Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 81
________________ ६२ प्रकाशसहिता केषां चिद् व्यवस्थामाह-तत्रेति । स्मृतिषु नितान्तमतिशयेनानुरक्ता अभिनिविष्टा इत्यन्वयः । मनाग = अल्पम् । अनेनानुवादसमय एवावरसः सूच्यते, श्रुतिमूलत्वेन स्मृतिपुराणयोर्विशेषाभावादिति । महत्सु वा ज्ञानकृतेषु वा प्रकाशकृतेषु वा पापेषु स्मार्तं प्रायश्चित्तम् , इतरेषु पौराणमिति व्यवस्था, कर्तृव्यतिरिक्तनाज्ञातं रहस्यम् तस्मिन्नेव मते परं विशेषमाह-ततश्चेति । अल्पेऽज्ञानकृते रहस्यकृते च पातके स्मातं प्रायश्चित्तमस्त्येव किंतु तस्य नामकीर्तनेन विकल्प इति भावः । तदेतद्दषयति-तन्नेति । गुरुणि पापे गुरूणि प्रायश्चित्तानि, अल्पे. ऽल्पानि, स्वायंभुवो मनुस्तदादयो जगुः । तेषामिति निर्धारणे षष्टी । तेषामशेषाणां गुरुलघुप्रायश्चित्तानां मध्य इत्यर्थः । परशब्दार्थमाहमुख्यति । ननु को नाम न ब्रूते कृष्णानुस्मरणं महापातकादिप्रकीर्णान्तसाघसंहरणमिति, सा हि ब्रह्मविद्या, तथा हि कृषति विलिखति विदारयति संसाराटवीमिति वा कर्षति आकर्षति आत्मसात्करोति वाऽज्ञानमिति वा कृष्णः परमात्मा सदानन्दरूपो वा कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत इति च स्मृतेः, तस्य चायमर्थः, भवनं भूःसत्ता तदाचको भूवाचको न तु पृथिवीवाचक इति; निवृतिवचनेनणकारेणानन्वयात्, पृथिवीवर्तिनों जीवानामानन्दोयस्मादिति विग्रहे लक्षणाप्रसङ्गाद्, प्रास्थावरमाचतुराननंच सर्वेषां जीवानामानन्दयितरि स्वसमयपरिपच्यमाननानापुण्योपसादितविविधविषयसन्निधिसंमृज्यमानम-- नोमुकुरमण्डलान्तरभिव्यज्यमानतया तत्तदानन्दतयोपधीयमाने परमात्मनि पृथिवीगतानन्दत्वस्य तद्हेतुत्वस्य चाविवक्षितत्वाद्, विरक्षितत्वेवा "ये वाऽमुष्मात्पराञ्चोलोकास्तेषां चेष्टे देवकामानां चे"त्यादिशास्त्रविरोधात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160