Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१) अत्राहुरुच्छ्रङ्खलनैयायिकाः, शब्दस्य गगनाश्रयत्वे सवयाविरोधादिदोषाहायुगुण एव शब्दः॥ तथाहि शब्दो वायुगुणः तन्नाशादेव तन्नाशात् वायुस्पर्शवदिति चेत्, मैवं, पूर्वोक्तयुक्त्या गुणत्वासिद्धया वायुगुणत्वस्यापि सुतरामसिद्धेः, वायोः सत्त्वेऽप्यनुपलभ्यमानत्वेन स्व. रूपासिद्धेः, एजनादिनाउनैकान्तिकत्वाच्च । अपि च पवनगुणत्वे तत्स्पर्शस्येव स्पार्शनप्रसङ्गः। ननु रसरूपादीनामिव शब्दस्य स्पार्शनप्रतिबन्धकत्वमिति चेत्, मानाभावात्, कल्पनागौरवाच्च, गुणचाक्षुषजनकता. वच्छेदकजात्या सह साङ्कर्यात् गुणस्पार्शनजनकतावच्छेदकजातेरप्यसिद्धिः, तथा चोक्तं भविकपद्मविबोधनभास्करैायविशारदैर्यशोविजयवाचकपुङ्गवैः, “शब्दे गुणस्पानिजनकतावच्छेदकजात्यभावान्न दोष इति चेत्, न, तादृशजातेरसिद्धेर्गुणचाक्षुषजनकतावच्छेदिकया सार्यादिति दिग्” इत्यादि। तथा च न वायोगुणः शब्दः। तथैवोक्तं मुक्तावलीकारेण विश्वनाथपचाननेनापि " न च सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम् । अयावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात् " इत्यादि । किश्च मूर्तत्वादेव नाकाशगुणः शब्दः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाह्य
For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54