Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
Catalog link: https://jainqq.org/explore/034479/1
JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1
--------------------------------------------------------------------------
________________
संस्कृत 143
IMA
Shree Sudharmaswami Gyanbhandar-Umara, Surat
'www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
KKERSES+
• >>>>»<<
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक-श्री गौरीशंकर गोयनका, अच्युत ग्रन्थमाला कार्यालय, काशी । मुद्रक-श्री माधव विष्णु पराड़कर, शानमण्डल यन्त्रालय, कबीरचौरा, काशी।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
श्रीः ।
प्रकाशकीयं मन्तव्यम् ।
महदिदमस्माकं प्रमोदस्थानं यदस्याः प्रत्नानां संस्कृतग्रन्थानां जीर्यतां मामशेषतां गन्तुं चोपक्रान्तानां मुद्रणप्रचारादिभिः समुद्धाराय सत्यावश्यकत्त्वे प्रचलतामप्रचलताञ्च ग्रन्थानां हिन्दीभाषान्तरेण संयोज्य मुद्रणप्रचारादिभिः संजीवनाय - समधिगतात्मलाभाया अच्युतग्रन्थमालायाः प्रथमपुष्पभूतं श्रीभगवन्नामकौमुदीनामकं पुस्तकं प्रकाशमुपगतम् ।
इयं हि ग्रन्थमाला गुरुवर्य श्री १०८ परिव्राजकाचार्य महर्षि कल्पानां श्रीमदच्युतस्वामिनां नाम्नाऽनुस्यूतेति महत्सौभाग्यमस्याः ।
एते स्वामिमहोदया धर्मस्य ज्ञानस्य चाविनश्वशं तनुमधिष्ठायाद्याप्यस्मास्वेव विद्योतन्त इति नूनमपरं प्रमोदस्थानम् अस्माद्विदितवेदितव्यान्महात्मनो बहवो जिज्ञासवस्तत्तत्त्वमनायासेनाधिजग्मुर् “यद् ज्ञात्त्वाऽमृतमश्नुते” सर्वोऽपि भाग्यवाञ्जनः । पाखण्ड परिपूरिते दूरीकृतार्षोपदेशानुरागे स्वेच्छाप्रमाणभूतेऽत्र • कलौ महान्त एते स्वामिमहानुभावा द्रष्टृणां हृदि स्थापयन्ति प्रवपुरुष श्रद्धामितीदृशा एव प्रणम्या दर्शनीयाश्च महाभागाः । श्रद्धया हेलया वा सकृदपि समुच्चरितं - महन्नाम व्यपनयति दुरितजालं, सूते च कल्याणपरम्परामिति महतां वचस्यास्थामाधायैवास्या ग्रन्थमालाया नाम समधिगतात्मलाभप्रसादान।मच्युतस्वामिनांनाम्ना समुहङ्कितं तञ्चरणाश्रितैरस्माभिः । महत्रामानुस्यूतेयं ग्रन्थमाला ऋषीणामुपदेशाननुसरन्ती प्रचारयिष्यति ज्ञानं समुद्भासयिष्यति च धर्मस्वरूपमिति मे दृढा
प्रत्याशा ।
9
अन्वर्थनाम्नीयं भगवतो नाममाहाल्यं बोधयन्ती "श्री भगवन्नामकौमुदी" पौराणिकानां नाममाहात्म्यप्रतिपादकानां वाक्यानामर्थ विशदयति, सङ्गमयति च तानि वाक्यानि स्मृतिवाक्येभ्यः । उपपत्या प्रमाणैश्च समुपेतमिदं पुस्तकं भक्तानांमनोविनोदाय, भक्तिस्वरूपे विवदमानानां सन्देहसमुन्मूलनाय, जिज्ञासूनाञ्च कृते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
(
२ )
भक्तिस्वरूपप्रकाशनाय क्षमत इति सर्वोऽपि जनः प्रतीयात् । अत्र ग्रन्थस्यास्य महिमानं न साकल्येन वर्णयितुमिच्छत्ययं जनः, ग्रन्थस्य पुरोवर्तित्वादात्मनश्चापाटवात् ।
___ इदं पुस्तकं श्रीमद्भिराचार्यगोस्वामिदामोदरशास्त्रिमहोदयः सावधानं सम्मादितम् । प्रसिद्धं हि वैदुष्यं श्रीमतां गोस्वामिप्रवराणां, विश्रुता चैषां विकुण्ठा प्रतिभा, प्रथिता च नवनवविषयागाहिनी शेमुषी । नूनमीदृशा एव विश्रुतवैदुष्या महान्तः पुस्तकमेतादृक् सम्पादयितुं प्रभवन्ति । तच्चात्र सङ्घटितमित्यपरं सौभाग्यं ग्रन्थमालाया अस्याः।
आशास्महे पुस्तकमिदं भारतीयानामस्माकं हृदयात्प्रतिदिनं विलुप्यमानां नामश्रद्धां दृढीकरिष्यति, दूरमुत्सारयिष्यति नाममाहात्म्यपरिपन्थिनः कुतर्कान् ।
श्रीमतामच्युतस्वामिनां चरणयोः सश्रद्धं प्रणता वयं श्रीमत आचार्यगोस्वामिदामोदरशास्त्रिमहोदयान् धन्यवादेर्योजयामः, येषां कृपयाऽसमेन परिश्रमेण च पुस्तकमिदमग्र जनसाधारणगोचरीभूतमिति निवेदयति ।
विनयावनतोगोयनकोपाख्यो गौरीशङ्करः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
सम्पादकीयं वक्तव्यम् ।
श्रीमद्धनुमद्भीममध्वान्तर्यामिरामकृष्णवेदव्यासात्मकसश्चिदानन्दविग्रहपूर्ण - तमाह्लादिनी शक्त्यभिन्नीकृत स्वरूपप्रेमावतारंभगबत्श्रीश्रीगौरकृष्णः शरणम् । निखिलश्रुतिमोलिरत्नमाला द्युतिनीराजितपादपङ्कजान्त ! श्रयि मुक्तकुलैरुपास्यमानं परितस्त्वां हरिनाम संश्रयामि । इह किल चेतनाचेतनात्मकत्वेन परिचीयमाने वैरिश्चप्रपञ्च चेतनस्यैव साक्षात्परम्परासाधारण्येनाचेतनप्रवर्तकताऽऽनुभविकीत्यत्र न कस्यापि वैमत्यं, किन्तु चेतनप्रवृत्तेः स्वार्थकारुण्यान्यतरव्याप्यत्वनियमेन प्रवृत्तिम्प्रति कारणत्वेन क्लृप्तज्ञानस्येष्टसाधनत्व विषयकतायामप्यविवादादावश्यके प्रवर्तकज्ञानीय विषयतापन्नेष्टस्य प्रवर्तमानप्रयोजनस्वरूपत्वे फलस्य चेच्छान्तरानधानेच्छाविषयत्वेच्छान्तराधीनेच्छाविषयत्वाभ्यां मुख्यगौणभेदतो द्वैविध्यात् सुखतत्साधनरूपस्य पुनरपि नित्यत्वानित्यत्वाभ्यां मुख्यस्य दृष्टत्वादृष्टत्वाभ्यां च गौणस्य प्रत्येकं - द्विरूपतया तत्रादृष्टगौणस्याधर्मत्वेन दृष्टगौणस्यार्थत्वेनानित्यमुख्यस्य कामत्वेन नित्यमुख्यस्य मोक्षत्वेन व्यवहाराद् धर्मार्थकाममोक्षाख्यपुमर्थरूपत्वेन चातुर्विध्यं पर्यवस्यति ।
न च भूना दर्शन विशेषरीतितो दुःखसामान्याभावस्यैव मोक्षरूपतया तस्य च नित्यत्वेऽपि सुखत्वाभावात् कथमिव नित्यमुख्यताऽनुपदमुक्ता सङ्गच्छतामिति वाच्यम् ।
यत्प्रतीतीच्छया वक्त्रोच्चार्यते शब्दः स एवार्थ इत्यनुभवमनुरुद्ध्य प्रवृत्ताद् 'यत्परः शब्द स शब्दार्थ' इतिन्यायाद् विविधप्रस्थानानि प्रचारयद्भिराचार्यैराविर्भावितेषु शास्त्रत्वेन सम्प्रतिपन्नेषु महावाक्यात्मकशास्त्रभेदापत्तिपरिजिहीर्षया प्रातिस्विकरूपेण तत्तत्प्रतिपाद्यविशेषस्यैकत्वेऽवश्यं वाच्येऽर्थादेव तत्रत्यं मुख्यत्वमपि तत्र नान्तरीयकमेवेति तदीयेतरेषु प्रतिपाद्येषु तन्निरूपिताङ्गत्वमर्थसमाजलब्धम् एवंचाङ्गमङ्गत्वादेव स्वाङ्गधनुरुन्धानं प्रधानान्तरेणाप्रधानान्तरेण च विसं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
( २ ) वदमानमपि न क्षतिकरं, क्षतिकरश्च विरोधः प्रधानानामेव मिथः, विरोधश्चैकविषयतायामात्मानं लभते, ततश्चानधिगतार्थाधिगमकत्वरू. पप्रामाण्यरक्षाऽऽथं शास्त्रान्तरेण प्रधानत्वेन प्रमापितमर्थमप्रमापयदेव शास्त्रं प्रमाणतामनुते नापरथेति शास्त्रीयप्रधानप्रतिपाद्यानामपि सगो. त्रकलहो दूरापेतः, अतश्च मुक्तेर्दुःखाभावतां सङ्गिरमाणानि दर्शनानी. होदासीनानि खल्वन्यान्यमेव विषयं प्रधानत्वेन प्रतिपादयन्तीतीमे हि तेभ्यः श्रोतव्या आस्थेयाश्च ।
मुक्तितत्त्वं पुनरस्यैव प्रधानत्वेन प्रतिपादकाद्दर्शनात् अत्वाऽऽ. स्थेयमित्येव निरपेक्षवैदुष्यसरणिः । एतत्परञ्च शास्त्र मुक्तरात्मलाभात्मकतां प्रतिजानानमात्मनः सच्चिदानन्दरूपतां सिद्धान्तयतीत्य. र्थान्मुक्तिनित्यमुख्यफलात्मिकाऽभ्युच्येत चेत् का हानिः । ___एतादृशैतदधिगतौ चैतदीयसाधनानामनुशीलनचिन्तायां साक्षा. दारादुपकारकताभिर्भूयसामध्येषां सङ्कलनेन पुनश्चत्वारो विभागाः कर्मज्ञानभक्तियोगाख्याः। __ एषु च कर्मत्वेन प्रसिद्धानामन्तःकरणशुद्धिविधायकत्वेन; निजागसहितस्य चित्तस्थास्नुतारूपस्य योगस्य तु कर्तव्यमात्रापेक्षणीयत्वेन पूर्वनिर्दित्रयेऽपि सहकारित्वेनोपादेयतया सर्वपथीनैः साधनप्रवणैः, सङ्ग्राह्यतौचित्यमावहति, भक्तिज्ञानयोरुदयस्य तु प्रथमसीमा कर्मप्रयुक्तातिशयाघाननरपेक्ष्यकालः, तदा हि शुद्धसत्वाः सिषाधयिषवो निसर्गतो द्विविधाः-के चन विषयमात्रजातवैराग्या निर्वा. तुकामा भवन्ति; अपरे चात्मोपलब्धिकामा भगवत्कथाऽऽद्यनुरा. गिणो भवन्ति,
इयांस्तु विशेषः-पूर्वे सायुज्याधिकारिणः; उत्तरे सामीप्याद्यधिकारिणः। श्रयश्च विशेषोऽनादिसंसारप्रवाहपतितानां विचित्रसं. स्कारविपत्रिमरुचिभेदानां जीवानां स्वाभाविकतया न पर्यनुयोज्यतामहति ।
एवश्वात्र भक्तिशब्दोभजत्यनयेति व्युत्यत्त्या क्तिनो बाहुलिकत्वेन संज्ञाऽर्थकेन वा क्तिचा निष्पन्नः साधनपरो, न तु भजनं भक्तिरित्येवंप्र. कारेण फलात्मिकां प्रेमलक्षणां भक्तिमभिदधाति ।
इत्थं च साधनभक्तित्वाकान्तेषु भूयोऽतिभूयस्स्वपि भेदेषु भजनीयानुकूलताप्रयोजकत्वेनानुगतीभूतेष्वपि भत्त्याचार्यप्रवरमहात्ममू.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
धन्यश्रीप्रसादसमवेतभक्तिविभाजकत्वप्रकारकतात्पर्यविषयसङ्ख्याss. श्रयाणां भक्तिविभाजकानां श्रवणत्वादीनां नवत्वस्यैवापरसकलभेदस.
