Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 85
________________ ८६ अर्थप्रकाशसमेता तया जानतः सतो मुनेर्मननशीलस्य तथाऽभ्यासिन आत्मा तादृगेव पूर्ण स्वरूप एव भवति पूर्वमपि तदेवाऽऽसीन्मध्य उपाधियोगादन्यथा - त्वमिव प्राप्तः पुनस्तदपगमे तदेवास्ति तस्माद्भेदो मृषैव ॥ १५ ॥ इति श्रीदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्लघुपनिषदर्थप्रकाशे चतुर्थी वल्ली व्याख्याता ॥ ४ ॥ आत्मनः सर्वात्मकत्वविज्ञानाय पुनस्तमेवाभिप्रायं प्रकारान्तरेणाऽऽहपुरमेकादशद्वारमजस्य वक्रचेतसः । अनुष्ठाय न शोचन्ति विमुक्तश्व विमुच्यत एतद्वै तत् ॥ १ ॥ अजस्य शुद्धात्मरूपेणाजो यतोऽजोऽतोऽनादिसिद्धस्तस्य वक्रचेतस उपाधियोगात्संप्राप्त देहस्य तगुणप्रधानत्वेनान्यथाज्ञानयोगाद्वक्रं चेतो यस्य तस्याऽऽत्मनः पुरं 'दह्वं विपापं परवेश्मभूतः हृत्पुण्डरीकं पुरमध्यस स्थम् ' इत्युक्तत्वाच्छरीरमेव स्थूलं पुरम् । सोऽत्र राजेवाध्यक्षो नानाविषय मोगवानवस्थात्रययोगेण क्रीडापररूपावसथस्तत्र मुख्यं स्थानं वेश्मभूतं हृत्पुण्डरीकं ज्ञेयम् । पुरस्य द्वाराणि वर्तन्ते तथेदमध्येकादशद्वारम् । एकादश द्वाराणि यस्य तत्तथा कानि तानि द्वे भोत्रे द्वे च नेत्रे द्वे च नासे एका च रसनाऽधश्च द्वे गुदोपस्थावेकं च त्वग्रूपं स्पर्शज्ञानद्वारमिति दश द्वाराण्येकं च ब्रह्मरन्ध्रमित्येकादश द्वाराणि । तद्वारेण ज्ञानस्य बहिरागमनं विषयाणां च सूक्ष्माणामन्तः प्रवृत्तिर्भवति । एवं तदात्मनः पुरमनुष्ठाय न शोचति न शोकं सांसारिकं प्राप्नोति । विमुक्तश्च विमुक्त एव शुद्धस्वरूपेण तथाऽपि विमुच्यते संप्राप्ताविद्यावरणनिरा. सेन प्रविमुक्तो भवति । उक्तं चान्यत्र ' ब्रह्मैव सन्ब्रह्माप्येति ' इति । ननु सर्वेषामपि तत्पुरानुष्ठानं वर्तत एव नु (न) कुतस्तेषां विशोकत्वं विमु. क्तिश्च । सत्यं, सर्वैरधिष्ठितमेव तथाऽपि न तेषां पुरस्य ज्ञानं तत्रत्यानां स्थानानां मुख्यं हृत्पुण्डरीकरूपमात्मनो नित्यनिवासस्थानं तस्यापि तदध्यक्षस्याऽऽत्मनोऽप्यन्यथाज्ञानप्रधानत्वेन तदात्मत्वेनैव मन्यमानास्तेनाहंममत्वयोगेन स्त्रीपुत्रवित्तपदार्थवियोगे शोचन्ति यथा राजा स्वप्नावस्थायामन्यथाज्ञानयोगेन स्वपदमात्मनो वैभवं च विस्मृत्य तत्रत्यं विपरीतं दुःखजनकं भावं यथार्थत्वेन मन्वानः शोचति । ततो यथाकालं तामवस्थामुल्लङ्घ्य प्रज्ञानावलम्बनेन जागरितो भवति तदा प्रति M

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102