Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 424
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सभिक्षः श्रीदशवेकालिक श्रीहारि० वृत्तियुतम् 11४००। सकार ॥अथ दशममध्ययनं सभिक्ष्वाख्यम् ।। दशममध्ययन अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचारप्रणिहितो यथोचितविनयसंपन्नो भवति । नियुक्तिः एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितःस सम्यग्भिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, ३२८-३२९ अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो। अभिसम्बन्धः सकारनिक्षेपाः भिक्षुश्च, तत्र सकारनिक्षेपमाह नियुक्ति: ३३० नि०- नामंठवणसयारो दव्वे भावे अहोइ नायव्वो। दव्वे पसंसमाई भावे जीवो तदुवउत्तो ।। ३२८ ।। निक्षेपाः। नामसकार: सकार इति नाम, स्थापनासकार: सकार इति स्थापना, द्रव्ये भावे च भवति ज्ञातव्यः द्रव्यसकारो भावसकारच, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीवः तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ॥ ३२८ ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाह नि०-निदेसपसंसाए अत्थीभावे अहोई उसगारो। निहेसपसंसाए अहिगारो इत्थ अज्डायणे ।। ३२९॥ निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष । इत्यादि, अस्तिभावे यथा सद्धतममुकमित्यादि। तत्र निर्देशप्रसंशाया मिति निर्देशे प्रशंसायांच यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ ३२९ ।। एतदेव दर्शयति नि०-जे भावा दसवेआलिअम्मि करणिज वण्णिअजिणेहि। तेर्सिसमावणमिति (मी)जो भिक्खू भन्नइस भिक्खु॥३३०॥ ॥४००॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466