झाहकत्वेनाचार्यरूपैरभ्युपगमाद्, अन्यरूपाणां भक्तित्वव्याप्यस्यापि व्याप्यत्वेन भक्तिविभाजकत्वानुपपत्तेश्च।
अत्र च कीर्तनेतरेष्वष्टस्वपि वक्त्रपेक्षाऽर्चनीयादिसम्पादनमनोऽवधानादीनामपेक्षणात् परायत्तताया अविशिष्टतया कीर्तनमेव सजाती. यापरसाधनेभ्योऽल्पोपकरणकतामवलम्बमानमापेक्षिकं सौकयं भजते।
अस्य चनामलीलाभ्यां विधाद्वयशालित्वेऽपि श्रवणस्मरणाध्ययनाउपेक्षिलीलांशात्तदनपेक्षाप्रयुक्तबहुलजीवोद्धारानुगुण्यसमृद्ध्योत्कृष्यते नामांशः, श्रद्धाऽऽद्यन्तरङ्गदेशकालशौचादिबहिरङ्गसध्रीचीनताऽनुस्यू. ताशेषाभ्युदयिकनैःश्रेयसिकसाधनवृन्देभ्यः सर्वनियमनाडिन्धमतया निखिलपुमर्थयावदुपायपरिबढिम्नोत्कृप्यतेतमां च सः।
तानीमानि भगवन्नामानि जीवपदमात्रभाजां सुभगम्भावुकताभागधेयान्येवेत्यालोच्येवैतत्प्रभावान प्रकाशयन्ती कुसंस्कारसन्तमसमु. त्सारयन्ती सात्वतां लोचनजीवजीवान् तर्पयन्ती निर्मत्सरविपश्चिन्मानसकैरवाण्युल्लासयन्ती सारस्वतरहस्यविदानन्दपयोधीन् तरङ्गयन्ती निर्विचिकित्समन्वर्थाभिधाना निर्मिता श्रीभगवन्नामकौमुदी नामतत्त्व बुभुत्सुदुर्दैवपटलीकादम्बिन्याऽद्यावधि तिरोहिताऽप्यधुनाऽधिकाशि प्रकाशमाना विजयते।
परिच्छेदत्रयात्मकेऽस्मिन्निबन्धे निबन्धा तावदादिमे परिच्छेदे पुराणवचनानामैदम्पयं निर्णिनीषुरेतेषामविवक्षितस्वार्थत्वस्वार्थपरत्वे विकल्प्यान्त्येऽपि भगवन्नामकीर्तनस्य पापक्षयहेतुत्वमपराङ्गतांप्रतिपद्य स्वतो वेत्येवं द्वैविध्येऽपि शेषे श्रद्धाऽऽदिसापेक्ष्येण तन्नरपेक्ष्येण वेति विचाराङ्गानि संशयान् प्रदय; यदीयमते वेदेऽपि कार्यतापरभागस्यैव स्वतः प्रामाण्यं तदितरमन्त्रोपनिषदंशानां तु तदङ्गतयैव कथं चित्तत्त्वं. तस्य गुरोर्मतेन पुराणीयस्वतःप्रामाण्यस्य दुराशैवेत्यविवक्षितस्वार्थत्वमेषामापादयन्नौपनिषदविशेषाणां रीत्या गुरुमतं प्रतिक्षिप्योपनि. षद्प्रामाण्यमभ्युपगम्यापि पुराणवचसामार्थवादिकता व्यवस्थापय. तामेषां मतेन पुराणानामविवतितार्थतां पूर्वपतयित्वा, सिद्धान्तपथमा वतरन् पुष्कराक्षरीत्या धर्मान्तरांशे पौराणं प्रामाण्यमुररीकृत्यापि नामकीर्तनांशेऽर्थवादतां प्रतिपादयन्त्या अर्थवादत्वस्याविधित्वविधिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
(
४ )
शेषत्वातत्परत्वरूपतानुपपत्तीः प्रदर्श्य, विवक्षितार्थपरत्वं पुराणवा. क्यानां व्यवातिष्ठिपत् ।
द्वितीयस्मिन् तस्मिंस्तु भगवन्नामकीर्तनस्याशेषपापक्षयसाधनत्वसिद्धान्तमाविर्भावयन् प्रतिक्षिप्तमपि तस्य पराङ्गत्वेन तथात्वं "द्विर्बद्धं. सुबद्धं भवती"तिन्यायेन पुनः प्रतिक्षिपन् व्यवस्थाविकल्पसमुच्चयेषु शद्वखारस्यभङ्गभयेन व्यवस्थाविकल्पो विहाय स्मार्तप्रायश्चित्ताङ्गतामुखेन समुच्चयमवलम्ब्य तर्कप्रमाणसुदृढेन प्रबन्धेन केवलस्यैव नामकीर्तनस्य तादृशत्वमवधार्य नान्तरीयकतयोपनतं कैवल्यं. सविस्तरमुपवर्ण्य तदन्वयप्रतियोगिनं चोपदयॆ नामकीर्तनस्थापराङ्गताबोधकायमानवचनविशेषान् समन्वाय्य श्रवणादीनां प्रत्येकंपरमपुमर्थसम्पादकत्वपर्याप्तिप्रसाध्य कर्मजन्यसंस्कारस्थयोः शत्यो. नरकोत्पादकताऽवच्छेदकत्वेन सिद्धामेकामुच्छिन्दानेनापि स्मार्त्तप्रायः श्चित्तेनानिवां सजातीयोत्पादकताऽवच्छेदकत्वेन सिद्धां परामेनां. समूलघातं नतः साधनभक्तिसामान्यस्यैवाधर्मवासनाऽत्यन्तनिरासप. टिमानं निर्णीय, स्वप्रधानमेव भगवन्नामकीर्तनं कृत्स्नपापक्षयहेतुरित्युपसमहार्षीत् ।
तृतीये तत्र नामकीर्तने प्रतितिष्ठापयिषितव्यस्य कैवल्यस्य यावदुरितनिवर्तकताऽवच्छेदककोटौ तत्सहकारिकुक्षौ वा साधनान्तरानिवे. शफलकतायां पर्यवसन्नस्य परिपन्थिनीमपि व्यवस्थां स्मातॊपायाना मपि शास्त्रीयत्वेनाननुष्ठानलक्षणो बाधो मा प्रसाझीदिति प्रकारान्तरेणाश्रयन् शेषे च तादृशीमपि निराकुर्वन् श्रद्धानिबन्धनामेनों सिद्धान्तयि. ध्यन् प्रासङ्गिकी भक्तरप्यधिकारितां रोचयमानो भक्ते रतिरूपतासमर्थयमानो रतेश्च स्थायित्वेन रसत्वयोग्यतायामपेच्यमाणालम्बनोद्दी. पनविभावानुभावसञ्चारिभावानुद्दिशन् सकृदसकृत्कीर्तनपरत्वप्रतीतं. पौराणं च मिथो विरोधं परिहरन् मध्ये चाभ्यासपदार्थ विवृण्वनधिकारिताऽवच्छेदकत्वेन विवक्षितायां श्रद्धायां साङ्केत्यादिनिबन्धन. नामकीर्तनाधिकार्यभावापादनपूर्वकतदीयाधिकारं निदर्शयन् परमसि. द्धान्तसरणिमाश्रयस्तु प्रसङ्गतः पुराणानां वेदत्वमुपपादयन् वेदत्वेन पुराणत्वेन च व्यवहारस्य प्रयोजकं निर्दिशन् पूर्वोक्तरीत्या श्रद्धाऽपेक्षणे चक्रकादिदोषानुद्भावयन् निर्वचंश्चानुषङ्गिकान् विषयान् सकृदसकत्कीर्तनमनुतप्ताननुतप्तकर्तव्यत्वेन सङ्गमयन् सकृत्कीर्तनस्याप्रारब्धप्रा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
चीनाघनिरासकत्वं प्रसाधयन् कीर्तनस्याघविधातकत्वेन मुक्तिसाधन. त्वेन च बैकप्ये तदङ्गताऽऽपन्नधर्माणामपि तथात्वमुपवर्णयन् कीर्तनस्य क्रियात्वेन मोक्षोपायतामाक्षिपन् यया प्रनाड्या मोचकताऽस्य तां निरूपयन् पूर्वोक्तसिद्धान्तजीवातुरूपाःश्रुतीश्चात्र प्रमाणयन् समस्तव्यस्तत्वेन नानां फलानुत्पादकतां विकल्पयन् व्यस्तस्यापि तस्य तत्तां प्रमिएवन् समस्तानां तु संस्कारप्रचयाधायकत्वमपीति विशिष्टतामुपोदलयन् भगवन्नामकीर्तमादेव सकलाधक्षयो मोक्षश्चेति सपरिकरबन्ध निरदीधरत , समापिपञ्चान्ते त्रिविधान्यपि मङ्गलान्याचर्येतन्निबन्धरत्नम् ।
एवं तर्कोपबृंहितश्रुतिस्मृतिपुराणेतिहासादिभिरवधारितमपि साधनान्तनिरपेक्षस्यैव भगवन्नामकीर्तनस्य परमपुरुषार्थप्रापकत्वं नान्तरीयकतया कैमुत्त्यसिद्धमशेषानर्थनिवर्तकत्वं च तथाऽप्यनादिविविधवासनावासितचेतसां बद्धमूलैषा विचिकित्सा नापसरत्येव यद् नामः शब्दात्मकत्वेनार्थोपस्थापकत्वरूपदृष्टफलमन्तरेण नापरं. किमपि निश्चेतुं सुशकं; न हि सिताऽनलकृपाणादिशब्दोचारणादेवा. नने माधुर्यदाहच्छेदादयोऽनुभूयन्ते केनापीति ? -
अत्र के चित्-संसारिणामशानामस्माकं कर्तव्याकर्तव्यनिर्णायकत्वे शास्त्रमेव परमाप्तमुपदेशकमतस्तेन यदर्थं यदुपदिष्टं तदथं तदस्मा. भिर्विधेयमिहान्यदनाशङ्कनीयमेवेति वदन्ति ।
इदश्चोत्तरं वास्तविकमपि श्रद्धालुभ्यो रोचमानमेनानेव प्रीण. यितुं क्षमते नोक्तां शङ्कामपनोदयितुम्।।
भन्ये पुनर्नान्ना कीय॑मानस्य नामिन . एव साक्षात्ताटशफलसम्पादकत्वं; योगक्षेमसाधारणप्रयोजकतया तु परम्परया नानोऽपि तत्र निवार्यत इति प्रतिपादयन्ति ।
अपरे त्वाचार्यदेशीया वस्तुशक्तौ बुद्ध्यनपेक्षणादुचार्यमाणनामनिष्ठशक्तिसम्बद्धो भगवान् करुणया प्रसद्य नामकीर्तकोन्मुखीभूय ताननुगृह्य भवाब्धेरुद्धरतीत्येवं समादधति ।
एतदुत्तरमप्यापातरमणीयमेव, सिताऽऽदीनांजड़तया तादृशत्वा. पत्तिनिरासेऽपि विधित्सितकीर्तनकर्मीभूतनामार्थस्य च चेतनत्वेन सर्वज्ञत्वेन सत्यसङ्कल्पत्वेन निखिलशक्तिकत्वादिनां च तयाकर्तृत्वस्य सर्वथोपपत्तावपि साङ्केत्यादिषु भगवतोऽनुदेश्यतया तत्रत्यनामकीर्त: नविधायकशास्त्राणामननुष्ठापकत्वलक्षणाप्रामाण्यापत्तः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
नामतत्त्वरहस्याभिशाचार्यास्तु केवलाद् नाम्न एव पूर्वोक्तमखि. लसामर्थ्यमुपपादयन्ति ।
सोपपत्तिकमर्थमेनमवजिगमिषुभिरादाविदमिहावधायास्थयम्औचित्यप्राप्त समालोचितचर्या 'यत्परः शब्दः स शब्दार्थ' इतिन्यायसरणेरनुसरणे प्रासङ्गिकतयाऽङ्गता वा शब्दतत्त्वं निरूपयतामेत. दनुगुणवचांस्यनास्थाय तत्तत्वस्यैव प्राधान्येन निरूपणं प्रतिजानतांपद्धतिमध्यास्य शद्वीयरहस्यं निश्चिकीषुभिः प्रमातव्यम्।।
एवं च शब्दस्य भौतिकतां पारम्परिकाहङ्कारिकतां जडविभुतांनानाप्रकारावस्तुतां वा प्रतियन्तो व्यवहारस्वरूपमात्रालङ्कर्मीणा एनाः प्रतीयु तावता काऽपि क्षतिः, जातु चिदुक्तेष्वन्यतमस्मिन्नपि प्रकारे तथ्यतां चेत् प्रत्तिपत्तारः प्रतिपद्येरन् च्यवेरनेव तदा शब्दागमघण्टापथात्,
• शब्दागमिनो हि शब्दस्य तदीयवाच्यार्थेन समं तादात्म्यं. सिद्धान्तयन्तोऽर्थगान् धर्मान् शब्देऽभ्युपगच्छन्तो नामिनि भगवति वर्तमानान् भवमोचकत्वादीन् नाम्न्यपि नैसर्गिकानुपापीपदन ।
न चेत्थमपि सिताऽऽनलादिशब्दस्थलीयापदुद्धारः कथमिति वाच्यम् ?
मायाविजृम्भणशालिन्यां पादविभूतौ वृत्तिमदर्थसामान्यस्यैष मायाऽभिभूतत्वव्याप्यत्वनियमाद्, अर्थाभेदमात्रप्रयोज्ये कार्ये शब्देन सम्पादनीयेऽर्थाभिभवाभावोऽपि सहकारीति सिताऽऽद्यर्थानामभिभूतस्वेन सहकार्यभावाद् अर्थाभिभवरूपप्रतिबन्धकाद्वा न काऽप्यापत्तिः, प्रतिबन्धकामावस्योत्पादकसामग्रीघटकतायाः सर्वसम्मतत्वात् ।
न चैवं भगवदतात्पयेकसाङ्केत्यादिषु बुबोधयिषितव्यपरिभाषितार्थानामप्यभिभूतत्वेन तत्रत्यनाम्नोऽभीष्टफलानुत्पादकत्वापत्तिः, सिद्धान्तितं तु तत्राप्यन्यत्रत्यजातीयमेव फलमिति वाच्यम् ?
तत्र कालविशेषादीनामुत्तेजकत्वस्यापि क्लुप्तत्वादिति ।
शालसिद्धान्तसिद्धमतन्नामखरूपं श्रीमदाचार्यपूज्यतमश्रीरूपमोखामिपादाः
“वाच्यं वाचकमित्युदेति भवतो नाम ! स्वरूपद्धयंपूर्वस्मात्परमेव हन्त करुणं तत्रापि जानीमहे । यस्तस्मिन् विहितापराधनिवहः प्राणी समन्तात् भवे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
( ७ )
दास्येनेदमुपास्य सोऽपि हि सदानन्दाम्बुधौ मज्जति” इत्थमुपन्यभान्त्सुः, विशेषस्त्वाकरादितोऽवसेयः । अस्याश्च श्रीभगवन्नामकौमुद्याः प्रणेता मीमांसापारावारीणोविपश्चिन्मूर्धन्यो श्रीमालूँ लक्ष्मीधरः कदाssसीदित्यस्य सूक्ष्मतम प्रमा. पकस्यानुपलम्भतो यावदुपलब्धमेव जिज्ञासुवृन्दायोपहियते, ग्रन्थकर्ताऽयं पञ्चदशशततमशकाब्दात् पूर्वं भुवं जन्मनाऽलंच कारेति प्रमातुं शक्यं निर्दिष्टशब्दासन्नसमयावधि श्रीवृन्दावनमध्यासीनैरस्मदुपजीव्यपूर्वपुरुवैः पूज्यपादैर्माध्वसंप्रदायाचार्यैः श्रीमद्गोपाल भट्ट गोस्वामिचरणैः सम्हब्धे षट्सन्दर्भापराख्ये श्रीभागवतसन्दर्भे प्रकृतन्थीयनामनिर्देशपुरस्सरं सानुपूर्वीक वाक्य विशेषस्योद्धृतत्वात् । सौन्दर्यलहरीव्याख्यातृप्रभृतिष्वनेकेषु लक्ष्मीधरनामकेषु कतमोऽयमस्मदीयो महाभाग इति तु निर्णेतुमधुनाऽपि नापारि । एतद्देशविषयेऽपि न किञ्चिदपि पर्यचायि ।
श्रीभगवन्नाम कौमुद्याः प्रकाशाख्यटीकायाः कर्ता मीमांसा धुरन्धरापदेवस्य सूनुरनन्तदेवोऽनुरूपश्च वैदुष्येऽपि पितुर्देवोपाख्यमहाराष्ट्र ब्राह्म. यः खिष्टीय सप्तशताब्दीतः पूर्वमासीदिति कथमपि सम्भावयितुं शक्यते । अनयोर्मूलटीकयोर्मूलस्य पुस्तकं प्रख्यातचरवैदुषीकै द्वैतरहस्यप्रतिष्ठापकधुरीणैमध्व सम्प्रदायाचार्यैरचंनीयच र खैरस्मत्तात गोस्वामिश्रीगोपीलाल महाराजैर्महता यत्नेन सङ्गृह्य पुरुषक्रमागते स्वेन वर्धिते च श्रीवृन्दावनस्थेऽस्मदीयश्रीमदनगोपालपुस्तकालये रक्षितं तत्र विराजमानैः सङ्गीतविशिरोमणिभिर्माध्वसम्प्रदायाचार्यैः पूज्यपादास्मद्भ्रातृविद्याभूषणश्रीवनमा लिलाल महाराजैश्च प्रेषितमेकं शुद्धं च द्वितीयं तु बहुत्राशुद्धं नयपालाभिजनकाशीवासि विनयाद्यलङ्कत केस र्युपाख्यश्रीपद्मनाभशर्म पण्डितस्य सौकर्यार्थमानायि; विहितं च भूरि साहायकमेनेनाशुद्धेनापि ।
こ
टीकायास्त्वेकमेव पुस्तकमुक्त केस रिमहात्मन एव प्राप्तम्, ईदृशमकैतवमुपकारातिशयं विदधतं महाशयं येनोपमिमीमहे न तादृशमु पमानमुपलभामहे ।
..
मूलप्रधानप्रतिपाद्यप्रयोजककर्मीभूतवृन्दिष्ठवस्तुसम्पर्क गृभ्रमनसा मा परम्परा परिचर्ययाऽप्यात्मानं पिपविषमाणेन स्थलविशेषेषु टिपन्या समयोजिषातां मूलटीके ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
'इत्थं विषयसूच्यादिना च सपरिकरेयं कौमुदी श्रीमता विचाऽऽ. लयादिविविधानुकरणीयसत्कर्तव्यसार्थकीक्रियमाणकमलेन विज्ञवरण विद्याऽनुरागिणा सौजन्यादिगुणशेवधिनाभगवद्भक्तिभाजाश्रेष्टिवयेंण गोयनकोपाख्येन श्रीगौरीशङ्करगुप्तमहोदयेन प्रकाशयितुमुपकान्तायामच्युतग्रन्थमालायां प्रथमपुष्पत्वेन भगत्कृपासूत्रेण गुम्फिता काश्यां शानमण्डलमुद्रणालये प्रकाशं नीता।
युक्तं चैतत् कः खल्वन्यो गौरीशङ्करमन्तरेण काश्यां ज्ञानमण्डलेन रात्रिन्दिवस्थास्तुं कौमुदी प्रकाशयितुमर्हति, शोभतेतमां किल विशिष्टसम्मानभाजनश्रीमदच्युतस्वामिकृपाप्रसादोतबीजमानसादुदि. स्वरलतायां कौमुदीस्वरूपः प्रसूनतल्लजः। .
टीकालेखादिकमन्येन विधाप्यादभ्रमानुकूल्यमाचरिष्णोरत्रत्यविश्वविद्यालयेऽध्यापकस्य श्रीमत एम०ए० पदवीकस्य महतोपनामकश्रीगङ्गाप्रसादशर्मपण्डितस्य सधन्यवादमुपकारगरिमाणं विश्वजनीनतया सप्रमोदं विभ्राणो; मादृशजनमतिमान्धनिबन्धना मानुष्यकनान्तर्गयकदोषप्रयुक्तास्त्रुटीरुपेक्ष्य मरालपटिमानं गृहयालवोऽभिन्नाः निर्मत्सराः श्रीभगवन्नामकौमुद्याः पीयूषमास्वादयेयुः समनुभवेयुश्चैतदुस्थनिरतिशयतृप्तिपरम्परामित्याशासानो मुधा विस्तराद् विस्मन् प्रीयतां चानेन व्यापारेण सर्वान्तर्यामी भगवान् गौरकृष्णतनुः श्री. श्रीराधिकारमण इति तदीयं नाम भगवत् प्रार्थयमानः तदेव“यदाऽऽभासोऽप्युद्यन् कवलितभवध्वान्तविभवो
दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम् । जनस्तस्योदात्तं जगति भगवन्नामतरणे !
