Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 192
________________ जई - जीयकप्पो भागो ह्रियते, तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पञ्चसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चपरिमाणोऽत्र झोषः प्रक्षिप्यते । ततो भागे हते लब्धा दश मासाः । वक्ष्यमाणकरणतो द्वौ स्थापनाया मासौ एकश्चारोपणाया मास इत्यागतास्त्रयोदश मासाः प्रतिसेविताः । एवं विंशिका स्थापना पञ्चविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते - त्रयोविंशतिमासैः । तथाहि - स्थापनादिवसा विंशतिरारोपणादिवसाः पञ्चविंशतिरेते मिलिताः पञ्चचत्वारिंशत् । ते षण्मासदिवसेभ्योऽशीतिशतसङ्ख्येभ्यः शोध्यन्ते । जातं शेषं पञ्चत्रिंशशतम्। ततोऽधिकृतपञ्चविंशतिदिनया आरोपणया तस्य भागो ह्रियते । तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पञ्चदशसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चदशपरिमाणोऽत्र झोषः प्रक्षिप्यते लब्धाः षण्मासाः । तथा वक्ष्यमाणकरणतोऽधिकृतारोपणया पञ्चभिर्भागो हियते लब्धाः पञ्च ते द्विरूपहीनाः क्रियन्ते, जातास्त्रय एतावन्त आरोपणाया मासा यदि वेयं तृतीयारोपणेति ते षण्मासास्त्रिभिर्गुण्यन्ते जाता अष्टादश, द्वौ स्थापनामा सौ त्रयश्चारोपणामासा इत्यागताः सर्वसङ्ख्यया त्रयोविंशतिमासाः । अथवाऽन्यथा झोषपरिमाणं कथयति— ठवणादिवसे माणा विसोहइत्ताण भयह रुवणाए । जो छेयं सविसेसो अकसिणरुवणाइ सो झोसो' ।। ( व्य०सू० ३७१ ) मानात् षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसान् अधिकृतस्थापनावासरान् विशोध्य यच्छेषमवतिष्ठते तत् आरोपणया अधिकृतारोपणादिवसैर्भज भागहारं कुरु । भागे च हृते यच्छेदांशानां विश्लेषः । इह विश्लेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः । स तावत्प्रमाणोSकृत्स्नारोपणायां झोषः । यथा षण्मासदिवसपरिमाणादशीतिशतात् विंशतिकायाः स्थापनाया दिवसा विंशतिरिति शोध्यते । जातं षष्ट्यधिकं शतं १६० । ततः पाक्षिक्यामारोपणायां सञ्चयमासा ज्ञातुमिष्टा इति पञ्चदशभिर्भागो ह्रियते, स्थिताः शेषा दश अधस्ताच्छेदः पञ्चदश । तेभ्यो दश विश्लिष्यन्ते स्थिताः पञ्च, आगतं पञ्चदशिक्यामकृत्स्नारोपणायां पञ्चको झोषः । तथा अशीतिशतात् स्थापनादिवसा विंशतिः शोध्यन्ते, जातं षष्टं शतं १६० । ततः पञ्चविंशतिदिनाया आरोपणायाः सञ्चयमासा ज्ञातुमिष्टा इति पञ्चविंशत्या भागो ह्रियते, शेषा दशच्छेदोऽधस्तात् पञ्चविंशतिः तस्य दशविश्लिष्यन्ते स्थिताः पञ्चदश । आगतं पञ्चविंशतिदिनायामारोपणायां पक्षो झोषः । एवं सर्वत्र भावनीयम् ।। अत्थ पुण देइ सुद्धं भागं आरोवणाओ सा कसिणा । दुण्हं पि गुणसु लद्धं इच्छिअरुवणाइ जइ मासा' ।। (व्य०सू० ३७२) यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धभागं प्रयच्छति, न किञ्चित् पञ्चाद्यस्यावतिष्ठते इति भावः । सा आरोपणा कृत्स्ना ज्ञातव्या । यथा विंशतिदिना । तथाहि - केनाऽपि पृष्टं विंशतिकास्थापना विंशिका चारोपणा

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226