Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०) क्तो यन्त्रावष्टब्धवायुस्तादृशशब्दजनकोऽभ्युपगत इति, तावतापि च नोपलभ्यमानशब्दप्रादुर्भावोपपादनं सुष्ठु भवेत्, प्रत्युत पूर्वयुक्त्यातिविचित्रस्य लौकिकविलक्षणस्य शब्दस्यैव प्रादुर्भावस्तस्माद्भवेदितीशकुस्मृ. ष्टिकल्पनापेक्षया यथोपलभ्यमानशब्दाभिधारणमेव न्याय्यं लाघवात् ॥ किञ्च वाद्यवादनोत्थशब्दानामपि यन्त्राभिधारणं दृश्यते तत्र च वायोरनुपलम्भाहाय्वभिधारणं न कल्पनाहम्। न च वाद्यवादनोत्थाः शब्दा एव नोररीक्रियन्त इति वाच्यं तत्र तत्र भवद्भिरेवाड़ीकारात, तथाहि “वीणाप्रभवशब्दग्रह इति वीणायां शब्द:," "कर्णेन वीणाशब्दंशृणोमि इति वीणादौ शब्द" इति चिन्तामणिसन्निकर्षवादरहस्ये गङ्गेशोपाध्यायः " शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः” इति कारिकावल्यां विश्वनाथपञ्चाननः, “शब्दं शृणोमीत्य नुभवसिद्धशब्दत्वजातिमान् शब्दः स द्विधा ध्वनिर्वर्णश्च तत्र ध्वनिः सङ्गीतशास्त्रसिद्धानेकभेदवांस्तत्करणं मुखवीणादि” इति कौण्डभट्टविरचितायां पदार्थदीपिकायामिति । शब्दस्याभिधारणाख्यसंयोगविशेषसिद्धौ तेन क्रियावत्त्वमनुमीयते, क्रियावत्त्वात् संयोगविशेषवत्वाच्च द्रव्यत्वमिति प्रागेव व्यासतो विचारितम्॥ तथा
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54