कृती ते निर्वक्तुं क इह महिमानं प्रभवति," इत्थं कीर्तयमानः प्रकृतवक्तव्यमुपसंहरतिश्रीश्रीगौर कृष्णजयन्त्यां- ) सीमावसंप्रदायाचार्यदार्शनिकसार्वभौमफाल्गुनपौर्णमास्यां- ।
साहित्यदर्शनायाचाय तर्करबन्यायरत्न- ' १९८३ वैक्रमाग्दे
गोस्वामिदामोदरशात्री। काश्याम्
रति शम्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदीस्थविषयाणामानुकमिकं
सूचिपत्रम्पुराणवचनीयविवक्षितार्थत्वप्रतिपादननामके प्रथमे परिच्छेदेपृष्ठे पको १ १९ . भगवामात्मकवस्तुनिर्देशरूपं मङ्गलम् । " २१ विठ्ठलाख्यार्गविग्रहस्य भगवतस्तादृशं तद ।
१ भाशीरूपं तद् । ३. पुनरपोदमेव.भङ्ग्यन्तरेण तद् । ५ हरस्य भगवतो निर्देशात्मकं तत् । ७ स्वगुरुसंबद्धाशीरात्मकं तद् । १२. समासोक्तया गुरुभगवतोनिशरूपं तद् । १६ प्रयोजनकथनपूर्वको अन्योद्देशः । . १५ विधारारम्भः । १६ विचाराङ्गानि संशयाः ।
२२ ग्रन्थस्य परमप्रयोजनोद्देशः । ९ ६ पूर्वपक्षः। १० १३ मतान्तरेण पूर्वपक्षः। ११ ८ उक्तोभयमतीयपूर्वपक्षनिरासारम्भः ।
१ पुष्कराक्षमतप्रदर्शनम् । । १६ ३ पुनराक्षेपः। " ६ आक्षेपनिरासोपक्रमः। " ९ भाक्षेपानुगुणविकल्पितपक्षत्रयेऽविधित्वरूपप्रथमपक्षखण्डनम् ।
२० ान विधिशेषत्वरूपद्वितीयपक्षोच्छेदः । ९ सत्रैवातस्परस्वरूपतृतीयपक्षनिरासः । १५ पुनरप्याक्षेपान्तरम् ।
१९ तत्समाधानम् । " २४ प्रथमपरिच्छेदसमाती मालाचरणम् । २९ २ प्रथमपरिमानिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
( २ )
भगवनामकीर्तनम्य पुरुषार्थत्वप्रतिपादननामके
द्वितीये परिच्छेदेपृष्ठे पन्तौ . ३. ४ मङ्गलाचारः। ३१ ८ नामकीर्तनस्य स्वातन्त्र्येण पापक्षयसाधनत्वविचारारम्भः । ३१ ९ तत्रैव पूर्व विचाराङ्गं संशयः । ३३ १३ अत्रैव नामकीर्तनं स्मार्तप्रायश्चित्ताङ्गमिति पूर्वपक्षः । ३१ १६ पूर्वपमेणाश्रयणीयेषु विकल्पव्यवस्थासमुच्चयेषु कतमः प्रकारः स्वाश्रय
इति प्रस्तावः। ३२ २३ उक्तप्रकारेषु समुच्चयस्य समर्थीकरणम् । ३३ १३ नामकीत्तनस्य मार्तप्रायश्चित्तसमुचितस्याङ्गत्वे सप्रमाणीकरणम् । ३५ ११ उक्तपूर्वपक्षनिरासारम्भः । ४१ ३ केवस्यैव नामकीत्तनस्याशेषपापक्षयसाधनत्वसिद्धान्तः । ४१ १२ साधनस्वरूपसाधनान्तराभावेतरासाधनत्वविकल्पैर्नामकीर्तनस्थस्य
कैवल्यस्य विचारः। ४१ १४ साधनस्वरूपात्मकस्य प्रथमस्य निरासः । ४१ १७ साधनान्तराभावरूपस्य द्वितीयस्य निराकरणम् ।
२१ इतरासाधनत्वस्य तृतीयस्य खण्डनम् ।
३ उक्तकैवल्यस्य सिद्धान्तीयस्वरूपम् । " १० सिद्धान्तितकैवल्ये प्रकारान्तरेणाक्षेपः । " २५ तन्निमित्तत्वापेक्षयोक्ताक्षेपनिरासः। ४४ ३ कैवल्यस्य भक्तौ कारणत्वे वा विशेषणतेति विधारः । ४६ २४ केवलनामकीर्तनस्य पापक्षयहेतुत्वोपपादनोपसंहारः । ४८ ५ पूर्वपक्षीयस्य नामकीर्तनाङ्गत्ववोधकत्वाभिमतप्रकारस्य
समन्वयः। ५० २४ प्रासङ्गिको भक्तिविभागः। ५३ २२ नामकीर्तनादिभक्तिनिवर्त्यवासनाजनकाधर्मनिरूपणम् । ५४ १२ तत्र सिद्धान्तः । ५८ २३ अवान्तरबहुलविचारघटिततदुपसंहारः । ५८ २४ मङ्गलासंशनम् । ५९ ५ द्वितीयपरिच्छेदसमाप्तिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
पृष्ठे पकौ
६०
"
६१
""
६
६४
७०
=
""
७७
29
८४
=
७३
१७
७४ ७ एतन्निरासः ।
३ )
भगवन्नामकीर्तनस्य केवलस्यैव पुरुषार्थत्वप्रतिपादननामके तृतीयस्मिन् परिच्छेदे -
८६.
39
ܢ
""
मङ्गलम् ।
१२ भक्तिकर्मणोः संभूय साधनत्वे निरस्ते; स्थूणानिखननंन्यायेन पुनरपि विकल्प व्यवस्थयोर्व्यवस्था ज्यायसीति पूर्वपक्षः ।
८७
४
७८
७९
८०
८२ १
६
४
१६
२२
१२
९
२६ . मतान्तरेण पुनर्व्यवस्थाऽऽपादनम् ।
श्रद्धाप्रयुक्ताया व्यवस्थायाः शङ्का ।
६
२१ प्रासङ्गिकस्य भक्तेरधिकारिविशेषणत्वस्य विचारः ।
२५
१०
८५ १
८५
केषां चिन्मतेन विकल्पाश्रयादाक्षेपः ।
विकल्पपक्षनिरासः ।
प्रकारान्तरेण नामकीर्त्तनस्येतराङ्गत्वोक्तयाऽवान्तरपूर्वपक्षः ।
३
२५
उक्त पूर्वपक्षखण्डनम् । प्रसङ्गतो व्यवस्थानिरासश्च ।
अत्रैव भक्तिशब्दः प्रीतिपरः साधनपरो वेति विचारः । “देवानां गुणलिङ्गानामि” त्यादिश्रीमद्भागवतीयप्रमाणेन भक्तिपदार्थों
रतिरेवेति निरूपणम् ।
उक्तप्रमाणवाक्यस्य व्याख्याऽन्तरम् ।
भक्तवैशद्येन वर्णनम् ।
भक्तेरालम्बनवर्णनम् ।
तस्या उद्दीपनकथनम् ।
तदीयानुभाव संचारिप्रदर्शनम् ।
भक्तेः स्वरूपे पुनराक्षेपः ।
१० उक्ताक्षेपपरिहारः ।
भक्तेर्नामकीर्तनाङ्गत्वम् ।
श्रद्धाभक्तिज्ञानवदधिकारिणः पौराणं प्रायश्चित्तमितरस्य तु स्मार्त्त
मिति व्यवस्थाया उपसंहारः ।
भगवन्नाम्येव सकृदसकृत्कीर्तनद्वारकविरोधाशङ्का ।
१५ तत्परिहारः ।
२४ आषृतिस्वरूपविषयिकाssधङ्का ।
तदुतरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
पृष्ठे पकौ
99
१० श्रद्धाऽऽदिमतः कीर्त्तनेऽधिकार इत्यत्र विरोधोद्भावनम् । ८८ १२ अत्रैव प्रसङ्गादभ्यासनिरूपणम् ।
८९ २५ अत्रैव प्रसङ्गाद् गतिसामान्यनिरूपणम् ।
९० १५ सांकेत्यादिनिबन्धने भगवन्नामोच्चारणेऽधिकारिकथनम् । ९१ ६ स्मृतिपुराणविरोधे सिद्धान्तीयव्यवस्था ।
९३ १२ उक्तव्यवस्थायां पुनराक्षेपः ।
१४
39
९४
९६
99
99
( * )
1
८
१९
२६
तदुदारः ।
नामकीर्त्तने श्रद्धांऽऽदिनैरपेक्ष्य व्यवस्थापनम् ।
अत्रैव पुनराक्षेपः ।
एवनिरासः ।
प्रकारान्तरेण श्रद्धायाः पुनरधिकारिविशेषणत्वाशङ्का ।
१७ ५ तत्समाधानम् ।
९९ २८ नामकीर्त्तनस्य कैवल्ये पुनराक्षेपः ।
"
२९ तत्परिहारोपक्रमः ।
99
१०४
१०५
१०८ २५ नामकीर्त्तनस्य कथमप्पपराङ्गत्वं न संभवीतिविचारसमाप्तिः ।
१०९ २३ आवृत्तानावृ त्तनामकीर्त्तनव्यवस्था ।
४ प्रसङ्गान्महद्दर्शनमाहात्म्यम् ।
२ भक्तेरधिकारिविशेषणत्वखण्डनोपसंहारः ।
११६ १ अनागतदुरितानुपश्लेषोऽपि सकृत्स्रा मकीर्तनतः :
११७ २२ नामकीर्त्तने देशकालाद्यनपेक्षा ।
११९ २१ क चिच्छास्त्रे कीर्त्तनाङ्गत्वेन श्रवमाणानां धर्मविशेषाणामपेक्षायां
कैवल्याक्षेपः ।
तत्परिहारः ।
२६
१२० ४ क्रियाऽऽत्मकस्य नामकीर्तनस्य मुक्तिसाधनवाक्षेपः ।
.93 २६
तत्समर्थनरीतिः ।
१२३ २९ भगवत्यः श्रुतयोऽपि भगवन्नामकीर्तनं विदधति ।
१२६ ९ नामकीर्त्तमस्येतिकर्तव्यताऽऽदिनिरपेक्षत्वेऽपि कथमिव भावनामा
न्यत्वमित्याक्षेपः ।
१२६ १३ तत्प्रतिक्षेपः ।
99
२५ कीर्तनीयानां भगवनानां समस्तानां व्यस्तानां वोको महिमेति विचधः ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #18
--------------------------------------------------------------------------
________________
पृष्ठे पडतो १२७ १८ तत्र सिद्धान्तः । १३० १६ एवं स्थिते स्मार्तप्रायश्चित्तानां वैयांशङ्का । " १९ तमिरसनम् । १३३ १६ एतनिबन्धस्य साफल्यस्थापनम् । " २५ ग्रन्थान्ते वस्तुनिर्देशात्मकं मङ्गलाचरणम् । १३४ ५ नामकीर्तनाभिरुचिप्रार्थना। " १२ प्रकृतनिबन्धे त्रुटिरपि जाता चेन्न दोषावहेतिसमर्थनम् । , २२ त्रुटिरप्यलंकारायमानेत्युद्गारः । १३५ २ त्रुटिनैवास्तीति दृढोक्तिः । " ७ · पुनरीश्वरप्रणामात्मकं मङ्गलम् । " १५ स्वगुरुस्तुतिः। " २५ कैमुत्यसिद्धाघहारित्वकस्य भगनानो निर्देशरूप मङ्गलम् । १३६ ६ स्वीयकृतकृत्यताऽऽविष्कृतिः । " १४ आशीरूपं मङ्गलम् । " १८ तृतीयपरिच्छेदसमाप्तिः । " २२ ग्रन्थप्रतिपाद्यनिरूपणान्ते प्रन्थकर्त्तरभीष्टप्रार्थनाऽऽदिः ।
प्रन्थसमातिः ।
अत्रैतद्विवेचनीयमनिर्दिष्टसूचिपत्रे मूलानुसारेणैव विषयाः प्रादर्शिषत, तावतैव टीकायामपि तत्तन्मूलानुगामिन्यां दिक्षितविषयाः सुदर्शा; नातः पार्थक्येन टीकायां ते समसूचिषतेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
प्रकाशसहिता श्रीभगनामकौमुदी |
॥ श्रीगणेशाय नमः ॥ श्रीगोपालं गुरुं भजे ||
नाम्नैव नाशयति यो भवपाशबन्धंदानैव यो व्रजवधूभिरयत्नबद्धः ॥ एवं दयाजलनिधिर्निजवर्गव श्यः सेव्यः स मेऽस्तु सततं सुखसिन्धुरेकः ॥ १ ॥ नमस्कृत्य गुरून्सर्ववेदान्तार्थाविरोधतः ॥ भगवन्नाम कौमुद्याः प्रकाशः प्रवितन्यते ॥ २ ॥ सम्यङ्गिरूपितमिदं यदि नाद्रियन्ते दुष्टा निकृष्टमतयो हृदि मत्सरेण || किं तावता ज्वरवतामरुचेर्न जातु दुग्धस्य शुद्धमधुरस्य विदूषणं स्यात् ॥ ३ ॥ प्रेक्षावतामधिकारिणां भगवन्नाममाहात्म्यविषये निर्णयज्ञानाय चिकीर्षितस्य निर्विघ्नपरिसमात्यादिकामो भगवन्नाममाहात्म्य वर्णनमेव मङ्गलमाचरति -
ॐ नमः श्रीकृष्णाय |
अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य || तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥ १ ॥ कारुण्यामृतनिर्भरः सुरसरि जन्माकरः श्रीवधूलीलाब्जं व्रजकामिनी कुचतटीकस्तूरिकास्थासकः ॥ उत्तंसः सुरयोषितां मुनिमनोवश्यौषधीपल्लवोयस्याङ्घ्रिः सुरवल्लभः स जयति श्रीपुण्डरीकप्रियः ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
प्रकाशसहिता
कररुहकुलिशैर्द्विषतां चरणाम्बुजनखरकान्तिभिर्भजताम् हृदयग्रन्थीन् भिन्दन् मनसि नृसिंहः समुल्लसतु ॥३॥ यदधिरेणुबीजानि जनैरुतानि मूर्द्धसु ॥ सद्यः सुरद्रुमायन्ते श्रीधरः स श्रियेऽस्तु वः ॥४॥ उल्लसति लोचनाग्नौ जगदवदानानि जुह्रतो यस्य ।। प्रथमाहुतिर्मनोजः स जयति देवः पुरां भेत्ता ॥५॥
यत्पादपद्मनखकान्तितरङ्गजीर्यजम्बालजाविकधियां न धियामभूमिः ॥ निःसीमसौख्यजलधियतादनन्तः सोऽस्मद्गजगदनुग्रहजागरूकः ॥६॥
अपि च अधीशं निःस्वानां शमनदतटीषु प्रवसतामशेषाणामाद्यं गुणगरिमनिमुक्तमपि यम् ॥ मृषामानाद् दूरं श्रुतिरुपचरन्ती सविनयंशनैर्यत्नादन्तर्णयति सुभगानां परिबृढम् ॥७॥ चेतश्चकोरसन्तोषपीयूषाम्बुधिबृद्धये ।। इयं विस्तार्यते श्रीमद्भगवन्नामकौमुदी ॥८॥
अंह इति । दुरितं पापं दुःखं चेत्यर्थः, दुरितनिवर्तकत्वं वचनाद् दुःखनिवर्तकत्वं तु श्रान्तानां सद्यो विश्रान्त्यनुभवात् संशद्वेन रोगादिनिवर्तकत्वं सूच्यते, तदुक्तं
सर्वरोगोपशमनं सर्वोपद्रवनाशनम् ।
शान्तिदं सर्वरिष्टानां हरेर्नामानुकीर्तनमिति ॥ अखिलं समस्तं, न विद्यते खिलं परिशिष्टं वासनारूपं यत्रेति संहरणक्रियाविशेषणं वा, सदित्यभ्यासानपेक्षत्वं
___ "सकृदुश्चरितं येन हरिरित्यक्षरद्वयमि"त्यादिवचनात्, सकलेति सर्वाधिकारित्वं, जगन्मङ्गलं जगतां सकलकल्याणप्रदं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
-
-
--
सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ।
यद्वाऽभिरोचते नाम तत्सर्वार्थेषु योजयेदितिवचनात् । हरेरिति विशेषणत्वनिर्देशेन पापक्षये भगवत्स्वरूपानुसंधानानक्षत्वम्-.
