Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
५७
कठोपनिषत् । यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलायः' इति । अथ कथं तस्यानुप्रवेशः । यच्छुद्धं परं ब्रह्म तदेवाऽऽत्मगतचित्प्रकृत्यवलम्बनेनेश्वरत्वं प्राप्य स्वनिर्मितस्याण्डस्यान्तः 'पुरश्चक्रे द्विपदः पुरश्चके चतुष्पदः पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् ' इति अंशत्वेन जीवरूपेणानेकधा संभूय तत्पुरप्रवेशं कृतवानत उक्तमनुप्रविष्टमिति । तस्माज्जीवरूपं तत्सोपाधिकस्य परमात्मनोंऽशभूतत्वात्सोपाधिकमेव । तत्रोपाधौ यानि यानि गुणनिमित्तत्वेन संभतानि तत्त्वानि तत्र तत्र सत्तारूपेणान्तस्तदेव वर्तमानम् । जीवरूपेण संभवनेऽनुप्रवेश एव निमितम् । पुरेऽनुप्रविष्टस्य तस्य किं मुख्यं स्थानमिति चेत् । गुहाहितम् 'अधोनिष्ठया वितस्त्यान्ते नाभ्यामुपरि तिष्ठति ' इत्यादिभिर्वाक्थैर्या हृत्पुण्डरीकरूपा गुहा तस्यामाहितं स्थितं सत् । अतस्तत्परवेश्मभूतत्वेनाप्युच्यते-'दहरं विपापं परवेश्मभूतम् ' इति । तत्रापि कथं तदवस्थितत्वमिति चेत् । गह्वरिष्ठम् । अतिशयितं गह्वरं गूढं गह्वरिष्ठम् । कथं तत्रापि 'दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्' इत्युक्तत्वान्न केवलं हृत्पुण्डरीक एव वर्तमानम् । तस्यान्तर्यद्दहरं गगनं तदन्तर्वर्तित्वेनाऽऽच्छन्नम् । अतस्तदन्तर्दृष्टयाऽवेक्ष्यमाणे तद्गनमेव भाति न तत् । जीवरूपेणानुप्रविष्टत्वाजातत्वं स्यादत उच्यते-पुराणं चिर. न्तनम् । दुर्दर्शनोक्तत्वादनुमवाभावः स्यादत आन्नातम् 'अध्यात्मयोगाधिगमेन। आत्मन्यधिकृतो योगोऽध्यात्मयोगस्तेन योऽधिगमो ज्ञानं तेनाध्यात्मयोगाधिगमेन । देवं द्योतमानं स्वप्रकाशं सच्चिदानन्दरूपं तमात्मानं मत्वाऽऽत्मन्यात्मत्वेनापरोक्षत्वेनानुभूय धीर उक्तविवेकवान्हर्षशोको जहाति त्यजति । प्रियं प्राप्य न हर्षमेति नाप्यप्रियं प्राप्योद्विजते च । समदुःखसुखः स्वस्थ: समलोष्टाश्मकाञ्चनो भवति । स्वरूपातिरिक्तस्य सर्वस्य विवर्तरूपत्वदर्शनात् । अथ कथमध्यात्मयो. गाधिगमः। योगस्त्रिविधः कर्मोपासनाज्ञानभेदेन । तत्र कर्मोपासनायोगयोरात्मेतरदेवताराधनपरत्वेन नाध्यात्मयोगत्वम् । तौ पूर्वपक्षभूतावेव । तृतीयो ज्ञानयोगः ' राजविद्या राजगुह्यं पवित्रम् ' इत्यादिना वर्णितः स एव । कथमिति चेत् । रहसि सदाचार्यप्रसादलभ्यपरविद्याप्रकाशेनानात्मभूतबाह्यविषयान्परित्यज्य तत्र सक्तमात्मप्रज्ञानं ततः प्रत्यावाऽऽत्मनिष्ठं कुर्यात् । तदात्मानात्मविवेकतोऽनात्मभूतमिदं स्थूलमात्मत्वेन प्रतीयमानमपि दृश्यत्वाज्जडत्वात्कर्मजत्वादनात्मभूत

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102