Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 195
________________ १५६ ॥ सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थः॥६४९॥ जइ पच्छकम्मदोसा हवंति मा चेव भुंजऊ सततं। तव-नियम-संजमाणं चोदग! हाणी खमंतस्स॥६५०॥ जइ गाहा। व्याख्या- यदि लेपकृतग्रहणे पश्चात्कादयो दोषा भवन्ति तदानीं मा चैव भुक्तां सततं = सर्वकालमपि। गुरुराह- तपःसंयमयोगानां हे चोदक ! हानिर्भवति सर्वकालं क्षपणं कुर्व्वतः साधोः, अतः कारणाद् भोक्तव्यमिति गाथार्थः॥६५०॥ पुनरप्याह चोदको- यदि सर्वकालं क्षपणं कर्तुमसमर्थस्ततः षण्मासक्षपणं कृत्वाऽलेपकृतं भुङ्क्ताम्। गुरुराह- यदि तपः-संयमयोगान् कर्तुं शक्नोति ततः षण्मासादपि भुङ्क्ताम्। __चोदक आह– यद्येवं ततः षण्मासक्षपणमेकदिनादिहान्याऽलेपकृतं भुञ्जानस्तावत् करोतु यावच्चतुर्थमिति एवमप्यसंस्तरणेऽल्पलेपं भुङ्क्ताम्। अमुमेवार्थं गाथयाह लित्तं ति भाणिऊणं छम्मासा हायए चउत्थं तु। __ आयंबिलस्स गहणं असंथरे अप्पलेवं तु॥६५१॥ लित्तं ति गाहा। व्याख्या- लिप्तं सदोषमिति भणित्वाऽलेपकृतं भोक्तव्यमिति गुरुवचनम्; चोकदस्त्वाह- यावजीवमेव मा भुक्तां, न चेच्छक्नोति ततः षण्मासानुपोष्य आचाम्लेन भुङ्क्तां, न चेच्छक्नोति तत एकदिनादिहान्या तावद् यावच्चतुर्थमुपोष्य आचाम्लस्य ग्रहणं करोतु, एवमप्यसंस्तरणेऽल्पलेपं गृह्णात्विति गाथार्थः॥६५१॥ एनामेव गाथां विवृण्वन्नाह आयंबिल पारणए छम्मास निरंतरं तु खमिऊणं। जति न तरति छम्मासे एगदिणणे ततो कुणउ॥६५२॥ आयंबिल गाधा। व्याख्या- यदि सर्वकालं क्षपणं कर्तुं न शक्नोति तत आचाम्लं करोतु पारणके षण्मासान्निरन्तरं क्षपणं कृत्वा, यदि न शक्नोति षण्मासानुपवस्तुं एकदिनोनांस्ततः करोत्विति गाथार्थः॥६५२॥ एवं एक्वेक्कदिणं आयंबिलपारणं करेऊणं। दिवसे दिवसे गेण्हतु आयंबिलमेव निल्लेवं ॥६५३॥ एवं गाधा। व्याख्या- एवं षण्मासावधेरेकैकदिनं परित्यज्य आचाम्लेन पारणकं करोतु तावद् यावच्चतुर्थम्, एवमप्यसमर्थो दिवसे दिवसे गृह्णात्वाचाम्लमेव निर्लेपमिति गाथार्थः॥६५३॥ गुरुराह जदि से ण जोगहाणी संपति एसे व होइ तो खमओ। खमणंतरे य आयंबिलं तु नियतं तवं कुणउ॥६५४॥ (टि०) १. साक्षप० ला०। २. ०त्थादी खं०॥ ३. सामुपो० ला०॥ ४. करोति जि१॥ ५. णूणा खं० विना॥ ६. हवेऊणं जे४ भां०॥ ७. ०मर्थे जि१॥ ८. मरहट्ठग ॥१॥

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226