अवशेनापि यन्नाम्नि कार्तिते सर्वपातकैः।
पुमान्विमुच्यते सद्यः सिंहवस्तैर्वृकैरिवेतिवचनादु, अत्र हरिशद्वेन सर्वज्ञः सर्वेश्वरः सर्वाधारः परमात्मा यो वेदान्तिभिर्मायोपहितं चैतन्यमित्यभिधीयते, षष्ठ्या च सम्बन्धवाचिन्या वाचकत्वं, ततश्च विश्ववषट्कारादिशद्वानां सहस्रनामस्तोत्रा न्तर्गतानामपि न बहिः पापक्षयार्थ प्रयोगः तेषां परमेश्वरवाचकत्वाभावाद्, नाप्यात्मादिशद्वानां जीवेश्वरसाधारणानां वस्त्वादिशब्दवत् ।
श्रीश्रीगौरकृष्णः शरणम् । भगवत्प्रेमदं तस्य नाम नाम नमन् यते ।
सव्याख्यभगवन्नामकौमुद्याटिप्पनी प्रति । १-अत्रेदं विवेचनीयम्-भगवदवाचकता सहस्रनामस्तवघटकनानांया टीकाकृतोक्ता सा न प्रामाणिकी, तथा हि तेषां नाम्नां भगवद्विषयकबोधजनकत्वाभावे वैयर्थ्यमेव, बोधकत्वे चार्थबोधौपयिकः संबन्धः शब्देप्वावश्यकः, स चाभिधा लक्षणा वा, भाषा चेद्वाचकत्वं दुर्निवारमेव, द्वितीया चेत् क्यमादिमांविनाऽन्यस्या अवसरः, शक्यसंबन्धी हि लक्षणा, शक्त्यभावे कथमिव लक्षणायाउम्मेषो, वाचकस्वाभावे च कुतस्त्या शक्तिरिति सुधियो विदाकुवंन्तु, । यदप्युक्तं. सहस्रनामस्तोत्रान्तर्गतानां नाम्नां न बहिःपापक्षयार्थ विनियोग इति तदपि निर्मूलं, स्तोत्राहिस्तेषां पापानाशकत्वं; किं कस्यापि प्रतिबन्धकस्य सद्भावादुत भगवदनुपस्थापकत्वाद्, नायः; तस्य दुर्वचत्वाद्, नात्यः, तथात्वे सुकृतोत्पादकत्वमपि तेषां दुरुपपादम् , एवं च "प्रमाणं प्राणनिलय" इत्यादितः प्रमाणशब्दस्य भगवदुपस्थापकत्वेन मङ्गलार्थकतेत्यादिरूपा न्यायदर्शनप्रथमसूत्रन्याख्याने विश्व. नाथन्यायपञ्चाननाधभियुक्तानामुक्तयो विरुध्येरन् , स्वयं च स्वपितृकृतन्यायप्रकाशटीकाभाट्टालंकारे ग्रन्थारम्भमङ्गलपद्यव्याख्याने "आनन्दो नन्दनो नन्द" इति सहस्रनामघटकानन्दनाम भगवत्परत्वेन व्याचक्षाणः कथमिवात्र प्रतीपमाचरन संचुकोच । एतेनानुपदमेवात्मादिशब्दानां भगवदवाचकत्वोक्तिरपीदमीयाऽनुपादेय व, आत्मशब्दस्य जीवेश्वरसाधारणस्य चेतनत्वं चैतन्यत्वं वा वाच्यताऽवच्छेदकनेश्वरत्वमित्यन्यदेतद् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
प्रकाशसहिता
ननु रामकृष्णादिशद्वानामसंग्रहापत्तिः तेषां परमेश्वरवाचकत्वाभावाद् भावे वा रामे कृष्णपदप्रयोगापत्तिः कृष्णे रामपदप्रयोगापत्तिः न चैवं पुराणेषु लोके वा दृश्यत इति चेत् ? तेऽपि तद्वाचका एव किंतु यदुकुलप्रसूतत्वं कृष्णशद्वे रघुकुलप्रसूतत्वं रामशद्ध उपाधिः: तद्विशिष्टे परमेश्वरे वा शक्तिः, एवमन्येष्वपि शद्वेषु द्रष्टव्यम् । नामशवेन प्रातिपदिकं, तच्च द्विविधं रूढं यौगिकंच, रामकृष्णगोविन्दनारायणशिवशकरेत्यादि रमारमणपार्वतीरमणेत्यादि च, तच्च विभक्तिसहितं तद्रहितं वा यथा रामः कृष्ण इत्यादि हरि विष्णु इत्यादि, न च विभक्तिरहितस्यापशद्वत्वात्तस्य च निषिद्धत्वादनुच्चारणमितिवाच्यं, "विष्णो ामानुकीर्तयेदि” ति विधिविहिते निषेधाप्रवृत्तेः, किंच शक्तिशून्यत्वम् अपशद्वत्वं, न च हरिविवादिप्रातिपदिकरय शक्तिशून्यत्वं तथा सति गावीगोण्यादिभ्य इव विभत्त्यनुत्पादप्रसङ्गा, न हि गोप्रातिपदिक स्यापशद्वत्वं व्यवहरन्तिः वाक्यार्थानुपयोगितया न प्रयुञ्जते परं, विष्णुनाम तु विधिवशादणार्थमुच्चार्यत एवमेव च शिष्टाचारः, तदयंश्लोकतात्पर्यार्थः, विष्णोर्नाम शास्त्रीयवैराग्यवतां श्रवणाधिकारिणां. तत्वमस्यादिवाक्यार्थमखण्डं चैतन्यं लक्षणयोपस्थापयतु; भक्तानां च भगवन्तमुपस्थापयतु; तदुभयविलक्षणानामतिरागिणां च चण्डालपर्यन्तानां तु किंचिदुपस्थापयतु तत्सर्वथा संकीर्त्यमानं सर्वदोषराशीविनाशयति सूर्य इव तमोजालं सर्वाभीष्टं च प्रयच्छतीति ॥१॥
अत्र ग्रन्थे भगवान्महाविषयः भगवद्भक्तिर्महाप्रयोजनं मुक्तिश्चेति सूचयन् भगवन्तंस्तौति-कारुण्येति । पुण्डरीकनामा भक्तः प्रियो यस्येति विठ्ठल इत्यर्थः, यस्याघ्रिः कारुण्यमेवामृतं तस्य निर्भर इव, सुरस रिद् गङ्गा तस्या धाकरः खनिरिव, श्रीवध्वा लीला क्रीडा तत्सम्बन्धि अब्जं कमलमिव, व्रजकामिनीकुचतटीसम्बन्धी कस्तूरिकास्थासकः
१-इदमापाततो, योगरूढयौगिकरूढे अपि बोध्ये । तत्र पदाघटितशक्तताऽवच्छेदकसमुदायत्ववत्त्वं रूढत्वम् । पदघटितशक्तताऽवच्छेदकत्वाभाववासमु. दायत्ववत्त्वं यौगिकत्वम् । रूढिशक्यताऽवच्छेदकविशिष्टधर्मावच्छिन्नशक्तपदघटितसमुदायत्ववत्त्वं योगरूढत्त्वं, वैशिष्टयं च सामानाधिकरण्यसंसर्गेण । रूढ्याश्रयताऽवच्छेदकं यद् रूट्यर्थताऽवच्छेदकच्यधिकरणधर्मावच्छिमशक्तपदघटितसमुदायत्वं. तद्वत्त्वं यौगिकरूढत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
कस्तूरिकाया लेप इव, सुरयोषितां कृष्णपत्नीत्वं गतानामुत्तंसो भूषणमिव, मुनिमनसां वशीकरणार्थोषध्याः पल्लव इव ॥२॥
कररुहाणि करनखानि तान्येव कुलिशानि वज्राणि तैर्द्विषतां हिरण्यकशिपुप्रभृतीनां हृदयग्रन्थीन् वक्षस्थलानि ग्रन्थय इव तान भिन्दन विदारयन् , भजतां प्रह्लादादीनां हृदयग्रन्थीन् पदकमलनखदीप्तिभिभिन्दन् ॥३॥४॥
उल्लसति प्रदीप्ते नेत्राग्नौ जगतो हविःस्थानीयस्यावदानानि जुव्हतो यस्य महारुद्रस्य मनोजो मदनः प्रथमाऽऽहुतिः स पुरा भेत्ता त्रिपुगरिर्जयतीति ॥५॥ ___यत्पादपद्मनखकान्तेस्तरङ्गेणैकदेशेन जीर्यन्नश्यजम्बालं पङ्क इवैता. दृशं जाड्यं तेन जाचिकधियां प्रसरणशीलबुद्धीनां शिष्याणां धियां चित्तवृत्तीनां निःसीमसौख्यजलधिरभूमिरविषयों न यच्छिष्या अतिसुखिन इत्यर्थः । यद्वा यच्छिष्यधियामविषयो नास्ति सर्वज्ञा इत्यर्थः । सोऽस्मद्गुरुर्जयता, जागरूकः सावधानः ॥६॥
निर्गतं स्वं ममताऽऽस्पदं येषां विरक्तानामित्यर्थः अधीशस्वामिनं; शम एव नदस्तत्तटीषु प्रवसतां तिष्ठतामशेषाणामाद्यं. मुख्यं, गुणा विषयास्तेषां गरिमा गुरुत्वं भारस्तेन निर्मुक्तं रहितं. सर्वसंन्यासिनम्, अपिशरोऽनुक्तमादिविशेषणसमुच्चयार्थः, मृषामानादहंकाराद् दूरं निरहंकारं ये गुरुं श्रुतिः श्रवणोपलनिता विद्योपचरन्ती सेवमाना; अन्तर्णयति = अन्तर्मुखं प्रत्यप्रवणं संपादयति सविनयं विनोतं शनैर्यत्नादित्यभ्यस्तत्वंसूचितम् । अत्र शमादिसंपन्नत्वं सर्वसंन्यासित्वं निरहंकारत्वं विनीतत्वं चेति श्रवणाधिकारिविशेषणानि पञ्चभिर्विशेषणैरुक्तानि श्रुतिरुपचरन्ती शनैर्यत्नादिति श्रवणाद्यभ्याससंपत्तिरुक्ता अन्तर्णयतीति श्रवणादिफलं साक्षात्कारउक्तः अत एव सुभगानां परिबृढं भाग्यवन्तम् , अत्रायं श्लेष'प्रतिभासः
१-चिन्त्यमेतद्, यत्रार्थद्वयस्यापि प्रकृतत्वमप्रकृतत्वं वा तत्रैव श्लेषः, प्रकृते भुतेः प्रकृतत्वेन कामिन्याश्चाप्रकृततया न श्लेषव्यवहारः, यद्यपि प्रकृताप्रकृतविषयोऽपि श्लेषो नव्यैः स्वीकृतस्तथाऽप्यसौ विशेषणमात्रश्लिष्तास्थले, यदि तु विशेष्यस्यापि श्लिष्टतायां श्लेष एव स्यात्तदा शब्दशक्तिमूलध्वनिस्तूच्छियेतैव, न चाप्ययदीक्षितादिभिः प्रकृताप्रकृतश्लेषोऽङ्गीकृतो विशेष्यश्लेषसत्त्वेऽपीति वाच्यम् ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
d, Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
प्रकाशसहिता
यथा प्रौढा कामिनी निःस्वानामधीशमतिनिर्धनमपि तत्तद्देशेषु प्रवस. न्तमपि बहुगुणशून्यमपि कं चन पुरुषं सुभगानां परिबृढमतिसुन्दरं मृषामानाद् दूरं मनःपूर्वकं मानेन सत्कारेण सविनयं शनैर्यत्नाइतप्रे. षणादिनाऽन्तर्णयतीति, यद्वा श्रुतिस्तत्त्वमस्यादिवाक्यम् अधीशं परमे. श्वरम् अशेषाणामाचं गुणगरिमनिमुक्तं निर्गुणंमृषामानाद् दूरं प्रत्यक्षादिमानागोचरं परिबृढमपरिच्छिन्नं यं गुरुस्वरूपं निःस्वानां विरक्तानांशमनदतटीषु प्रवसतां शान्तानामत एव सुभगानां “न वैराग्यात्परंभाग्यमिति" प्रसिद्धः साधनचतुष्टयसंपन्नान्प्रतीत्यर्थः, अन्तर्णयति अभेदेन बोधयति सविनयं शनैर्यत्नादित्यभ्यासादितात्पर्यलिङ्गोपेतत्वं सूच्यते, निर्गुणमप्युपचारेण प्रतिपादयतोत्याह-उपचरन्तीति ॥७॥ चिकीर्षितं प्रतिजानीते-चेत इति भगवन्नामकौमुदीति ग्रन्थनाम कौमुदी चन्द्रप्रकाशः चकोराणां पतिविशेषाणां संतोषवृद्धये समुद्रवृद्धये च भवति, इयमपि प्रेक्षावतां चेतश्चकोरसंतोष एव पीयूषममृतं तस्याम्बुधिः समुद्रस्तस्य वृद्धये क्रियते ॥८॥
अत्र श्रीमद्भगवन्नाममाहात्म्यप्रतिपादकानि पुराणवचनान्युदाहृत्य विचार्यन्ते-किमेतान्यविवक्षितखार्थान्युत खार्थपराणीति ? यदा स्वार्थपराणि; तदाऽपि किंसाक्षात्पापक्षयहेतोः कस्य चिदङ्गभावेन भगवन्नामकीर्तनंपापक्षयहेतुः; उत स्वप्राधान्येन ? यदापि खप्राधान्येन तदाऽपि किं श्रद्धाभक्तिज्ञानवैराग्याभ्यासदेशकालविशेषादिसापेक्षत्वेन; उत तन्नरपेक्ष्येणेति ?
अस्य विचारस्य सकलश्रुतिस्मृतीतिहासपुराणागमार्थसतत्त्वसन्देहसन्दोहलतालवित्रचरणनखचन्द्रिकाऽश्चल
भनेकार्थस्य शब्दस्य वाचकत्वे नियत्रिते। संयोगाद्यैरवाच्यार्थधीकृद् व्यावृत्तिरञ्जनमि
त्यादिसिद्धान्तविरोधाद्, एवं चात्राप्रकृतविशेष्यस्य पार्थक्येनानिर्देशात्र श्लेषो, नापि शब्दशक्तिमूलध्वनिः प्रकृतविशेष्योपस्थापकपदस्थानुभयार्थकत्वात् किन्तु प्रकृतविशेष्यभूतायाः श्रतेरश्लिष्टतया समासोक्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
स्य श्रीमदनन्तानन्दरघुनाथस्य करुणाकादम्बिनीमुक्तसृक्तिसुधोद्धारासारैः स्मृतिपुराणवचनविरोधाभासभावितनितान्तमसृणशङ्कापङ्कप्रक्षालनेन तस्यैव रघुराजशिरोमणेः सर्व्वतः प्रसृपरपरमकारुण्यसुधाऽर्णवस्य निरङ्कुशमहिमधामनि श्रीरामनामनि खचेतसः समाधानमेव प्रयोजनं, तत्र केषाञ्चिदतिसाहसिकानामत्या वेशोऽयमनूद्यमानोऽपि महापतन हेतुरपि भगवन्नाममाहात्म्यमननस्य भगवदुपासनासमानसौभाग्यत्वान्निराकरणार्थमनूद्यते
ग्रन्थस्य साक्षाद्विषयमाह - श्रत्रेति ग्रन्थइत्यर्थः । पुराणवचनानि सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मति
रित्यादीनि, विचाराङ्गं संशयमाह - किमेतानीति । एतेषां स्वार्थः नामोच्चारणस्य पापक्षयहेतुत्वरूपो त्रिवक्षितो न वेत्यर्थः, संशयबीजं च पापविशेषो लोके वेदे चोभयविधवाक्यदर्शनं, संशयान्तरमाह - यदेति । कस्य चिदिति । मन्वा युक्तप्रायश्चित्तस्येत्यर्थः । स्वप्राधान्येन स्वातन्त्र्येणेत्यर्थः, संशयान्तरमाह, तदाऽपीति । स्वातन्त्र्येऽपीत्यर्थः । श्रद्धा = श्रास्तिक्यबुद्धिः, भक्तिः = परमेश्वर विषयज्ञानं, विवेको = वैराग्यं विषयेषु, अभ्यासो नामावृत्तिः, देशः काश्यादिः, कालः कर्मोपरमादिः, श्रादिशब्देन शुचित्वादि, विचाराङ्गमवान्तरप्रयोजनमाह श्रस्येति । श्रस्य विचारस्य रघुराजशिखामणेः श्रीरामनामनि चेतसः समाधानं स्थैयंविश्वासविशेष एव प्रयोजनमित्यन्वयः । तत्र द्वारमाह स्मृतीति, स्मृतीनां मन्वादिप्रणीतानां च द्वादशाब्दादिनाशस्य पापस्य कथंतन्नाममात्रेण निरास इत्येवंरूपो विरोधाभासो न तु विरोधः तेन भावितः कृतो नितान्तं मसृणश्चिक्कणो दृढ़ः शङ्कापङ्कः तस्य प्रक्षालनेनेति संशयनिराकरणं द्वारमित्यर्थः । तत्र हेतुमाह - श्रीमदिति । श्रीमदनन्तानन्दो नाम गुरुः स एव रघुनाथस्तस्य करुणैव कादम्बिनी मेघमाला तया मुक्ता ये युक्तिसुधोद्धारा युक्तय एव सुधा = श्रमृतं तस्योद्धाराउत्कटधारा श्रासारा वृष्टयः ताभिरित्यर्थः युक्तिपदस्थाने सुक्तिपदपाठः क्व चित् तत्र सूक्तयो वाक्यानि किंलक्षणस्येत्यत श्राह - सकलेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
प्रकाशसहिता
आगमो मन्त्रशास्त्रं श्रुत्यादीनामर्थस्य सतत्त्वं तत्त्वं तत्र संदेहसंदोहः संशयसमूहः स एव लता तस्या लवित्रं लवनसाधनं चरणनख. चन्द्रिकाया अञ्चल एकदेशो यस्येति, अनेनानायासतः सकलसंशय. निवर्तनसामर्थ्य गुरोः सूचितं तस्यैव पूर्व गुर्वभेदेनोक्तस्य प्रसृमरंप्रसरणशीलं परमकारुण्यं सैव सुधा तस्या अर्णवस्य, परमकारुणिकत्वमेवाह-निरङ्कशेति । निरवधिकशक्तियुक्त
नानोऽस्ति यावती शक्तिः पापनिहरणे हरेः ।
तावत्कर्तुं न शक्नोति पातकं पातकी जनइति वचनाद् द्वादशाब्दादिप्रायश्चित्त क्लिश्येयुर्जना इति परमकारुणिकतया तादृशं नाम निर्मितं भगवतेति भावः । स्वचेतस इति । स्वशब्देनौद्धत्यपरिहारः, परीक्षकाणां चेतःसमाधानं प्रयोजनमित्युक्त प्रौद्ध त्यमिव भायाद्, वस्तुतस्तु तदेव प्रयोजनं, विचाराङ्गपूर्वपक्षरचनाप्रतिजानीते-तत्रेति। भगवन्नाम्नि विषय इत्यर्थः । अयं वक्ष्यमाणः केषांचिदतिसाहसिकानामावेशोऽनूद्यत इति संबन्धः, परमपुरुषार्थप्रच्युतत्वानरकपातोन्मुखत्वाच्चातिसाहसिकत्वमनूद्यमानोऽपि महापातकहेतुः किमुत कृतः
