Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 163
________________ (१४०) मुनिचन्द्रसूरिषिरचितवृत्तिसमेत होंति दोसु कप्पेसु । तिसु वायपइट्ठाणा, तदुभयसु पइट्ठिया तीसु ॥१॥ तेण परं उवरिमया, आगासंतरपइट्ठिया सव्वे । एस पइट्ठाणविही, उड्ढलोए विमाणाणं ॥२॥” इति ॥३११॥..... ननु तिष्ठत्ता(तिष्ठतु ता)वत्सांप्रतं प्रस्तावप्राप्तमपि संस्थानद्वारम्, एतद्वयं ज्ञातुमिच्छामः-किमेतान्यावलिकाप्रविष्टानि विमानानि पुप्पा-. वकीर्णानि च सर्वदेवावासेषु भवन्ति ?. उतास्ति कश्चिहिशेष इति ?, अत्रोच्यते-- प्रावलियपविट्ठा बाहिरा य जा उवरिमा उ गेवेजा। . आवलियपविट्ठा चेवऽणुत्तरा जे विमाणवरा ॥ ३१२ ॥ . 'आवलिकाप्रविष्टा बाह्याश्च ' प्रतीतरूपा एव विमानाः, किम् ? इत्याह-यावदुपरिमाणि 'तुः' पूरणार्थः ग्रैवेयकाणि, सौधर्मेशानाभ्यामारभ्य यावदुपरिमाणि अवेयकाणि तावत्सर्वदेवलोकेष्वावलिकाप्रविष्टानि तदितराणि च विमानानि सन्तीति भावः । एतच्च प्रायो व्यवहारापेक्षमेव, यतोऽधस्तनौवेयकत्रिके आवलिकाप्रविष्टान्येव विमानानि सन्तीति । आवलिकाप्रविष्टाश्चैव · अणुत्तराः ' न विद्यन्ते उत्तराणि-[ प्रधानानि ] वर्णगन्धरसस्पर्शादिभिर्गुणैर्विमानानि येभ्यस्ते तथा 'ये' इति समयप्रसिद्धाः, अत एवाह-' विमानवराः ' प्रधानविमानाः सर्वार्थसिद्धप्रस्तटविमाना इति भावः ॥ ३१२॥ उक्तमपि प्राक् सर्वविमानसंस्थानं द्वारगाथोपन्यस्तसंस्थानद्वारानुरोधेनाह-. तत्थावलियपविठ्ठा, वट्टा तंसा तहेव चउरंसा। . पुप्फावकिरणगा पुण, अणेगविहरूबसंठाणा ॥ ३१३ ॥ व्याख्यातार्थेवेयं गाथा । एतद्वारोपन्यासः किमर्थमिह ? इति चेत् ,

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196