Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 141
________________ जइ - जीयकप्पो तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् । तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यम मात्रकं गृह्णाति मासिकम् । जघन्यं टोपरिकादि गृह्णाति पञ्चकम् । मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु । जघन्यं गृह्णाति पञ्चकम् । जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु । मध्यमं गृह्णाति मासिकम् ।।२०० ।। अथ मूलोत्तरगुणदुष्टपात्रग्रहणप्रायश्चित्तमाह मुहकरणं मूलगुणा निक्कोरणमुत्तरे गुरुग मूले । उत्तरगुणि लहुग अकोरिए अ झुसिरत्तिऽबीए वि ।।२०१।। व्याख्या-पात्रस्य यन्मुखकरणं तन्मूलगुणाः । यत् पुनर्मुखकरणानन्तरं तदभ्यन्तरवर्तिनो गिरस्योत्कीरणं तन्निक्कोरणमित्यभिधीयते तदुत्तरगुणाः । तत्र मूले मूलगुणदुष्टे पात्रे गृहीते गुरुकाश्चत्वारो भवन्ति । उत्तरगुणे उत्तरगुणदुष्टे पुनर्लघुकाश्चत्वारो भवन्ति । इदमुक्तं भवति-अत्र चतुर्भङ्गी-संयतार्थं कृतमुखं संयतार्थमवोत्कीर्णमिति प्रथमो भङ्गः । संयतार्थं कृतमुखं स्वार्थमुत्कीर्णमिति द्वितीयः । स्वार्थं कृतमुखं संयतार्थमुत्कीर्णमिति तृतीयः। स्वार्थं कृतमुखं स्वार्थमेवोत्कीर्णमिति चतुर्थः । अत्र त्रिषु भङ्गेषु प्रायश्चित्तम् । तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकाः तपसा कालेन च गुरवः । द्वितीयेऽपि चतुर्गुरुकाः तपसा गुरवः कालेन लघवः । तृतीये चतुर्लघुकाः कालेन गुरवस्तपसा लघवः । चतुर्थे भने शुद्धः । उभयस्यापि स्वार्थत्वात् । तथा अकोरितेऽनुत्कीर्णे भाजने अबीजेऽपि बीजविरहितेऽपि गृहीते चतुर्लघुका भवन्ति । शुषिरमितिकृत्वा, शुषिरं हि दुर्निरीक्षत्वेन दुष्प्रतिलेख्यं भवति ।।२०१।। अथ दग्धत्वादिदोषदूषितपात्रकग्रहणप्रायश्चित्तमाह अंतो बहिं च दद्धे पुष्फगभिन्ने अचउगुरू हूंति । अन्नह भिन्ने लहुगा हुडाइसु सत्तसु वि लहुगो ।।२०२।। व्याख्या-इह साधुना एवंविधलक्षणयुक्तं पात्रकं धारणीयं न तु निर्लक्षणम् । यदुक्तम्वटुं समचउरंसं होइ थिरं थावरं च वन्नटुं । हुंडं वायाइद्धं भिन्नं च अधारणिज्जाई' ।। (बृ०क० ४०२२,नि०भा० ५८४६, ओ०नि० ६८७) वृत्तं वर्तु तदपि समचतुरस्रम् उच्छ्रयेण पृथुत्वेन च तुल्यम् , स्थिरं सुप्रतिष्ठानं दृढं वा, स्थावरमप्रातिहारिकम् , वर्णाढ्यं स्निग्धवर्णोपतम् । एवंविधं लक्षणयुक्तं पात्रं धार्यम् । तथा हुण्डं विषमसंस्थितं यत् समचतुरस्रं न भवति । वाताविद्धं यन्निष्पत्तिकालमन्तरेणाऽगिपि शुष्कम् । आतपसङ्कुचितं वलिभूतं च सातम् । भिन्नं नाम सछिद्रं राजियुक्तं च । एवं शबलं विचित्रवर्णम् । दुष्पुतं पुष्पकमूलेन प्रतिष्ठितं यत् स्थाप्यमानमूर्ध्वं तिष्ठति, वालितं पुनः प्रलुठति । कीलकसंस्थानं कूपराकारं कीलकवद्दीर्घम् । पद्मोत्पलम् अधः पद्मोत्पलाकारपुष्पकयुक्तम् । सव्रणं क्षतसहितं दग्धम् अग्निना ध्यामितम् । एतान्युपलक्षणतया अधारणीयानि। यतः सलक्षणनिर्लक्षणपात्रकयोरिमे गुणदोषाः ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226