अर्थवादं हरेर्नानि संभावयति यो नरः।
स पापिष्ठो मनुष्याणां निरये पतति स्फुटमित्यादिवचनात् , तादृशोऽप्यनूद्यते निराकरणार्थम् । ननु तथाऽपि महापातकं स्यानेत्याशयेनाह-भगवदिति । निराकरणार्थानुवादस्य भगवन्नाममाहात्म्यमनने पर्यवसन्नत्त्वात्तस्य च भगवदुपासनासमानत्वात्पापक्षयहेतुरेवायमनुवादो न पापहेतुरिति भावः। मननस्येति । युक्तिनिरूपणात्मकग्रन्थकरणस्येत्यर्थः । उपासनाभजनं राजानमुपास्तइत्यादौ तथा दर्शनात्, तत्समानफलत्वं चापातत उक्तं मननस्य, तथा हि भजनं श्रवणकीर्तनादिरूपं नवविधं, कीर्तनं च विविधं नामकीर्तनंगुणकीतनं च, तत्र यथा भगवञ्चरणारबिन्दस्य माहात्म्यनिरूपणं लावण्यनिरूपणं वा भगवद्गुणकीर्तनमेव, एवं भगवन्नाममाहात्म्यनिरूपणंविशेषतो युक्तिभिः क्रियमाणं भगवद्गुणकीर्तनमेव । नन्वेवमेतरय ग्रन्थस्य भगवत्स्तुतित्वमापद्यतेति चेद् इष्टमेवैतद् न त्वेतावता तुद्रप्रभुषु त्वमिन्द्रस्त्वं चन्द्र इत्यादिवदसद्गुणारोपो भगवति मन्तव्यो "विष्णोर्नु कं वीर्याणि" इत्यादिश्रुतिभिर्भगवतोऽसंख्यगुणवत्त्वावधारणाद्, यद्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
उपासना = श्रनन्यविषयतया सप्रेम ध्यानं, तत्समानफलं भगवन्नाम
माहात्म्यनिरूपणं गुणकीर्तनात्मकं
ध्यायन् कृते यजन् यज्ञैहोतायां द्वापरेऽर्च्चयन् । यदांनोति तदाप्रोति कलौ संकीर्त्य केशवमि - त्यादिवचनादिति ।
तद्यथा - अविवक्षितस्वार्थान्येव पुराणवचनानीति, तथा हि कार्य एवार्थे वेदस्य प्रामाण्यं न सिद्धेः तत्रैव शब्दस्य शक्तितात्पर्य्ययोरवधारितत्वात् ततश्च विधिवाक्यस्यैव स्वार्थे प्रामाण्यं न मन्त्रार्थवादोपनिषदां किन्तु तासां कथं चित् क्रतुविध्युपयुक्तार्थत्वं जपार्थत्वं वा, इतिहासपुराणयोस्तु तन्मूलत्वान्नतरां स्वार्थे प्रामाण्यगन्धोऽपीति ।
गुरुमतेन पूर्वपक्षं दर्शयति - तद्यथेति । नाममाहात्म्य प्रतिपाद कानीति शेषः । कार्ये कृतिसाध्ये, सिद्धे कृत्यसाध्ये तत्रैव कार्य पव गवादिपदानां शक्तः, वाक्यानां गामानयेत्यादीनां च तात्पर्यस्यावधारणादित्यर्थः । कार्यान्विते स्वार्थे पदानां शक्तिः, तत्तत्पदार्थविशिष्टे कार्ये वाक्यानां तात्पर्यमिति प्राभाकराः । ततः किं ? तत्राह-
१ –— एषामिदमाकूतम् — अगृहीतशक्तिका च्छन्दादर्थप्रतीत्य नुदयाच्छक्ति ज्ञानस्वापेक्षायां सत्स्वपि व्याकरणादिषु तग्राहकेषु प्रवृत्तिनिवृत्तिरूपव्यवहारादेव साधारण्येन जगति सर्वेषां शक्तिग्रहाद् व्यवहार एव तद्ग्राहकशिरोमणिरिति स्थितौ चैत्र गामानयाचं वधानेत्याद्याकारोत्तमवृद्ध प्रयुक्तप्रवर्त्तकादिवाक्यात् प्रयोज्ये तथा कुर्वतीदमीयचेष्टया प्रयोजकवाक्यस्य तादृशार्थबोधकतामनुपाय व्युत्पिः सुः परस्ताद् ग नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिका र्य्य दर्शन दिन्वयव्यति- रेकाभ्यां मिथोऽन्वितयोरेव क्रियाकारकपदार्थयोः शक्तिं निश्चिन्वान उपजीव्यतयाऽवगतचरान्वर्याशमपरिहर सेव गवादिपदम् आनयनात्मककार्य्यान्वितगवाद्यर्थशक्तम्, असत्यनुपपत्तिप्रतिसंधाने तथाविधकार्य्यान्वित गवादिबोधतात्पय्र्यनिवन्धनप्रयोज कोचरितत्वादित्यादिभ्यतिरेक्यनुमानतः कार्य्यान्वितार्थ एव पदानां शक्तिमवधारयति ततोऽवधारितशक्तिकतादृशपद घटितवाक्यतोऽपि कार्य्यं एव तात्पर्थमध्यवस्तीति ।
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
प्रकाशसंहिता ततश्चेति । स्वाथै लिङ्वाच्ये कार्ये, उपनिषदामित्यस्योपरि कार्याप्रतीते. रिति शेषः, तासां मन्त्रार्थवादोपनिषदां, तत्र मन्त्राणां प्रयोगसमवेतार्थ. स्मारकतया, अर्थवादानां प्राशस्त्यसमर्पकतया: उपयोगित्वं कर्मसु, उपनिषदांतूक्तप्रकारद्वयाभावादध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्ते. पार्थत्वं; न तु प्रामाण्यं कार्यार्थत्वाभावादिति भावः । एवं च सति नाममाहात्म्यप्रतिपादकवाक्यानां पौराणानां प्रत्यक्षवैदिकविधिमूलस्वाभावान्मन्त्रादिमूलत्वात्तदप्रामाण्य सुतरामप्रामाण्यमित्याह-इतिहासेति । नाममाहात्म्यप्रतिपादकयोरिति शेषः। तन्मूलत्वादिति। मन्त्रा. दिमूलत्वादित्यर्थः। अतश्च सकलपुराणवचनप्रामाण्याक्षेपोऽयमिति न अमितव्यं, प्रत्यक्षविधिमूलकानामग्निहोत्रादिवोधकपुराणवाक्यानां-- प्रामाण्यसंभवाद् नाममाहात्म्यप्रतिपादकानि पुराणवचनान्युदाहृत्य विचार्यन्त इत्युपक्रमविरोधाच्चेति।
अन्ये तु मन्यन्ते, न कार्य एवार्थे वेदस्य प्रामाण्यमपि तु सिद्धेऽपि तत्रापि शक्तितात्पर्ययोराचाय्यैरेव निरूपितत्वाद्, मन्त्रार्थवादयोस्तु मानान्तरानधिगतं. सविरुद्धमर्थमवगमयतोरन्यपरत्वेऽपि स्वार्थ प्रामाण्यं. भवत्येव, तात्पर्य हि न प्रमितिमुत्पादयति किन्तु केवलं. तत्र प्रतिबन्धं निरुन्धे तद्यदि खरसत एवं निष्प्रतिबन्धमवधारितरूपमनधिगतविषयश्च विज्ञानमुत्पद्यते शब्दात् सदाऽन्तरेणापि तात्पर्य तस्य प्रामाण्यं किं न स्यात् तत्सं. गानविगानयोः पुनरनुवादत्वगुणवादत्वे, उपनिषदां पुनरनन्यशेषत्वादपास्तसमस्तानर्थमनन्तानन्दानुभवैकरसमनधिगतात्मतत्त्वमवगमयन्तीनां प्रमाणान्तरविरोधेऽपि तस्वैवाभासीकरणेन च स्वार्थ एव प्रामाण्यं भवत्येव,
तदुक्तं भड्पादः
"श्रथ वेतिहासपुराणप्रामाण्यात् मृष्टिप्रलयावपीयेते” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
श्रीभगवनाम कौमुदी ।
तथाऽपि देवता तत्त्वतत्पराणां पुराणानामनुष्ठेयार्थपराणां स्मृतीनां च स्वे स्वे गोचरे गरीयस्त्वाद् गुरुतरप्रायश्चित्तविधायिमन्त्रादिवाक्य विरोधे दुस्तरदुरितक्षयोदेशेन नामसंकीर्त्तनमात्रं विधातुमशकुवन्ति पुराणवचनानि भजनीय देवतास्तावकत्वमेवाश्रयन्ते यस्याः सकृकीर्त्तनमप्येतादृक् सा पुनराप्रायणमुपासिता किं न करोतीति तस्मादविवक्षितार्थत्वमेवैषामिति ।
१६
अत्राभिधीयते - यथा कार्य्यं सिद्धे च वेदस्य प्रामाण्यमविशिष्टं तथा पुराणानामपि, सर्वेषु पुराणेषु वर्षाश्रमधर्माणां प्रबन्धेन प्रतिपादनात्,
श्रीमद्भागवते तावद् -
धर्मः प्रोतिकैतवोऽत्र परमो निर्मत्सराणां सतांवेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ॥ श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृयवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणादिति पुराणस्य त्रिकाण्डरूपत्वप्रतिपादनात्, श्रीमहाभारते च
धर्मे चार्थे च कामे च मोक्षं च भरतर्षभ ! ॥ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क चिदिति धर्म्मब्रह्मणोरविशेषेण प्रतिपाद्यत्वप्रतिज्ञानात् प्रति
पादनाच्च,
भविष्योत्तर मत्स्यपुराणादिषु च धर्म्मप्रतिपादन सौभाग्यस्यैव भूयस्त्वाच्च नातिशङ्कनीयमेव धर्मे प्रामाण्यंपुराणानां तत्र यथा काण्डभेदेन नानार्थत्वमविरुद्धंवेदानां, तथा पुराणानामपि भविष्यति ।
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
१२
प्रकाशसहिता
अथ पुष्कराक्षसिद्धान्ततात्पर्यालोचनया वेदा ब्रह्मा
त्मविषया एव
.
ब्रह्मात्मविषया वेदास्त्रिकाण्डविषया इमे । परोक्षवादा ऋषयः परोक्षं च मम प्रियम् ॥ परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते गदं यथे
त्यादिशास्त्र पर्यालोचनया च त्रिकाण्डस्यैकवाक्यत्वंवेदेषु एवं पुराणेष्वपि ततश्च यस्माद्वाक्याद्योऽर्थः स्वरसतोsवगम्यते सिद्धः काय्र्यो वा तत्र तत्प्रमाणमेव पुराणवचनमिति ।
वेदान्त मतानुसारेण पूर्वपक्षन्दर्शयन् गुरुमतं निराकरोति श्रन्ये त्विति । कार्य एव प्रामाण्यं विधिवाक्यस्यैव च प्रामाण्यमिति द्वैधावधारणं गुरुमते, तत्र प्रथमं दूषयति--न कार्य एवेति । पुत्रस्ते जातइत्यादिवाक्यश्रवणसमनन्तरं श्रोतुर्मुखविकासादिना हर्षमनुमाय तेन च तज्जनकं ज्ञानमनुमाय तत्र चोक्तवाक्यास्यान्वयव्यतिरेकाभ्यां कारणत्वं निर्णीय स्वदृष्टतनयजन्मैवानेन वाक्येन प्रतिपाद्यत इति व्युत्पित्सुः सिद्धेऽपि तात्पर्यमवधारयति, पुत्रस्ते देशान्तरादागत इत्यादिवाक्यान्तरपर्यालोचनयाऽऽवापोद्धाराभ्यां पुत्रपदस्य शक्तिचावधारयति, तदेवं सिद्धेऽपि शक्तितात्पर्यग्रहः संभवतीति । द्वितीयमवधारणं दूषयति- मन्त्रेति । " वायुर्वै क्षेपिष्टा देवते "त्यादिवाक्यानां प्रामाण्यं निवारयितुं मानान्तरानधिगतमित्युक्तं, "धूम एवानेदिवा ददृशे नार्चिरिं "त्यादिवाक्यानां प्रामाण्यं निवारयितुं तदविरुद्ध मि. त्युक्तम् श्रन्यपरत्वेऽपि विधिपरत्वेऽपीत्यर्थः । श्रत्रोदाहरणं "वज्रहस्तः
१ – औपनिषदप्रस्थानास्तु तावद द्वैतविशिष्टाद्वैतशुद्धाद्वैत द्वैताद्वैत द्वैतसिद्धा तवादिनः पञ्चापि गुरुमतं गुरुतयैवावधीरयन्तो गुरुमतीय कार्य्यपरत्व जीवातुभूतोपजीव्यविरोधमतिविशेषशक्तिग्रहाद तिविशेषान्तरशाब्दबोधस्यानुभविकतथा दुर्नि वारमुपदर्शयन्तोऽन्वितोपस्थित्यादिदुराग्रहमरोचयमानाः सिद्धवाक्यतोऽपि शाब्दबोधमभिप्रयन्तीति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
श्रीमगवनामकौमुदी।
पुरंदर" इत्यादिवाक्यानि। ननु विधिपरयोर्मन्त्रार्थवादयोः स्वार्थे तात्पर्याभावे कथं प्रमितिजमकत्वं तात्पर्यस्य निर्णीतस्य प्रमितिजनकत्त्वा-- त्तत्राह-तात्पर्य होति। कल्पनागौरवान्मानाभाञ्चेति भावः । तत्प्रतिब न्धं प्रमितिप्रतिबन्धं निरुन्धे निवर्तयति, यथैकमेवाद्वितीयमित्यादिवा. क्येष्वस्मिन्यामेऽयमेक एवाद्वितीयः पुरुष इत्यादिवदुपचरितार्थत्वशङ्क. याऽद्वैतप्रमाप्रतिबन्ध उपक्रमादिलिङ्गैस्तात्पर्यनिर्णये तन्निवृत्तिः, एवं च यत्र प्रतिबन्धकानवतारो विषयश्चासंदिग्धः प्रमाणान्तरानधिगतश्च प्रमाणान्तराविरुद्धश्च यथा पुरन्दरस्य वज्रहस्तत्वादि तत्र प्रामाण्यं मन्त्रार्थवादयोः स्यादेवेत्याह-तद्यदीति । चशद्वात्प्रमाणान्तराविरुद्धविषयं,तत् तर्हि, तात्पर्यमिति। नितिमिति शेषः। तस्य शद्वस्य। वायुर्वक्षेपिष्ठेत्यादीनां, धूम एवेत्यादीनां वाक्यानां गतिमाह-तत्संगानेति । तस्य विषयस्य, संगानं प्रमाणान्तरसंवादः, विगानं तद्विसंवादः क्रमेणोत्तरेणान्वयो, गुणवादस्वम् औपचारिकत्वं, ततश्च वायुर्वं क्षेपिष्ठत्यादीनां प्रमाणान्तरसंवादादनुवादत्वं, धूम एवेत्यादीनां प्रमाणान्तरविसंवादादौपचारिकलां, वज्रहस्तः पुरन्दर इत्यादीनांप्रमाणान्तरसंवादविसंवादाभावात्प्रामाण्यस्य च स्वतस्त्वात्स्वार्थे प्रामाण्यमेव युक्तम् । उपनिषदां गतिमाह-उपनिषदामिति । अनन्यशेषत्वादिति मन्त्रार्थवादबैलक्षण्यं, मन्त्रादीनां विधिशेषत्वाद्, आत्मतत्त्वमबगमवन्तीनामिति विधिवैलक्षण्यम्, अनुवादत्वपरिहारायाह-अनधिगतमिति। अपुरुषार्थत्व. परिहाराय-अपास्तेति । दुःखाभावमात्रं परिहरति-अनन्तानन्देति। ननु द्वैतावभासिप्रमाणान्तरविरोधादप्रामाण्यं स्यान्नेत्याह-प्रमाणान्तरेति । तस्यैवेति । प्रमाणान्तरस्यैवेत्यर्थः । उपकमोपसंहारादितात्पर्यलिङ्गो. पेतत्वादुपनिषदामिति भावः । पुराणानां गतिमाह-तन्मूलत्वादिति। मन्त्रार्थवादोपनिषन्मूलत्वादित्यर्थः। स्वार्थे सिद्ध इति शेषः। विधौ विवादाभावात्, तत्रैव सिद्धार्थे प्रामाण्ये भट्टाचार्यसंमतिमाह-उक्तं चेति । न चैवं नाममाहात्म्यप्रतिपादकानां पुराणवाक्यानामपि प्रामाण्यं स्याने त्याह-तथाऽपीति। यद्यपि मन्त्रादीनां प्रामाण्यं तथाऽपीत्यर्थः। पुराणवचनानि भजनाय देवतास्तावकत्वमेवाश्रयन्त इति संबन्धः। अशेषपापक्षयफलकनामकीर्तनविधिपरत्वं किन्न स्यादत पाह-दुस्तरेति । दुरितं. ब्रह्महत्याऽऽदि,मात्रशद्वेनाल्पत्वं द्योत्यते। प्रतिज्ञातेऽर्थे हेतुमाह-मन्वा दिवाक्यविरोध इति । विरोधं सूचयति-गुरुतरेति। यदि नामकीर्तन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
