 1 प्रकृतमुपसंहरन्नौत्सर्गिक हिंसानिवृत्तिं प्रति देशयति प्रयुक्ते--- इत्यापवादिकीं चित्रां स्वभ्यस्यन्विरतिं सुधीः । कालादिलब्धौ क्रमतां नवधौत्सर्गिकीं प्रति ॥ ६०॥ . टीका - मतामुत्सहतां । कोऽसौ, सुधीः तत्वज्ञानसम्पन्नः श्रावकः । कथं, प्रति उद्दिश्य । कां, विरतिं । किंविशिष्टां, औत्सर्गिकीं उत्कृष्टं सर्जनमुत्सर्गः सर्वसंगत्यागः तत्र भवामौत्सर्गिकीं । कतिधा, नवधा मनोवाक्कायैः प्रत्येकं कृतकारितानुमतानां त्यागेन नवप्रकारां । कस्यां कालादिलब्धौ कालदेशबलवीर्यसहायसाधनादिसामम्यां सत्यां । किं कुर्वन्, स्वभ्वस्यन

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260