Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३) हेतुः, तथा हि अतिप्रयासशब्दितशब्दाभिघातादिना गिरिगह्वरादिषु प्रतिदिशं प्रसरन्तःशब्दाःसञ्जायमानाः शृणुमो वयम्, ततः स्पर्शवत्त्वान्मृता एवेति सिद्धम्, "रूपस्पर्शादिसन्निवेशो मूर्तिः, इति वचनात्॥ रूपस्प. शादिसन्निवेशो युपपत्तितः वक्ष्याम्यनन्तरमिहैव॥ किञ्चाकाशमेकमनेकं वा, यद्याद्यः पक्षः, तर्हि लक्षयोजनतोऽपि शब्दश्रवणं स्यात्, आकाशस्यैकत्वाच्छ. ब्दस्य च तद्गुणत्वान्निकटदूरादिभेदाभावात् ॥ यदोदीचीनो विकल्पः, तदा तु वदनदेशस्थितशब्दस्यान्यनभोवर्तिनः श्रोतुः कथं श्रवणं, वदनदेशाकाशगुणतयाशब्दस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसम्बन्धाभावात्, अतोऽपि न युक्तिमच्छब्दस्याम्बरगुणत्वम् ॥ नन्वाकाशगुणत्वानभ्युपगमे शब्दस्य स्थितिरेव नोपपद्यते, पदार्थमात्रेण चावश्यमेव स्थितिमता भवितव्यम्, तत्र रूपरसगन्धस्पर्शानां पृथिव्यादिभूतचतुष्टयमेवाश्रयः, शब्दस्य तु तदाश्रयत्वानुपपत्त्या आकाशाश्रयत्वं सि. यति, ततश्चाम्बरगुणः शब्द इति । तदप्यचारु, एवंसति पृथिव्यप्तेजोवाय्वादिसर्वद्रव्याणामप्याकाशाश्रयत्वेन तद्गुणत्वप्रसङ्गः । तथा च सति आकाशद्रव्याद्वैतवादः समजनि नव्यः । नचाश्रयणमानं न तद्गुणत्वप्रयोजकं किन्तु समवायः स चास्ति ध्वनेरम्बरे
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54