प्रकाशलहिता मात्रेण ब्रह्महत्याऽऽदिपापक्षयः तर्हि द्वादशाब्दादिप्रायश्चित्तवैयथ्यं स्यादिति विरोध इति भावः। ननु विपरीतं किन्नस्यात् तथा हि मन्वादिवाक्य विरोधे नामकीर्तनवाक्यानामर्थवादत्वमाश्रीयतेनामकीर्तनवाक्यविरोधे मन्वादिवाक्यानामेव ब्रह्महत्याऽऽदिनिषेधार्थवादत्वमाश्रीयतामिति शङ्का निराकरोति-देवतेति। देवतास्वरूपपराणां पुराणानां स्वविषये गरीयस्त्वाद् अनुष्ठेयार्थपराणांच स्मृतीनां स्वविषये गरीयस्त्वाद्, मन्वादिवाक्यविरोधे पुराणवचनानि स्तावकत्वमेवाश्रयन्त इति योजना, पुराणानां देवतास्वरूपपरत्वं स्मृतीनामनुष्ठेयार्थपरत्वंचोपक्रमोपसंहारादितात्पर्यलिङ्गैर्द्रष्टव्यम् । गरीयस्त्वादिति । दृढतरप्रमाणोपेतत्वादित्यर्थः, अतश्च नामकीर्तनवाक्यानां विष्णुरूपदेवतास्तावकत्वं मन्वादिवाक्या. नां प्रायश्चित्तविधायकत्वमेव युक्तमिति भावः । ननु किं देवतास्तुत्या? अताह-भजनीयेति। भजनमुपासना, ततश्चोपासनाविधिशेषत्वं नामकीर्तनवाक्यानामिति भावः। अत एवाह-यस्याइति। आप्रायणमामरणम् अतश्चमरणपर्यन्तमुपासनाऽनुष्ठान विधेयं, ततश्च नामकीर्तनवाक्यानामविवक्षितार्थत्वमित्युपसंहरति-तस्मादिति । नामकीर्तनवाक्यानांखार्थे प्रामाण्यं वक्तं प्रथमतःपुराणवाक्यानां प्रामाण्यं दर्शयति-यथेति। विधिवाक्यानां कार्य; उपनिषदादीनां सिद्धे परमात्मनि तथा पुराणानापि प्रामाण्यमविशिष्टमित्यनुषङ्गः, धर्माणां परमात्मनश्चेति शेषः । प्रबन्धन विस्तरेण, तदेव विवृणोति-श्रीभागवत इति । पञ्चम्यन्तानां नातिशङ्कनीयं धर्मे प्रामाण्यं पुराणानामित्युत्तरेणान्वयः। प्रथमतः श्रीभागवतग्रहणं पुराणेषु श्रेष्ठत्वात् श्रेष्ठत्वे च प्रमाणमयमेव श्लोकः तथा हि-अत्र भागवते परमो धर्मो निरूप्यते, धर्मस्य परमत्वमेवाह-प्रोज्झितं कैतवं. कपटं स्वर्गापवर्गलक्षणं फलाभिसंधिरूपं यत्रेति, ततश्च काम्यधर्मप्रधानेभ्यः परमेश्वराराधनाख्यधर्मप्रधानं श्रीभागवतं श्रेष्ठमिति भावः,निर्मत्सराणां सतामिति तस्यैव धर्मस्याधिकारिपर्यालोचनया परत्वमुक्तं न केवलं तादृशधर्ममात्रनिरूपकत्वं किं तु वास्तवं वस्तु परमात्मरूप. मत्र वेद्यं कीदृशंवस्तु शिवदं सुखदम् आध्यात्मिकाधिभौतिकाधिदैवि. कतापत्रयनिवर्तकं चाराधितं सदिति भावः, ततश्च फलाभिसंधिशून्यमपि परमेश्वराराधनं परिपक्कं सकलफलप्रदमिति सुचितम्, अनेन ताशवस्तुनिरूपकत्वादपि पुराणान्तरेभ्यः श्रेष्ठत्वं श्रीभागवतस्योक्तं, यद्यपि पुराणान्तरेवपि तादृशं वस्तु निरूप्यते तथाऽप्यत्र यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
૫
1
प्राधान्येन निरूप्यते तथा नान्येषु धर्मार्थकामप्रधानेष्विति भावः । प्रकारान्तरेण श्रेष्ठत्वमाह किं वा परैरिति । परैः पुराणैः श्रुतैः सद्भिरीश्वरो हृदि सनः किं वाऽवरुध्यते नावरुध्यत इत्यर्थः । अत्र शुश्रूषुभिः श्रवणेच्छावद्भिस्तत्क्षणादवरुध्यते कृतिभिरिति श्रवणेच्छाऽपि श्रीभागवतस्य पुण्यवतां भवति न सर्वेषामिति सूचितम् श्रवरुध्यत इति वर्तमानत्वनिर्देशेन भागवतश्रवणे हृदि परमेश्वरावरोधनं कृतिनामनुभवसिद्धमिति सूचितम्, पुराणस्य श्रीभागवतस्य, त्रिकाण्डेति । कर्मकाण्डज्ञानकाण्डदेवताकाण्डरूपत्वप्रतिपादनादित्यर्थः । तत्र प्रथमपादे कर्मकाण्डरूपत्वं द्वितीयपादे वास्तवपरब्रह्मनिरूपकतया ज्ञानकाण्डरूपत्वं, किं वा परैरित्यादिना देवताकाण्डरूपत्वं प्रतिपाद्यत इति । भूयस्त्वादिति । परमात्मप्रतिपादनमपि तत्राल्पं वर्तत इति भावः । नातिशङ्कनीयमिति । संशयविपर्ययौ न मन्तव्यावित्यर्थः । धर्म इति । परमात्मन्यपीति शेषः । न चैवं नानाऽर्थत्वं दोषायेत्याह - तत्रेति । वेदान्त्येकदेशिनस्तु सर्वो वेद: परमात्मपर एव, न च यागस्वर्गयो हिंसानरकयोश्च साध्यसाधनभावासिद्धिप्रसङ्गोऽन्य परत्वादिति वाच्यम्, अन्य परंभ्योऽपि वज्रहस्तः पुरन्दर इत्यादिभ्यो देवता विग्रहसिद्धिवत्तदुपपत्तेरिति वदन्ति, तत्पक्षावलम्बनेन पुराणवचनानामपि परमात्मपरत्वमेष, नामकीर्तन वाक्यानां तु स्वार्थपरत्वाभावेऽपि यजेत स्वर्गकाम इत्यादिवत्स्वार्थे प्रामाण्यं स्यादेवेत्याशयेनाह - श्रथ पुष्कराक्षेति । नन्वेवं सर्वस्य वेदस्यैकवाक्यत्वं स्यादित्याशङ्कामिष्टापत्या परिहरति-वेदा इति । त्रिकाण्डविषया वेदा ब्रह्मात्मविषयाः, कथमन्यविषयाणामन्यविषयत्वंतत्राह – परोक्षेति । गूढवादा इत्यर्थः । ऋषयो वेदाः, तदुक्तमृषिणेत्यादौ वैदिकप्रयोग ऋषिशद्वस्य वेदार्थत्वदर्शनाद्, विषं भुङ्क्ष्वेत्यादिवाभ्यवद् गूढवादत्वं वेदानामिति भावः । गूढ़वादं स्तौति – परोक्षमिति । ममेति परमेश्वरोक्तिः, अनुशासनं विधिनिषेधात्मा वेदोऽयंबालानामज्ञानां परोक्षवादः । ननु कर्माणि विधत्ते; सत्यं विधत्ते न तु तत्र तात्पर्यं किंतु कर्ममोक्षाय संसारनिवृत्तये, यथा वालानामगदंभेषजं रोगनिवृत्तये न तु तदनन्तरं पित्रा दीयमानगुडावाप्तये, अतः परमात्मपर एव वेद इति सर्वे वेदा यत्पदमामनन्ति सर्वैश्च वेदैरहमेव वेद्य इत्यादिशतार्थः । स्वमतेनोपसंहरति-ततश्चेति । खरसतइति । पूर्वमतेऽस्वरसप्रदर्शनम् । उदाहतवाक्यानि तु साक्षात्परम्परया परमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
प्रकाशसहिता त्मविद्यायां शेषभूतः सर्वो वेदइत्येवं व्यारव्येयानि, सिद्धः परमात्मा. दिरूपः कार्यस्तदुपासनानामकीर्तनादिरूपः।।
ननु भवतु च धर्मेऽपि तात्पर्य पुराणानां; नामकीतनविषयाणां पुनः पौराणार्थवादाना स्मार्तप्रायश्चित्तविधिविरोधे प्रामाण्यन्न युज्यते ? ___ इयमविदितमीमांसावृत्तान्तानां विभीषिका, तथा हि किमिदमर्थवादत्वम् ; अविधित्वं, विधिशेषत्वं, वाऽतत्परत्वं वा? यदि तावविधित्वं तत् किं लिङादिप्रत्ययविरहात् तद्वाच्यविरहाद् वा, न तावल्लिङादिप्रत्ययविरहात् “पूषा प्रपिष्टभागो यदाग्नेयोऽष्टाकपालोभवती” त्यादीनामप्यविधित्वप्रसङ्गात् । ननु तत्र लिङादिप्रत्ययविरहेऽपि तद्वाच्यमस्ति कालत्रयानवच्छिन्नन द्रव्यदेवतासम्बन्धेन यागविधिपरिकल्पनाद्, इह तु न तदस्तीत्यविधित्वं, तयुक्तम्, इहापि
"प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परमि-"
त्यादौ कालत्रयानवच्छिन्नेन साध्यसाधनसम्बन्धेन विधेः कल्पनात् ।
अथ "हरिरित्यवशेनाह घुमान्नाईति यातनामि"
त्यादौ वर्तमानापदेशादविधित्वं? तर्हि "तरतिब्रह्महत्यां योऽश्वमेधेन यजते” “अग्निहोत्रं जुहोती"त्यादीनामप्यविधित्वप्रसङ्गः। अथ तत्रापूर्वत्वाल्लकारपरिणामेन पञ्चमलकाराश्रयणेन वा विधित्वम् , इहापि तथैव भविष्यति। . ननु मन्वादिवाक्यविरोधे नामकीर्तनवाक्यानामर्थवादत्वमेव युक्त. मिति पूर्वोक्तं स्मारयति-नन्विति । दूषयति-इयमिति । प्रविधित्व. मविधायकत्वम्, अतत्परत्वमविधिपरत्वम् । तद्वाच्येति । लिम्वाध्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
१७
शाब्दभावनाऽऽत्मकविधिविरहात्कार्यविरहादिति वाऽर्थः । श्रविधित्वप्रसङ्गादिति । श्रविधायकत्वप्रसङ्गादित्यर्थः । द्वितीयपक्षावलम्बनेन वैषम्यं शङ्कते - नन्विति । तत्र पूषादिवाक्येष्वित्यर्थः । तद्वाच्यमिति । शाब्दी भावना कार्य वा, कथं गम्यतेऽत श्राह - कालत्रयेति । भूतभवियद्वर्तमानकालत्रयसंबन्धे हि विधिर्न घटतेऽत उक्तं- कालत्रयानवच्छिन्नेनेति । विधिकल्पनादिति । शाब्दभावनायाः कार्यस्य वा कल्पनादित्यर्थः । इह त्विति । नामकोर्तनवाक्येष्वित्यर्थः । तदिति । लिङ्वाच्यमित्यर्थः । इतिशद्वो हेतौ । श्रविधित्वम् = श्रविधायकत्वम् । साम्यंन समाधत्ते - तदयुक्तमिति । विष्णुपुराणे "कृते पापेऽनुतापा वै यस्य पुंसः प्रजायत” इति श्लोकस्य पूर्वार्धम् श्रत्र लोके हरिस्मरणपापक्षययोः साध्यसाधनसंबन्धः प्रतीयते तेन च कालत्रयानवच्छिन्नेन विधिः कल्प्यते पापक्षयकामो हरिस्मरणं कुर्यादिति । वर्तमानापदेशादविधायकत्वं विष्णुनाम कोर्तनवाक्यानाभिति तृतीयं पक्षं शङ्कतेश्रथेति । प्रतिवन्द्या परिहरति-तहति । श्रपूर्वत्वादिति । ब्रह्महत्यातरणाश्वमेधयोः साध्यसाधनसंबन्धस्य लोकानधिगतत्वादित्यर्थः । लकारविपरिणामो लटो लिङ्त्वकल्पनं यजेतेति, इहापि हरिनामोच्चारणपापनिर्हरणयोः साध्यसाधनसंबन्धस्थापूर्वत्वाद्विधित्वं भवि व्यतीत्याह- इहापीति ।
अथ विधिशेषत्वं कोऽसौ विधिर्यच्छेषत्वमेषां, किंनामकीर्त्तनविषयोऽन्यो वा ? न तावदन्यः, अन्यस्य विधेरसन्निधानाद् नामसंकीर्त्तनस्यैव खातन्त्र्येणोपसंहाराच, अथ नामकीर्त्तनविषय एव; तर्हि तस्य नियोज्यविशेषणान्तराश्रवणादन्यस्य कथंभावे वा श्रवणादार्थवादिकंपापनिर्हरणमेव नियोज्यविशेषणत्वेन सम्बध्यते रात्रिस
न्यायेन; ततश्च कार्य्यान्वयान्न विधिशेषत्वं प्रतिपत्तिमात्रान्वयिनो हि विधिशेषाः । ननु प्रदेशान्तर स्थितमपि नामसंकीर्त्तनं प्रदेशान्तरस्थस्यापि "विष्णुरुयांशु यष्टव्योऽजामित्वाये" त्यादेः ऋतुविधेरङ्गमुपासनाविधेर्वा; तदव्यभिचारिविष्ण्वाख्यदेवतासम्बन्धमुखेन पर्णमयीत्व -
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
प्रकाशसहिता वत् । ततश्च “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकशृणोती"त्यादिफलश्रुतेरिव पापक्षयफलश्रुतेरप्यर्थवादत्वं परार्थत्वात् , तदयुक्तं; परार्थत्वासिद्धः,
ध्यायन् कृते यजन् यजत्रेतायां द्वापरेऽर्चयन् । यदानोति तदाप्नोति कलौ संकीर्त्य केशवमिति,
ध्यानयज्ञाचनकायें युगभेदेन कीर्तनस्य व्यवस्थापितत्वाद् । नन्वस्यार्थवादत्वात् कथं तद्वलेन पर्णमयीन्यायप्रतिक्षेपः? उच्यते-फलांशस्तावदास्तांध्यानयज्ञार्चनानां युगभेदेन व्यवस्थया श्रेयोहेतुत्वानुवाद एवार्थवादत्वे नावकल्पते, स्तुतावनुपयोगात् स्तुतिर्हि न देशकालव्यवस्थामवलम्बते, अपि त्वदेशकालेऽपि स्तुत्यर्थस्य पुरुषार्थत्वम् ।
ननु न कीर्तनमिह स्तूयते, अपि तु कलिः, युगान्तरेषु महता प्रयासेन यत्साध्यते तत्कलावल्पेनेति, एवमपि कृतादिषु ध्यानादीनां व्यवस्था नोच्यते किं तु यत् कृतादिषु ध्यानयज्ञार्चनैराप्नोति तत्कलो कीर्तनेनैवेति वक्तव्यं, न च तथोच्यते, उत्तरोत्तरयुगोत्कर्षमुखेन प्रतिपादने कलेः सर्वोत्कर्षविवक्षायां विरम्य व्यापारः प्रसज्जेत, तस्मान्न स्तुतिपरमिदम् अपि तु फलपरमिति । ननु व्यवस्थावाक्यं तावदास्ताम् इतरेषां पुनः पर्णमयीन्यायेनार्थवादत्वं भविष्यति, ततश्च व्यवस्थावाक्यस्यापि कीर्तनविषयत्वादर्थवादत्वमेव भविष्यति,
मैगं, सिद्धे व्यवस्थावाक्यस्थार्थवादत्वे पर्णमयीन्यायावतारः; अवतीर्णे पर्णमयीन्याये च तेषामर्थवादत्वम् ; अर्थवादत्वे च तेषां व्यवस्थावाक्यस्य चार्थवादत्वमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। चक्रकप्रसङ्गाद, अपि च वैष्णवेषु यागेषु विष्णोः स्वरूपेण न देवतात्वम् अपि तु विष्णुशब्दानुविद्वतया तत्संजल्पितस्यैव तस्य तत्रोद्देश्यतया विधानाद् अतएव हि तेनैव शब्देनोद्देशो न शब्दान्तरेण "विष्णवे शिपिविष्टाय श्रते चलमि"त्यादौ देवताभेदोऽपिः कीर्तने तु न विष्णशब्दानुविद्धस्यैव तस्य विषयत्वं नामान्तराणामपि तत्र विनियोगात् ततश्च
वैकुण्ठनामग्रहणमशेषायहरं विदुरित्यादेः पदार्थसम्बन्धमुखेनापि क्रतो नानुप्रवेशः, अतो न स्तुतिपरत्वं फलश्रुतेरिति, अपि च संभवात फलपरत्वे न स्तुतिपरत्वं युक्तं, गौणमुख्ययोमुख्य कार्यसंप्रत्यय इति न्यायात् । पर्णमयीवाक्ये हि पर्णमयीत्वस्य द्रव्यस्य क्रियामनाश्रित्य फलसाधनत्वानुपपत्तेः प्रदेशान्तरवर्तिनीं च क्रियामप्राप्तामाश्रित्य विधानायोगात् क्रियासम्बन्धे फलसम्बन्धे च विधेये वाक्यभेदप्रसङ्गात् ऋतुविधिशेषत्वमेव विधीयते, ततश्च फलश्रुतेरर्थवादत्वम, इहः पुनः संकीर्तनस्य क्रियात्वात तस्याश्च स्वतः फलसाधनत्वोपपत्तेः फलार्थमेव विधानं "पृथग्यः प्रतिबन्धः फलमि” ति न्यायेन; तस्माद्यथाऽर्थवादा एताः फलश्रतयो न गुणवादाइति ।
मौलिक द्वितीयं शङ्कते-अथेति । दूषयति-कोऽसाविति । एषां नामकीर्तनवाक्यानां, कोऽसावित्युक्तं विवृणोति-किमिति । उपस्थितत्वादांदो द्वितीयं दूषयति-न तावदिति । स्वातन्त्र्येणेति । अन्यविधिनिरपेक्षत्वेनेत्यर्थः । श्राद्यं शङ्कते-अथेति । विधिरिति शेषः । तस्येति । नामकीर्तनविषयस्य विधेर्नियोगापरपर्यायस्यास्ति नियोज्याकाङ्क्षा तत्र वर्गकामो यजेतेत्यादौ यथा स्वर्गकामना नियोज्यविशेषणं श्रूयते न तथाऽत्र किंचिच्छ्रयते नियोज्यविशेषणं येन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
प्रकाशसहिता
