Book Title: Mallinatha Charitra
Author(s): Hargovinddas Pt Becharas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 7
________________ श्रीविक्रमात् तत्त्व-गुणे-न्दुवर्षे ( १३२५) चूदि वीक्ष्य स्वगुरोर्मुखाच्च । ज्ञात्वाऽनघं पर्युषणाभिधाने ___ कल्पस्य किंचिद् विदधे निरुक्तम्" ॥ २॥ किञ्च, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्येतानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्यापयन्ति, तथाच धर्मविधिप्रशस्तिः "स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥ ११ ॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां महाकविविनयचन्द्राख्यः ॥ १२ ॥ या शासनपुष्टिपरा जननीवद् भव्यसंततिं पाति । सा श्रीशासनदेवी शिवतातिर्भवतु संघस्य ॥ १६ ॥ रस-मङ्गल-सूर्य(१२८६)-मिते वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां वृत्तिरिय संघसान्निध्यात् ॥ १७ ॥" एभिः सकलैः प्रमाणैरेषां सूरिवराणां समयो द्वादशशताब्द्यादिभूतस्त्रयोदशशताब्द्यन्तभूतश्चेति नितरां निश्चीयते । सरसं समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोरथलक्षजलसंकुलं दम्भस्तम्भानेकनकचक्रचक्रवालबलप्रबलं दुःखात्मनैकदुष्करमकरप्रकरप्रपूरितं मिथ्याहंकाराकारभूरिभूधराधृष्यकूटविकटं सर्वत्र दुर्योधक्रोधप्रसर्पत्सरीसृपसर्पणभीषणमनादिगभीरापारसंसारपारावारं संशोष्य, संभूष्य च खं निखिलनिर्मललोकाऽलोकलोकिन्या विज्ञानश्रिया, प्रतिष्ठाप्य च सकललोकाऽमितहितावहं संसारोत्तारकं तीर्थम् , प्रतिबोध्य च गाढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान् , उत्तार्य च कांश्चन संसारसागरात् , प्रापय्य च प्रवरशिवनगरनिकटम् , परमामनश्वरीमितरदेवदवीयसी गरीयसी पदवी प्राप्तानां श्रीमल्लिस्वामिजिनेश्वराणामामूलचूलमदभ्रपापाभ्रधवित्रं पुष्करारिष्टमललवित्रं निसर्गगुणगणप

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 568