Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 423
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधुनैषां बन्धादिस्थानसंख्यामाह ( मल० ) 'तो' इति तेभ्योऽनन्तरोक्तेभ्यो बन्धहेतुभ्यः 'इति' अमून्यष्टौ कर्माणि बध्यन्त इति शेषः । कानि ? इत्यत आह- 'णा' इत्यादि ज्ञायतेऽनेन ज्ञप्तिर्वा ज्ञानम्, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मकोऽवबोधः, दृश्यतेऽनेन दृष्टिर्वा दर्शनम्, सामान्यावबोधात्मकं चक्षुर्दर्शनादि, आत्रियते आच्छाद्यतेऽनेनेत्यावरणम्, मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः, ज्ञानं च दर्शनं च तयोरावरणे, तथा वेद्यते सातासातरूपेणेति वेदनीयम्, यद्यपि च सर्व कर्म वेद्यते, तथाऽपीह पङ्कजादिशब्दवद्वेदनीयशब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयं न शेषम्, ज्ञानदर्शनावरणे च वेदनीयं च तानि । मोहयतीति मोहनीयं मिथ्यादर्शनादि । चः समुच्चये । आयात्यागच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिकुगते र्निष्क्रमितुमनसो जन्तोरित्यायुः । नामयति गत्यादिविविधभावानुभवनं प्रति जीवं प्रवणयतीतिनाम, गतिजात्यादि । गूयते शब्दयते उच्चावच्चैः शब्दैरात्मा यस्मात्तद्गोत्रम् । अन्तरा दातृप्रतिग्राहकयोरन्तर्विघ्नहेतुतयाऽयते गच्छतीत्यन्तरायं दानान्तरायादि ॥ ७८ ॥ तदेवं बन्धहेतुभ्यो यानि कर्माणि वध्यन्ते तान्युपदर्श्य, साम्प्रतमेतेष्वेव बन्धादिस्थानसंख्यामाह— सत्तगबंधा, संतुदया असेत्तचत्तारि । सत्तछेपचदुगं, उदीरणाठाणसंखेयं ॥ ७९ ॥ ( हारि०) व्याख्या - सप्ताष्टषडेकविधबन्ध भेदाच्चत्वारि बन्धस्थानानि ४ । अष्टसप्तचतुर्विधसत्ता भेदाश्रीणि सत्तास्थानानि ३ । एवमुदयस्थानान्यपि त्रीणि ३ । सप्ताष्टषट्पञ्चद्विविधोदीरणाभेदात्पञ्चसंख्योदी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476