तद्वान्नियोज्यः स्याद् अतोऽर्थवादोपस्थितं पापनिहरणमेव नियो. ज्यविशेषणत्वेन संबध्यते, ततश्च पापनिर्हरणकामो नियोज्यः कल्पनीय इति भावः। ननु प्रयाजादिविधिवनिनियोज्यत्वमेवास्तु: अन्यथा तत्रापि वर्म भ्रातृव्याभिभूत्यै इत्यर्थवादोपस्थितो भ्रातृव्याभिभूतिकामो नियोज्यः कल्प्येत तत्राह-अन्यस्येति । कथ म्भावोऽङ्गत्वं प्रयाजादिविधेर्दर्शपूर्णमासाङ्गत्वेन श्रवणात्तनियोज्येनैव नियोज्यवत्त्वान्न स्वतन्त्रो नियोज्यः कल्प्यते; नामकीर्तनविधेस्त्वन्याङ्गत्वेनाश्रवणादार्थवादिकपापनिहरणकाम एव नियोज्यः कल्प्यत इति भावः, पतत्प्राभाकरमतेन। भट्टमते तु नामकीर्तनविधेः फलाकाङ्क्षायामार्थवादिकं फलं पापक्षयरूपं करुप्यत इति ज्ञातव्यम् । रात्रिसत्रेति । "प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ती"ति रात्रिसत्रविधेर्मतभेदेन फलाकाङ्क्षायां नियोज्याकाङ्क्षायां पा न स्वर्गः फलं न स्वर्गकामो वा नियोज्यः उपस्थापकाभावाद्, "विश्वजिता यजेते"त्यादावगत्या तदा श्रयणं, ततः प्रतितिष्ठन्तीत्यर्थवादोपस्थिता प्रतिष्ठा फलं, तत्कामो वा नियोज्यः कल्प्यत इति चतुर्थे निर्णीतम्। फलितमाह-ततश्चेति। कार्या. न्वयाद् विधिपरत्वादित्यर्थः, नामकीर्तनवाक्यानामिति शेषः। विधि परत्वे विधिशेषत्वानुपपत्ति स्पष्टयति-प्रतिपत्तीति।प्रतिपत्तिमात्रान्व यिनः प्राशस्त्यप्रतिपत्तिमात्रपरा इत्यर्थः। मात्रशद्वेनानुष्ठेयार्थशन्यतो. च्यते यथा वायुर्वै क्षेपिष्ठा देवतेत्याद्याः, नामकीर्तनवाक्यानांत्वनुष्ठेयार्थवत्त्वाद्विधिपरत्वमेव; न विधिशेषत्वमिति भावः। आति. पति-नन्विति । नामकीर्तनं क्रतुविधेरङ्गमिति संबन्धः, कस्य ऋतु विधेरित्यपेक्षायामाह-विष्णुरिति । यद्यपि "विष्णुरुपांशु यष्टव्य" इति
१-पूर्वमीमांसादर्शने चतुर्थस्य तृतीयेऽष्टमाधिकरणे "प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयन्तीति विषयवाक्यमादाय रात्रिरूपक्रतुबोधवाक्ये श्रयमाणा प्रतिष्ठा फलम् , अर्थवादो वेति संशय्य; "ऋतौ फलार्थवादमङ्गवत् कार्णाजिनिः" ४॥३॥ १५। इतिसूत्रेण जुह्वां पर्णताऽऽत्मकाङ्गत्ववोधकवाक्य इवेहापि फलस्यार्थवादतै बेति कार्णाजिनिमतेन पूर्वपक्षयित्वा, "फलमात्रेयो निर्देशादश्रुतौ हनुमानं स्याद्," ४।३।१६ इतिसूत्रेण फलत्वानिर्देशात् फलमेव प्रतिष्टा विधीयतेऽशुतोऽपि विधि रभ्याहार्य इत्यात्रेयमतेन सिद्धान्तितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
न विधिः, द्वितीयेऽध्यायेऽर्थवादत्वसमर्थनात्', तथाऽपि तद्वाक्यस्याः देरुपांशुयाजमन्तरा यजतीत्यस्येत्यर्थः । ननु प्रकरणाद्यभावे कथ. मङ्गत्वमित्याशङ्कायां वाक्यादङ्गत्वं वक्तुं प्रकरणाद्यभावमङ्गीकरोति. प्रदेशान्तरस्थितमिति । अपिशद्वाच्छ्रुत्याद्यभावाङ्गीकारः । पक्षान्तरमाह-उपासनाविधेरिति । विष्णूपासनाविधेर्वाऽङ्ग नामकीर्तनमित्य न्धयः। उभयत्र हेतुमाह-तदव्यभिचारीति । उपांशुयाजेन विष्णू. पासनया वाऽव्यभिचारिणी विष्ण्वाख्या देवता तत्संबन्धमुखेन तदनुप्रवेशाद् उपांशुयाजे विष्णूपासनायां वाऽनुप्रवेशात् । पर्णेति । यथा पर्णमयोत्वमव्यभिचरितक्रतुसंबन्धिज्जुहद्वारा क्रत्वङ्गं यस्य पर्णमयी जुहूर्भवतीतिवाक्यात् तथा नामकीर्तनमव्यभिचरितक्रतुसंवन्धि. विष्णुदेवताद्वारा क्रत्वङ्गम्, अव्यभिचरितोपासनासंबन्धिविष्णुदेवता. द्वारोपणसनाऽङ्गवा नामकीर्तनप्रतिपादकतत्तद्वाक्यादिति भावः । कि सर्व नामकीर्तनवाक्यं पर्णतान्यायेन नामकीर्तनस्याङ्गत्वं बोधयेत् कतिपयं वा ? नाद्यः ध्यायन्कृत इत्यादेरङ्गत्वबोधकन्वानुपपत्तेः ध्यानयज्ञार्चनसाध्ये फले संकीर्तनस्य युगभेदेन व्यवस्थापरत्वात् , उभयपरत्वे वाक्यभेदादित्याशयेनाह-परार्थत्वासिद्धेरिति । ननु यथा यस्य पर्णमयी जुहूरिति क्रत्वङ्गतया पर्णताविधानं, न स पापं श्लोकं शृणो. तीत्यर्थवादः, तथा संकीर्त्य केशवमिति क्रत्वङ्गतयोपासनाङ्गतया वा नामकीर्तनविधानम् , इतरङ्यायन् कृत इत्याद्यर्थवादः, ततश्च नास्य व्यवस्थापरत्वं येन वाक्यभेदः स्यादिति-शङ्कते-नन्विति । दृषयतिउच्यतइति । फलांश इति। ध्यायन जपन् अर्चयन् यदानोति तदा. मोतीत्येवंरूपः फलांशस्तावदास्ताम्, अर्थवाद इति शेषः, न स पापं. श्लोकं शृणोतीतिवत्सतर्थवादत्वस्य संभावितत्वादिति भावः । कृते ध्यायन प्रेतायां यजन् द्वापरेऽर्चयन् इत्येवं युगमेदेन श्रेयोहेतुत्वव्यवस्थानवादस्तु नार्थवाद इत्याह-ध्यानेति । अर्थवादत्वइति सप्तम्यन्तं, तत्र हेतुमाह-स्तुतावनुपयोगाद्, अनुपयोगमेवाह-स्तुतिरिति । अव
-जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशी, उपांशयाजम. तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टभ्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामिरवायेति, विषयवाक्यानि, अत्र विष्ण्वादिवा. क्यानि विधायकानीति पूर्वपक्षे उपांशुयाजेत्यादिवाक्यं विधायकं, शिष्टाग्यनुवाद. इनि रावान्तः।
--
--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
प्रकाशसहिता
लम्बते = श्राश्रयति,अस्मिन्नेव ग्रामेऽयंसमीचीनोऽस्मिन्नेव काल इत्यादी स्तुत्यपकर्षादिति भावः। अदेशकालेऽपीति। देशकालव्यवस्थारा. हित्येऽपि स्तुत्यस्य पुरुषार्थपर्यवसन्नत्यमवलम्बते स्तुतिरित्यनुषङ्गः, ततश्चापूर्वत्वाव्यवस्था विधेयाऽस्मिन्वाक्ये पर्णतान्यायो नास्तीति भावः। न पर्णतान्यायो नापि व्यवस्थाविधानमिति तटस्थः शङ्कते-नन्वितिसमाधत्ते-एवमिति । पर्णतान्यायाङ्गीकारे यथा व्यवस्थोक्तिर्न घटते एवं कलिस्तुतिपरत्वेऽपि सा न घटत इति तस्मादस्मिन्वाक्ये कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थैव विधीयते न च तथोच्यत इति, यद्यपि तथैवोच्यते कृते ध्यायन् त्रेतायां यजन् द्वापरेऽर्चयन् यच्छेयाप्रोति तत्कलो केशवं संकीत्यति एवकारः परं न श्रयते, न च तावताऽस्ति क्षतिः सर्वथा कलिस्तुत्युपपत्तेः; तथाऽपि कलिस्तुतेरनुपयोगादुक्तव्यवस्थायाश्चापूर्वत्वाद् यदाप्नोतीति यच्छदस्य यदाग्नेयोऽष्टाकपालो भवतीतिवदुपपत्तः, कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थाविधिपरमेवेदं वाक्यमिति भावः । कृते ध्यायन्यच्छेयाप्रोति तन्त्रतायां यजन्ना नोति, यत्त्रेतायां यजन्नाप्नोति तवापरेऽर्चयनामोति, यद्वापरेऽर्चयन्नाप्नोति तत्कलो संकीर्त्य केशवमामोतीति पूर्वपूर्वयुगापेक्षयोत्तरोत्तरयुगस्याल्पप्रयामसाध्यश्रेयोहेतुलप्रतिपादनेनोत्कर्षमुखेन सर्वोस्कर्षः कलियुगस्य प्रतिपाद्यत इत्याशङ्कयाह-उत्तरोत्तरेति। विरम्येति। सकृदुत्का पुनरुक्तिविरम्य व्यापारः श्रावृत्तिरिति यावत्। फलपरमिति। श्रेयोहेतुत्वव्यवस्थाविधिपरमित्यर्थः। नन्वितरवाक्यानां पर्णतान्यायेन नामकीर्तनस्य त्वङ्गत्वबोधकत्वं भविष्यतीति द्वितीयं कतिपयमिति पतं शङ्कते-नन्विति । इतरेपामिति । "हरिरित्यवशेनाह पुमानार्हति यातनामि"त्यादीनामित्यर्थः । पर्णमयीन्यायेनेति । यथा यस्य पर्णमयी जुहूरिति पर्णतायाः क्रत्वङ्गत्वेन विधि,नं स पापं श्लोकं. शृणोति इत्यर्थवादस्तथा हरिरित्यवशेनाहेति नामकीर्तनस्य क्रत्वङ्गत्वेन विधि हतियातनामित्यर्थवादः,एवमन्यत्रापियोज्यम्।नन्वितरवाक्ये. भ्यः क्रत्वङ्गत्वेऽपि नामकीर्तनस्य व्यवस्थावाक्यात्पुरुषार्थत्वमपि भवि ध्यति-तत्राह-ततश्चेति । व्यवस्थावाक्यमर्थवादः नामकीर्तनविषयत्वादि. तरवाक्यवदित्यनुमानात्तस्यार्थवादत्वे केवलकत्वर्थत्वमेव नामकीर्तनस्येति भावः। अपूर्वव्यवस्थाविधिपरत्वाव्यवस्थावाक्यस्य तद्विरोधे सामान्यतो दृष्टमनुमानमप्रमाणमित्याशयेनाह-मैवमिति।दूषणान्तरमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी ।
सिद्ध इति । यद्यपी तरवाक्येषु पर्णतान्यायो न व्यवस्था वाक्यस्यार्थवादत्वमपेक्षते किं त्वव्यभिचरितकतु संबन्धमात्र मपेक्षते तथाऽपि पुरुषार्थतापरिहारेण पर्णतान्यायो न व्यवस्थावाक्यस्यार्थवादत्वमपेक्षते ततश्च सिद्धे व्यवस्थावाक्यस्यार्थवादत्वे इतरवाक्येषु हरिरित्यवशेनाहेत्यादिषु पुरुषार्थता परिहारेण पर्णतान्यायः, तस्मिंश्च सति नार्हति यात नामित्यादीनामर्थवादत्वं ततश्च तत्सामान्याद्व्यवस्थावाक्यस्यार्थवादत्वमिति चक्रकम् । प्रकारान्तरेण पर्णतान्यायं दूषयति-वैष्णवेष्विति । विष्णुशद्वानुविद्धतयेति । विष्णुशद्बोपहिततयेत्यर्थः । तस्य विष्णोः, तत्र यागेषु तत्संजल्पितस्यैव विष्णुशद्वसंजल्पितस्यैवोद्देश्यतया यागान्त तोद्देशविषयतया विधानादित्यर्थः । तेनैव विष्णुशद्वेनैवोद्देशः संकीर्तनं यागेषु न शब्दान्तरेणान्यथा दाशमिकन्यायविरोध इति भावः । विष्णव इति । शृते पक्कदुग्धे विष्णोरन्यो विष्णुः शिपिविष्ट इति देवताभेदो मीमांसक संमतः सोऽप्यत एवेति संबन्धः श्रन्यथा शद्वान्तरप्रवेशेSपि सैत्र देवता स्यात् तस्माच्छब्दोपहित एवार्थो देवता न स्वरूपेणेति भावः । श्रस्तु ततः किं तत्राह कीर्त्तने त्विति । विष्णुशद्बोपहितस्यैवोपांशुयांजे देवतात्वं कीर्तनेऽपि विष्णुशद्वोपहित एव यदि विषयः स्यात्स्या
,
-
,
-
१ - अयमभिप्रायः, “हरिरित्यवशेनाह पुमान्नार्हति यातनामित्यादिषु पर्णतान्यायावतारेणार्थवादत्वं तदाऽऽशङ्कयेत; यदि नामकीर्त्तनस्य त्वङ्गत्वं निजीयेत, तत्तन संभवि ध्यायन् कृत इत्यादिभिर्व्यवस्थाविधानेन पुरुषार्थता प्रतीतेनमकीर्तनस्य त्वङ्गत्व प्रतिबन्धकत्वात् तथा च पूर्व, व्यवस्थावाम्यम्; अर्थवादः नामकीर्त्तनविषयकत्वाद्; इतरनामकीर्त्तनवाक्यवदित्यनुमानेन व्यवस्थावाक्यस्यार्थवादता वक्तव्या, ततो "हरिरित्यवशेना हे" त्यादौ पर्णतान्यायावतारः सुघटः, एवं चेतरवाक्येषु पर्णतान्यायः स्पष्टमेव व्यवस्थावाक्यस्यार्थवाद त्वमपेक्षते, व्यवस्थावाक्यस्यार्थवादत्वेन नार्हतीत्यादीनामर्थवादत्वमपेक्ष्यतेऽनुमानप्रयोगे दृष्टा न्तविधया " नार्हति यातनामि” त्यादिष्वर्थवादत्वं पर्णतानिदर्शनेनैव वाच्यमिति तत् पर्णतान्यायमपेक्षत, इति स्वग्रहसापेक्षग्रहसापेक्षग्र हसापेक्ष महविपयत्वरूपंचक्रक्रमनिवार्य मत्रेति ।
·
२ - पूर्वतस्य दशमेऽध्याये तुरीयपादे हि - विधिवाक्ये श्रयमाणेन देवतावाचकपदेनैवानुष्टाननियमासम्भवं पूर्वपक्षयित्वा विधिशब्दस्य मनवे भावः स्यात्तेन चोदना, १० | ४ | २१ | इति सूत्रेण विधिवाक्य घटकेनैव शब्देनातुष्ठाननियमः सिद्धान्तितः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
प्रकाशसहिता
तदाऽव्यभिचरितक्रतु संबन्धिदेवताद्वारा कीर्तनं पर्णतान्यायेन त्वङ्ग न चैवमस्ति ततश्च हरिरित्यवशेनाहेत्यादौ हरिशद्वेनाभिहितस्योपांशुयाजदेवतात्वे मानाभावान्नाव्यभिचरितक्रतुसंबन्ध इति भावः । पदार्थसंबन्धमुखेनेति । श्रव्यभिचरितक्रतुसंबन्धिपदार्थद्वारेत्यर्थः । पर्णमयीवाक्येऽपि फल परत्वं किन्न स्यादत श्राह - पर्णेति । क्रियामनाश्रित्येति । . दतेन्द्रिय कामस्येत्यादौ शिक्यस्थस्यापि दन इन्द्रियफलसाधनत्वापत्तेरिति भावः । ननु तर्हि होमक्रियामाश्रित्य यथा दघ्नः फलसाधनत्वं विधीयते तथा पर्णत्वस्यापि ऋतु क्रियामाश्रित्यापापश्लोकश्रवणफलसाधनत्वं विधीयतां तत्राह प्रदेशान्तरेति । प्रकरणप्राप्तायां हि क्रियायामाश्रयाश्रयिसंबन्धोऽनूद्यते फलसंबन्धो विधीयते दभेन्द्रिय कामस्येत्यादौ, न चात्र क्रतुक्रिया प्रकरणप्राप्ता प्रदेशान्तरवर्तित्वादिति भावः । नन्वनेनैव वाक्येनाश्रयाश्रयिसंबन्धो विधीयतां तत्राह - वियेति । पर्णमयीत्वस्येति शेषः । क्रियासंबन्धः क्रियया सहाश्रयाश्रयिसंबन्धः। विधीयत इति । पर्णमयीवाक्य इति शेषः । फलश्रुतेर्न स पापमित्याद्यायाः नामकीर्तनवाक्येषु वैषम्यमाह-इहेति । पृथग्ध्येति । उत्तरमीमांसायां तृतीय उद्गीथो
२४
"
