Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 183
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ त्रसकायपिहितं द्विविधमप्याह- 'कच्छभ - संचाराई अणंतराणंतरे च्छट्टे'त्ति कच्छपेन = कूर्मेण तथा सञ्चारादिना = पिपीलिकापङ्क्त्यादिना त्रसकायेनानन्तरपिहितम्, अनन्तरमिति वक्तव्ये निर्युक्तिकृता द्वितीयाऽनन्तरग्रहणं कृतं नकारलोपात् ततोऽयमर्थः परम्परपिहितं तच्च कच्छपगर्भपच्छिकादिना स्थगित 'छट्टे'त्ति त्रसकायविषय इति गाथार्थः ॥ ५९७ ॥ .९ उक्ता तृतीयभङ्गस्य ‘अचित्तं सचित्तेन पिहितम्' इत्यस्य मार्गणा । साम्प्रतं चतुर्थभङ्गस्य अचित्तमचित्तेन पिहितमित्यस्य चतुर्भङ्गिकया भजनामाह— १४४ गुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दो वि लहुगाई। अच्चित्तेण वि पिहिते चउभंगो दोसु अगेज्झं ॥ ५९८ ॥ दारं ॥ गुरु गाहा । व्याख्या- • गुरुद्रव्यं गुरुणा द्रव्येण पिहितमिति प्रथमः (१), गुरु लघुनेति द्वितीयो (२), लघु गुरुणेति तृतीयः (३) उभयलघुश्चतुर्थः (४) । एवमचित्तेनाऽपि पिहिते चत्वारो भङ्गा उक्तलक्षणा 'दोसु अगेज्झं 'ति प्रथम - तृतीययोरग्राह्यं द्वितीय - चतुर्थयोस्तु ग्राह्यमिति गाथार्थः॥५९८॥ उक्तं पिहितद्वारम्। इदानीं संहृतद्वारमाह- संहतं नाम यद् अन्यत्र संहृत्य तद् वा अन्यद् वा ददाति तत् संहृतमुच्यते। तत्र चतुर्भङ्गिकां दर्शयन्नाह— सच्चित्ते अच्चित्ते मीसग साहारणे होइ चउभंगो। आदितिए पडिसेहो `गहणे आणाइणो दोसा॥५९९॥ सचित्ते गाहा। व्याख्या– सचित्ता - ऽचित्त - मिश्रद्रव्याणां संहरणे क्रियमाणे चतुर्भङ्गिका भवति । आद्यभङ्गत्रये प्रतिषेधस्तस्मिंश्च ग्रहणे आज्ञाभङ्गा - ऽनवस्थादयो दोषा भवन्तीति गाथार्थः॥५९९॥ अतिदेशं कुर्वन्नाह जह चेव य निक्खित्ते संजोगा चेव होंति भंगा य । तह चेव य साहरणे णाणत्तमिणं ततियभंगे ॥ ६०० ॥ जह चेव गाहा । व्याख्या- यथा चैव निक्षिप्ते संयोगा भङ्गाश्च भवन्ति तथैव संहरणे द्रष्टव्याः । नानात्वं इदं वक्ष्यमाणमचित्तं सचित्ते संहरतीत्येवं लक्षणे तृतीयभङ्गे भवतीति गाथार्थः॥६००॥ नानात्वमाह मत्तेण जेण दाहिइ तत्थ अदिज्जं तु होज्ज असणादी । छोढुं तदण्णहिं तेण देइ अह होइ साहरणा ।। ६०१ ॥ (टि०) १. ०ङ्गिकाया जि१ ॥ २. वा जे१ ॥ ३. सच्चि० जे१ ॥ ४. मा गेज्झा खं० ॥ ५. साहारणम्मि खं० ॥ ६. चरिमे भंगम्मि भयणा उ जे४ भां० ॥ (वि०टि० ) *. इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति.... क्षेपणं च संहरणमुच्यते । इति मलय० ॥ नवरं द्वितीय तृतीयचतुर्भङ्गिकयोः प्रत्येकं तृतीये तृतीये भङ्गेऽनन्तर - परम्परमार्गणाविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमवसेयम्, निक्षिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहृतद्वारेऽन्यथा करिष्यते इति भावः । इति मलय०

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226