Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 134
________________ नयरहस्यप्रकरणम्। भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खेवे"। [विशेषाव० भा० गा० २८४७] तथा-"सव्वणया भावमिच्छंति" [विशेषाव० भा० गा० ३६०१] ति वदतां भाष्यकृतां कोऽभिप्राय इति चेत् , अयमभिप्रायः-पूर्व शुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धान्नैगमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात् तथोक्तिः, पृथगनिक्षेपाच न प्रत्ययस्याभिधानतुल्यता, अग्रे तु व्यवस्थाधिकाराद् विशेषोक्तिरिति, मुख्यत्वरूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येत्यभिप्रेत्य मतान्तरेण वा तथोक्तिः, अत एव द्रव्यार्थिकस्य भावश्च पर्यवनयस्य" इति संस्कृतम् । भावं चिय० इनि"भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्”। सव्व० इति-"सर्वनया भावमिच्छन्ति। भाष्यकृतामभिप्रायस्योपवर्णनेनोत्तरयतिअयमभिप्राय इति । पूर्वमिति-'णामाइतियं' इत्यादिना पूर्व यद् द्रव्यार्थिकस्य नामादिनिक्षेपत्रयाभ्युपगन्तृत्ववचनं तच्छुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धात् , उपयोगलक्षणभावाभ्युपगमश्च न नैगमादेः, जलाहरणाद्यर्थक्रियाकायव भावघट इति नैगमादेरभ्युपगमः, न तु घटोपयोगो भावघट इति तदुपगमः। तथोक्तिः “णामाइनिर्य दव्वट्रियस्ल" इत्युक्तिः। “अर्थाऽभिधान-प्रत्ययास्तुल्यनामधेयाः" इति वचनान्नाम्नो नैगमाभ्युपगमविषयत्वे तत्तुल्यत्वादुपयोगस्यापि नैगमाभ्युपगमविषयत्वमास्थेयमिति न शङ्कयम् , नामनिक्षेपबदुपयोगनिक्षेपस्य पृथगनङ्गीकारेणोपयोगस्य नामतुल्यत्वाभावादित्याह-पृथगनिक्षे. पाच्चेति। अग्रे तु पश्चात् पुनः। व्यवस्थाधिकाराद् अस्य नयस्यैतन्निक्षेपःभ्युपगन्तृत्वमित्येवं व्यवस्थाधिकारात् । विशेषोक्तिः "भावं चिय०” इत्याद्यक्तिः। इतीति-स्वरूपवचनम्, एवंस्वरूपोऽभिप्राय इत्यर्थः । मुख्यत्वेति-अत्र वा अथवा मतान्तरेण भाष्यकर्तृमतभिन्नमतेन मुख्यत्व

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242