Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 161
________________ (१३८) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं स्थितः सर्वकनकभयः । स चानेकैः पञ्चवर्णैः कपिशीर्षकैोजनायामैर योजनविस्तृतैः किश्चिदूनयोजनोच्छ्रितैर्मणिमयैरुपशोभितः । तस्य चैकैकस्यां बाहायामेकैकं द्वारसहस्रं भवति । तानि च द्वाराणि पञ्चयोजनशतोच्छ्रितानि अतृतीययोजनशतविस्तृतानि तावत्प्रमाणप्रवेशानि रत्नकनकमयानि । विमानमध्यभागवर्तिवक्ष्यमाणलक्षणा उपकारिकलयनोपरिप्रासादा पूर्वोत्तरस्यां दिशि योजनशतायामा पञ्चाशद्योजकाविस्तृता. योजनसप्तत्युच्चा सभा सुधर्माभ्या (ख्या) भवति । उपकारिकलयनमध्ये च मूलप्रासादः पञ्चयोननशतोचः, अतृतीययोजनशतविस्तृतः । एतसर्व राजप्रसेनज़िदुपाङ्गे साक्षादेवोपलभ्यते । एतदई च सर्वत्र चमरचञ्चाबलिचञ्चयोर्वाच्यम् । प्रस्तुतसूत्रोक्तं द्वारप्रमाणं सहस्रद्वयलक्षणं मतान्तरसंभाव्यतमिति (मतान्तरं संभावितव्यमिति) ॥३०॥ तथा--- - सोहम्मे ईसाणे, बोधव्वा ओवगारिया लेण (णा)। • एगं तु सयसहस्सा, विकंभायामओ भणियं (या) ॥३०६॥ सौधर्मे ईशाने बोद्धव्यानि 'औपकारिकानि' मूलप्रासादोपकारप्रयोजनानि लयनानि, किम् ? इत्याह-'एकं तु' एकमेव शतसहस्रं 'विष्कम्भायामतः ' विष्कम्भेनायामेन च प्रभणितानि तीर्थकरगंणधरादिभिः । उच्छ्रयश्चैतेषां योजनप्रमाणः शास्त्रान्तरोक्तो द्रष्टव्यः । एतानि च किलोपकारिकलयनानि देवकुलपीठबन्धवन्मूलप्रासादपीठरूपाणि बो व्यानि । तदुपरि मूलप्रासादाः पञ्चयोजनशतोच्छ्याः , तदनु च चतुर्दिशि तत्परिवारभूताश्चत्वारः, तेषामपि पूर्वक्रमेणैव चत्वारश्चत्वार इति षोडश, एषामपि प्रत्येकं प्रत्येकं चत्वार इति चतुःषष्टिः । १ राजप्रश्नीयोपाने इत्यर्थः ।

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196