Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 230
________________ २२६ सागारधर्मः । जलबुबुदवदनित्यमित्यादिकमस्मरतोऽस्यावस्थानं कथं स्यादित्यादरः। पूजाविशेषदशनात्प्रभुतपरिचारावलोकनात्सर्वलोकश्लाघाश्रवणाच्चैवं हि मन्यते प्रत्याख्यातचतुर्विधाहारस्यापि मे जीवितमेव श्रेयः। यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याकांक्षेति यावत् । मरणाशंसा रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लशस्य मरण प्रति चित्तप्रणिधानं । यदा न कश्चित्त प्रतिपन्नाशनं प्रति सपर्यथा आद्रियते, न च कश्चित् श्लाघते, तदा तस्य यदि शीघ्रं म्रीयेय तदा भद्रकं स्यादित्येवं विविधपरिणामोत्पत्तिर्वा । सुहृदनुरागो बाल्ये सहपांशु क्रीडनादि व्यसने सहायत्वमुत्सवे सम्भ्रम इत्येवमादेश्च मित्रमुकृतस्यानुस्मरणं । बाल्याद्यवस्थासहकाडित मित्रानुस्मरणं वा । सुखानुबन्ध एवं मया भुक्तमेवं शयितमेवं क्र. डितमित्येवमादि प्रीतिविशेष प्रति स्मृतिसमन्वाहारः। निदानमस्मात्तपसः सुदुश्चराज्जन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाधनागताभ्युदयाकांक्षा ॥ ४५ ॥ एवं संस्तगरूढस्य क्षपकस्य निर्यापकाचार्य एतत्कृत्वदं कुर्यादित्याह यतीनियुज्य तत्कृत्ये यथार्ह गुणवत्तमान् ।। __ सूरिस्त भूरि संस्कुर्यात् स ह्यार्याणां महाक्रतुः ॥ ४६ ॥ टीका-संस्कुर्यात् रत्नत्रयसंस्कारयुतं कुर्यात् । कोऽसौ, सूरिः । क, तं क्षयकं । कथं, भूरि बहु । किं कृत्वा, नियुज्य अधिकृत्य । कान्, यतीन् साधून् । क, तत्कृत्ये आराधकस्यामर्शनादिशरीरकार्ये विकथानिवारणे धर्मकथायां भक्तपानतत्पशोधनमलोत्सर्जनादौ च । कथं, यथार्ह यथायोग्यं । किंविशिष्टान्, गुणवत्तमान् मोक्षकारणगुणातिशयशालिनः । हि यस्मात् क्षप. कसमाधिसाधनविधिरार्याणां यतीनां महाक्रतुः परमयज्ञः स्यात् ॥ ४६॥ क्षपकस्याहारविशेषप्रकाशनात् भोजनासक्तिनिषेधार्थमाह योग्यं विचित्रमाहारं प्रकाश्यष्टं तमाशयेत । तत्रासजन्तमज्ञानाज्ञानाख्याननिवर्तयेत् ॥४७॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260