Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१७०
प्रमोदाविवृतिसंवलितं
नास्ति, इति सिद्धमिदम्-बाह्यप्रस्थकस्याऽनुपलम्भकालेसत्त्वंनेति, अनेन हेतुनोपयोगानतिरेकोऽपि बाह्यप्रस्थकस्य सिद्धयति, यतः, अनुपलम्भो नाम उपलम्भाभावः, तत्रान्यस्योपलम्भाभावदशायामपि स्वस्योपल. म्भसद्भावे स्वस्य सत्त्वं भवत्येवेति स्वोपलम्भाभावकाल पब स्वाऽसस्वं साधयितुममिलपितम्, तथा च यो यदा नोपलभ्यते स तदा नास्तीति नियमोऽनेन विवक्षितः, तत्रैतत् स्यात्-स्वस्योपलम्भोऽन्य इति तद. भावे कथं स्वस्याऽभावः ! ननु प्रमाणभावाधीना प्रमेयसिद्धिरिति स्वोपलम्भः स्वस्मिन् प्रमाणमिति तदभावे प्रमेयस्य स्वस्गाऽभाव इति चेद्. एतदपि कुशकाशावलम्बनम्-प्रमाणेन प्रमेयः साध्यत इति तदभावे प्रमेयसिद्धिर्मा भवतु नाम, प्रमाणरूपकारणाभावात् प्रमेयसिद्धिपकार्याभावस्य न्याय्यत्वात्, सिद्धिविषयस्तु प्रमेयो न प्रमाणस्य कार्यमिति कथं तदभावात् प्रमेयाभावः ?, नापि प्रमाणेन सह प्रमेयस्य 'यदा प्रमेयं तदा प्रणाणम् इत्येवं कालिकी व्यातिः, येन व्यापकीभूतस्य प्रमाणस्याऽभावाद् व्याप्यस्य प्रमेयस्याप्यभावः स्यात्, इत्थं परप्रश्ने इदमेवोत्तरं समीचीनतामञ्चति, यदुत-उपलम्भ उपयोगो योऽवभासकत्वात् प्रमाणमिति गीयते, तस्य प्रमेयेन सह कश्चित् तादात्म्यमेव सम्बन्ध इत्युपयोगात्मकन्वादेवोपयोगेन सोऽवभासते, नान्यथा इत्युपलम्भरूपोपयोगतादात्म्यादेव यदोपलभ्यते तदा समस्तीन्यनुपलम्भकाले उपयोगात्मकस्वस्वरूपाभावादव स्व. स्याऽसत्त्वेनोपयोगानतिरेकाश्रयणस्य 'यद् येन सहैवोपलभ्यते तत् तद्रूपम, यथा वस्तुनः स्वरूपम्, स्वोपयोगेन सहैवोपलभ्यत बाह्य वस्त्वित्युपयोगरूपं तद्' इत्येवमुपगमलक्षणस्य भावात् एतेन यदैव यद् उपलभ्यते तदैव तस्य सत्त्वमित्येतावताऽपि ज्ञानसमानकालीनत्वमेव ज्ञेयस्य सिद्धयति, न तु ज्ञानरूपत्वमित्याशङ्कापि व्युदस्ता, उक्तदिशा ज्ञानरूपत्वेनैव ज्ञानकाले प्रतिभासनियमोपपत्तेरिति । नन्वित्थं वाहाप्रस्थकस्योपयोगानतिरेकाश्रयणेन प्रस्थकव्यपदेशस्यो. पपादने घटादीनां बाहानामपि घटाद्याकारोपयोगानतिरेकाश्रयणादू

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242