Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 336
________________ ८ अध्यायः काव्यानुशासनम् । ३२३ 'व्यायामस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ।। एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः ॥' 'वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्यः । प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुर्वियुक्तः शेषैरन्यैर्भवेत्पुंभिः ॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । वैचित्र्यमानोपदिशन्ति । व्यायोगस्त्विति । व्यायोगः पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेन नायकता, अपि समात्यसेनापतिप्रभृतेर्दीप्तरसस्य । अत एव प्रख्यातनायकेल्यत्र उदात्तग्रहणं न कृतम् । शरीरमितिवृत्तम् । प्रख्यातो नायकः शरीरं च यत्र स तथा । अल्पश्च स्त्रीजनश्च तेन युक्तः । चेट्यादिना न तु नायिकादूत्यादिभिः कौशिकीहीनखात् । एकाहःकृत इति । एकदिवसनिर्वयं यत्कार्य तत्कृतम् ॥ यथा समवकार इति । द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामिति देशात्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह-एकाङ्क एवेति । एवकारेण एकाहचरितविषयखान्यायप्राप्तमेवात्रैकाङ्कलमित्याह-ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसङ्गं शमयति-न चेति । चो भिन्नक्रमः । दिव्यैर्देवैर्नृपैर्ऋषिभिश्च नायकैर्न निबद्धोऽयं भवतीत्यर्थः । ननु कस्मादयं व्यायोग इत्याह युद्धनियुद्धति । व्यायोगे युद्धनियुद्धप्राये युज्यन्ते पुरुषा यत्रेति-व्यायोग इत्यर्थः । संघर्षः शौर्यविद्याकुलधनरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तम्, दीप्ता रसा वीररौद्राद्याः, तदुभयं योनिः कारणमस्य । प्रख्यातेति । प्रख्याते भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वर्ण्यते तत्ख्यातम् । श्रीपर्ववृत्तान्तवद्भवतु मा वा भूदित्यप्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिंचित्करलं नाशङ्कनीयम् । दिव्यपुरुषैर्वियुक्त इति । दुःखात्मकत्वात् । शेषैरन्यैरिति । अर्थापत्तिफलम् । करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते । तत्र कृतः । निवृत्तयुद्धा उद्धतप्रहाराः पुरुषा यस्मिन् । परिदेवितं १..'व्यायोगस्तु' भरते विवेके च. १. सविसर्गपाठः प्रामादिकः. २. 'मतिदेशा' स्यात्.

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376