Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
९०
अर्थप्रकाशसमेता
कत्वेन तत्तदेव । तद्ब्रह्म परं तस्य तदपृथग्रूपत्वात् । तदेवामृतमविनाश्युच्यतेऽतोऽन्यदार्तम् । तस्मिन्पूर्णे सर्वगते सत्तारूप आत्मनि सर्वे ब्रह्मभु बनाढ्यो लोकाः श्रितास्तमेवाऽऽश्रित्य वर्तन्त उत्पत्तिस्थितिलयकालेषु तदपृथक्सद्धा विवर्तरूपत्वात् । कश्चन कोऽपि तद्दात्मरूपं नात्येति नातिक्रम्य गच्छति । तस्मात्तदूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत ईश्वरत्वादेः सर्वस्यापि तत्कार्यत्वात्तद्गतिरेव । यथा न जलातिरिक्तत्वेन तरङ्गस्य गतिरस्ति । एतद्वै तत् ॥ ९ ॥
कथं सर्वस्य तदाश्रितत्वं तदाह
अग्निर्यथैको भवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूप रूपं प्रतिरूपो बहिश्व ॥ १० ॥ यथैकोऽग्निः परमात्मना स्वसंकल्पेन सृष्ट आवरणभूतो भुवनं मवत्यस्ति सर्वमस्मिन्भुवनं ब्रह्माण्डभंशत्वेनं प्रविष्टः सन्रूपं रूपं प्रतिप्राणिशरीरं प्रतिरूपो जठराग्निरूपेणानेकधा बभूव । तथैकोऽद्वितीयः सर्वभूतान्तरात्मा सत्तारूपेण सर्वत्र वर्तमानो रूपं रूपं प्रतिरूपो जीव रूपेण बभूव किं तद्रूपम् । नानाविद्या एव । कथं तासामाश्रयाजीवरूपात्प्रागवस्थानम् । न तद्भेदेन सहसैव प्रतिरूपत्वं तासाम् । कथं, ' बह्वस्यां प्रजायेय ' इति संकल्पेन निरुपाधिकस्यांशत्वेनासंभवात्तत्प्रकृतिर्मायैवांशत्वेनाविद्यारूपेणानेकधा संबभूव ता आश्रयाद
सिद्धा अतस्तदेशेन प्रतिरूपेण सहैव विभिन्नाः । यथा काष्ठोपाधावंशत्वेन विभिन्नेऽग्नेरप्यंशभेदो भवति तथा जीवरूपेण संबभूव । अत एवोच्यते ' इन्द्रो मायाभिः पुरुरूप ईयते, युक्ता ह्यस्य हरयः शता दश ' इति । किं जीवरूपेणान्तरेव वर्तते । बहिश्वापि सर्वगतत्वेन वर्ततेऽन्तरशून्यः ॥ १० ॥
किंच
वायुर्यथैको भुवनं प्रविष्टो रूप रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ११ ॥
यथैको वायुर्वहनरूपो ब्रह्माण्डाभयो भुवनं प्रविष्टोऽधिदैवतरूप रूपं रूपमध्यात्मप्राणरूपेण प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्व ॥ ११ ॥ .

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102