१ - उदीच्य मीमांसायां तृतीयाध्याये तृतीयपादे कर्माङ्गावबद्धोपासनानियम राहित्याधिकरणे "त निर्धारणानियमस्तद्द्दष्टेः पृथग्ध्य प्रतिबन्धः फलम् | ३ | ३ ४२ इति सूत्रे अद्वैतभाष्ये "डोमेत्येतदक्षरमुद्गीथमुपासीते"त्यादीनि कर्माङ्गाश्रितानि विज्ञानानि नित्यान्यनित्यानि वेति संदिा प्रयोगवचनपरिग्रहानित्यानीति पूर्वपक्षयित्वा तेषूपासनाकर्मसु निर्धारणस्योपासनस्यानियमो ऽनित्यता सिद्धान्तिता श्रुत्यैव तेतोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदे' त्यैवंरूपया छान्दोग्ये; तद्दृष्ट ेः = अनियमदर्शनाद्, युक्तं चैतद् हि यतः कर्मापेक्षयोपासनायाः पृथक फलमप्रतिबन्धः कर्मसमृद्धिः, तत्रैव वीर्य्यवत्तरं भवतीत्यत्रत्यतरपा पक्षद्वयेऽपि फलसूचनादिति शंकराचार्यपादा अभिप्रयन्ति स्म । विशिष्टाद्वैते श्रीभाष्ये रामानुजाचार्यपादा अप्येवमेव व्याचचक्षिरे । शुद्धाद्वैतेऽणुभाष्ये तु प्रकृतसूत्रभावं वल्लभाचार्यपादा यादृशं प्रत्यपीपदन् तादृशोऽत्र टीकाकृदभीष्टानुगुण्यमाधातुमुदासीनः । द्वैताद्वैते वेदान्त पारिजात सौरभ भाष्येऽपि निम्बार्काचार्यपादाः प्रथमपथद्वयमेवात्सस्नुः । द्वैते पूर्णप्रज्ञदर्शने श्रीगोविन्दभाष्ये च श्रीमदानन्ततीर्थं भगवस्पादतदनुगाचार्य्यं विहिताऽश्रत्य व्याख्याऽन्यादृशसिद्धान्तपरा नैतट्टीक के शेपोद्बलिनीति, अनौपनिषदपञ्चप्रस्थानीप्रदर्शनस्येदमेव तात्पय्यंयन्मूलकारैर्यादृशार्थं प्रमापयितुं समुपन्यासि नैनमुत्तरमीमांसाप्रस्थानेषु कोऽपि विरुणद्धि मनागपीति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
श्रीभगवनामकीमुदी ।
पासनादीनां पर्णता न्यायेनाव्यभिचरितक्रतुसंबन्ध्युद्वीथद्वारा कत्मत्वनियममाशङ्कय सिद्धान्तितं " तन्निर्धारणा नियमस्तद्रष्टेः पृथग्ध्यप्रति बन्धः फलमिति तन्निर्धारणस्य क्रत्वङ्गत्व निर्धारणस्यानिय मोऽसवंतद्दृष्टेः अनि यमदृष्टेः तेनोभौ कुरुतो यश्चैवं वेद यश्च न वेदेत्युपास नारहितऋतुप्रयोगदर्शनादिति, किमर्थं तर्ह्यद्रीयोपासनादीनि विधीयन्तइत्याशङ्क्योक्तं पृथक् स्वतन्त्रम् श्रप्रतिबन्धः कर्मफलसमृद्धिः फलम् उद्गीथोपासनादीनां क्रियात्वात्स्वतन्त्रफले साधनत्वमुपपद्यत इति
भावः ।
પ
erracereवं तदपि स्वार्थपरत्वे बाधकभावात् साधकाभावाड़ा, न तावद्वाधकभावाद् अर्थान्तरपरत्वमेव हि तस्य बाधकं तदिह नास्तीत्यवोचाम, नापि साधकाभावाद् अध्ययनविधेरेव साधकत्वात् स हि प्रयोजनशून्यमत्तमात्रमपि न ग्राहयति; अत एव कुत्र चिदेकत्र तात्पर्य्यमागृह्णाति, तत्रान्यपरत्वस्य पराकृतस्वात् स्वार्थपरत्वं परिशिष्यते, अपि च, उपक्रमोपसंहारयोरेकरूपत्वं पौनःपुन्यमनधिगतत्वमर्थवत्त्वमुपपतिः प्रशंसा चेति पद्विधानि तात्पर्य्यलिङ्गानि तानि चाजामिलोपाख्यानादिषु स्पष्टमुपलभ्यन्ते व्याकरिष्यन्ते च यथावसरं, तस्मान्नैवातत्परत्वं नामसंकीर्त्तनविषयाणांवचनानाम्, अतो यत्किंचिदेतदर्थवादरूपत्वमिति,
अपि च मानान्तरानधिगतं कृतियोग्यमिष्टसाधनमेव विधिः स च लिङादियुक्तेन वाक्येनावगम्यतां - वाक्यान्तरेण वा कस्तत्राग्रहः । इहापि
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरितिप्रमाणान्तरानधिगतं पापक्षयसाधनत्वमड़ास्यते नामकीर्त्तनस्य, कृतियोग्यं च तत्क्रियात्वात् काल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
प्रकाशसहिता , संपर्शानवगमाद् । ननु यन्न सहतएव कालसंसर्ग तत्काव्ययथा यजेतेत्यादिना विहितं, पदान्तराभिहितं तु न तया, नामकीर्तन मित्यादेरस्तीत्यादिना सामानाधिकरण्येऽप्यविरोधात्, तदयुक्तं, कृत्यानामविधित्वप्रसङ्गात्, ते हि कालसंबन्धेनावरुध्यन्ते कर्तव्यमस्तीत्यादिनयोगदर्शनात् , तस्मात् कालसंस्पर्शानवगमएव कार्य्यत्वोपयोगी न तदसहत्वं सवथा कालासंबन्धे शून्यत्वप्रसभाद्, उक्तं च भाष्ये "भविष्यश्चैषोऽर्थ" इति, तस्माद् jार एवं नामसंकीर्तन विषयो विधिः, भवतुावार्थवादत्वमेषां, तद्वलादेव विधित्वमनुमिमीमहे, विधिं विना तस्यैवानुपपत्तेः विधिशेषो ह्यर्थवादः तत्र च विधावार्थवादिकमेव फलं भविष्यति, अपि च स्पष्टमुपलभ्यन्तएव नामसंकीर्तनविषया विधयः, तस्मादेकेन मनसा भगवान् सात्वतां पतिः।। श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ "गीतानि नामानि तदर्थकानि गायन्गिलज्जो विचरेदसङ्गः” "संकीर्तयेजगनाथ" "गोविन्देति सदा वाच्यं" - "नामानि तद्रतिकराणि पठेदलनः" "हित्वा लजां कलिमलकुलच्छेदकानीरयेवा विष्णोनोंमान्यनिशममृतप्राप्तिरेषा चतुर्धे" स्येवंजातीयका बहनः।
अविदितमीमांसावृत्तान्तस्येत्यादिग्रन्थोक्तं तृतीयपक्षमाशतेअथेति।नामकीर्तनवाक्यानामविधिपरत्वमित्यर्थः। दूषयति-तदपीति । भाषःसत्त्वम् । अर्थान्तरेति।स्तुतिपरत्वं पर्णतावत् कत्यहत्वपरत्वं वा पापमयफलोद्देशेन नामकीतनविधिपरत्वे पाधकं तत्त नास्तीत्युक्तमिल त्यर्थः । अध्ययनविधेरिति । यदि त्वध्ययनविधिः पुराणानां नास्तीत्युः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
ब्येत तर्हि पुराणश्रवणविधेरिति ज्ञेयं साधकत्वमेव दर्शयति-सं हीति । न प्राइयतीति । श्रध्येतव्यत्वेन श्रोतव्यत्वेन वा न ग्राहयतीत्यर्थः । ततोऽध्यपनविधिः श्रवणविधिर्वा पुराणानां प्रयोजनशून्यमक्षरमात्रमपि न ग्राहयत्यत एव कस्मिंश्चिदेकस्मिन्फलवति तात्पर्य तत्पुराणवाक्यांना मामहे स्वीकरोतीत्याह श्रतएवेति । ततः किं तत्राह-सत्रेति । नामकीर्तनवाक्येष्वित्यर्थः । श्रन्यपरत्वस्येति । स्तुत्यादिपरत्वस्येत्यर्थः । स्वार्थेति । पापक्षयोद्देशेन नामकीर्तनविधिपरत्वमित्यर्थः । न केवलमध्ययनविधिरेव श्रवणविधिरेव वा नामकीर्तनवाक्यानां तात्पर्य ग्राहकोऽपि तूपक्रमो पसंहारादी न्यपीत्याह-अपिचेति । पौनःपुन्यमभ्यासः, अनधिगतत्वमशांतत्वम् अर्थवत्वं फलवत्वं, प्रमाणान्तरानवगता कृतियोग्येष्टसाधनता लिथं इति मतेऽप्याह-अपि चेति । साधनशद्वो भावप्रधानः । लिङादिषुकेनेति । यजेत स्वर्गकाम इत्यादिनेत्यर्थः । वाक्यान्तरेणेति । पूषा प्रपिष्टभाग इंस्यादि नेत्यर्थः । प्रकृत श्राह इहापीति । कृतियोग्यं च तद्नामकीर्तनमित्यर्थः । क्रियात्वे हेतुः कालसंस्पर्शानवगमादिति । सर्वेषामप्यघवतामित्यादिवाक्ये भूतभविष्यदूधर्तमानकालसंसर्गो नावगम्यते ततो नामकीर्तनं क्रियेत्यभिप्रायः । ननु कालसंस्पर्शायोग्यस्थं क्रियात्वगमकं यथा थजेतेत्यादौ तत्प्रकृते नामव्याहरणं विष्णोरित्यादिवाक्ये नास्तीति शङ्कतेमन्विति । कार्य क्रियेत्यर्थः । पदान्तरेति । सुबन्ताभिहितं तु न काल संस्प शयोग्यमित्यर्थः । तत्र हेतुमाह - नामेति । एवं हि पूषा प्रपिष्ठभाग इत्यादेरविधायकत्वप्रसङ्ग इत्याह-तदयुक्तमिति । तत्राप्यस्तीतिसामानाधिकरण्याविरोधादिति भावः । दूषणान्तरमाह- कृत्यानामिति । कृत्यप्रत्येथानामित्यर्थः । कालसंबन्ध इति सप्तम्यन्तम् । स्वार्थस्येति शेषः । तत्र हेतु:कर्तव्यमिति । तस्माद्वाषये कालसंसर्गाप्रती तिरेव क्रियात्वगमिकेत्युपसंहरति- तस्मादिति । कार्यत्वोपयोगी क्रियात्वगमकः, न तदसंहत्वंन कालसंसर्गासहत्वं, कार्यत्योपयोगीत्यनुषङ्गः । दूषणान्तरमाह - सर्व थेति । वस्तुतः कालसंसर्गायोग्यत्वं शबर स्वामिनामप्यसंमतमित्याह-उक्तचेति । एष इति । विधेयो यागादिरित्यर्थः । परमप्रकृतमुपसंहरति — तस्मा दिति । एवमर्थवादत्वं नामकीर्तनवाक्यानां प्रतिकूलमिति मत्वा दूषितम् । वस्तुतस्तु तदनुकूलं विधेयस्यैव स्तुतिसंबन्धेनार्थवादत्वादेव विधिकल्पनादित्याह - भवतु वेति । ननु तथाऽपि फलाभावादकर्तव्यं नामकीर्तनमित्याशङ्क्यार्थवादोपस्थितं पापक्षयात्मकमेव फलमित्याह-तत्र ब्रेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२७.
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
प्रकाशसहिता
एवं च विधिविभक्तिरहितानां नामकीर्तनवाक्यानां विधिपरत्वमुक्त्वा विधिविभक्तिमन्ति वाक्यान्युदाहरति-अपि चेति । एकेनैकाग्रेण सति करकेश्रोतव्यः, सति श्रोतर्यसति वा कीर्तितव्यः, अनेनगुणकोर्तन मा. मकीर्तनं च विधीयतेऽ विशेषात्. श्रवणकीर्तनयोरसंभवेध्येयःस्मर्तव्यः, स्मरणस्याप्यसंभवे पूजनीयः, नित्यदेत्येवं यथाकथंचित्सर्वःसमयोमगवत्परतयैव नेतव्य इति भावः। गीतानि पूर्वरिति शेषः । अध्याहारभयादीतिविशिष्ठनामोश्चारणविधानं वा तदर्थकानि भगवत्प्रतिपादकानि तस्येति वक्तव्येऽर्थग्रहणात्तत्फलकानि च ततश्च नामकीर्तनेऽस्य भगवत्प्राप्तिः फलमिति भावः। विलन्ज इत्युच्चैरुच्चारणविधानम् , असा इति नाधिकारिविशेषणं सर्वाधिकारवारिक वसङ्गो विषयासङ्गरहितो. विवरेद्भवेदिति यावत्, ततश्च नामकीर्तने विषयासको गच्छतीति भावः । तद्रतिकराणि भगवत्प्रीतिकराणि कर्तुरेव वा तस्मिन्भगवति प्रीतिकरालि। चतुर्वेति । प्रणवाभ्यासोवाराणसीवसतिः शतरुद्रिय. जपो नामोचारणं चेति तदेनदग्रे मूल एव वक्ष्यते।
नमु भवतु नामकीर्तनविषयो विधिः, तथापि नित्य एवासानहरहः खाध्यायमधीयीतेतिवत्
संकीर्तयेजगन्नाथं वेदं वापि समभ्यसेदितिसमभिव्याहारात.ततश्च घृतकुल्याऽऽदिफलश्रतेरिव पापचयफलश्रुतेरर्थवादत्वं, तदयुक्तम् अविशेषात् न हि नित्योऽनित्यो वा विधिः फलं विना समाप्यते ततश्चाश्रुतफलकल्पनादार्थवादिकफलस्वीकरणमेव न्याय्यं तस्माद्विवक्षितार्थस्यैव नामकीर्तनस्य पापक्षयहेतुत्व प्रतिपादकानि पुराणवचनानीति ।
कृष्ण कृष्ण मधुसूदन विष्णो कैटभान्तक मुकुन्द मुरारे। पद्मनाभ नरसिंह हरे श्री
राम राम रघुनन्दन ! पाहि ॥ इति श्रीमदनन्तानन्दरघुनाथपादपद्मोपजीविनो लक्ष्मी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
धरस्य कृतौ भगवन्नामकौमुद्यां पुराणवचनानां विवक्षितार्थत्वप्रतिपादनं नाम प्रथमः परिच्छेदः ॥
नामकीर्तनविधिमङ्गीकृत्य फलमाक्षिपति-नन्विति । तत्र हेतु. माह-संकीर्तयेदिति-समभिव्या हारादिति । नित्यवेदाभ्याससहपाठादित्यर्थः। ततश्चेति । पयसः कुल्या ह्रदान पितृन्स्वधा अभिवहन्ती. त्यादिफलश्रवणमध्ययनस्य यथाऽर्थवाद; एवं पापक्षयफलश्रवणं नाम. कीर्तनविधेरर्थवाद इत्यर्थः । अविशेषादिति । नित्यस्य काम्यस्य वा विधेः फलाकाङ्क्षाया अविशेषादित्यर्थः । तदेवाह-न हीति। अहरहः स्वाध्यायाध्ययनस्यापि नित्यत्वात्पापक्षय एव फलम् । उपसंहरतितस्मादिति । प्रथमपरिच्छेदसमासौ नामोच्चारणरूपं मङ्गलं कुर्वनाममाहात्म्यप्रतिपादकम्य ग्रन्थस्य प्रचयगमनरूपं फलं प्रार्थयतेकृष्णेति।
यन्नामकीर्तनं सद्यः सर्वपापनिवर्तनम् । तं वन्दे परमानन्दसिन्धुं श्रीनन्दनन्दनम् ॥
इति श्रीमदापदेवसूनुनाऽनन्तदेवेन कृते श्रीभगवन्नामकौमुदीप्रकाशे
प्रथमः परिच्छेदः समाप्तः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
श्रीमगवन्नामकौमुदी।
द्वितीयः परिच्छेदः
श्रीकृष्णाय नमः। श्रीकान्त कृष्ण करुणाकर कञ्चनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावली विमलमौक्तिकहारलक्ष्म
लावण्यवन्धनवतीं करवाणि कण्ठे ॥ एवं स्थिते नामकीर्तनस्य पापक्षयं प्रति साधनत्वे पुनरिदं विचार्यते-किं कस्य चित् साधकतमस्याङ्गभूतं. तद् उत खयमेव साधकमिति ?
ननु निर्णीतमेतत् फलश्रुतेरर्थवादत्वनिराकरणेन, सत्यं तदेव पुनराक्षेपान्तरनिराकरणेन दृढीक्रियते स्थूणानिखननन्यायेन । तत्र मन्वाद्युक्तप्रायश्चित्ताङ्गमिति तावत्प्राप्तं, तथा हि-विकल्पसमुच्चयव्यवस्थानामन्यतमाश्रयणेन स्मृतिपुराणविरोधस्तावदवश्यं परिहर्त्तव्यः, समानमूलत्वेनान्यतरस्याप्यनतिलड्डनीयत्वात् , तत्र विकल्पव्यवस्थे तावन्न युज्यते नित्यवदवगतस्य पारिकत्वे सामान्यश्रुतस्य च विशेषविषयत्वे शन्दवचनस्वारस्यभङ्गप्रसङ्गाद्, अतः समुच्चयोऽत्र परिशिष्यते।
__ प्रकाशस्य द्वितीयः परिच्छेदः।
॥ श्रीगोपीरमणाय नमः ॥ द्वितीयपरिच्छेदार्थप्रतिजानीते-एवमिति। पूर्वपरिच्छेदन पौनरूत्वं शङ्कते-मन्विति । नामकीर्तनस्य किंचिदङ्गत्वे फलश्रुतिरर्थवाद एष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
प्रकाशसहिता
स्यादतः स्वप्रधानमेव तदेतदिति भावः । तदेवेति । स्वप्रधानमेवेत्यर्थः । श्राक्षेपान्तरमाह-तत्रेति । विकल्पेति । पापक्षयकामेन नामकीर्तनं कर्तव्यं मन्वाद्युक्तप्रायश्चित्तं वेति विकल्पः । उभयं कर्तव्यं न त्वेकेन पापक्षयइति समुच्चयः । कस्य चिदधिकारिणो नामकीर्तनं पापक्षयसाधनं कस्य चिन्मन्वाद्युक्तप्रायश्चित्तमित्यादि व्यवस्था । स्मृतीति । पापक्षयो देशेन मन्वादिस्मृतिभिर्द्वादशाब्दादि विधीयते पुराणवचनैस्तु नामकी र्तनं विधीयते तत्र विकल्पसमुच्चयव्यवस्थानामन्यतमस्यानाश्रयणे स्मृतिपुराणवचनानामप्रामाण्यमेव स्यादिति भावः । श्रयमेव विरोधशब्दार्थः । तयोरप्रामाण्यमेव किं न स्यादतश्राह - समानेति । श्रुतिमूलकस्वात्स्मृतिपुराणवाक्यानामप्रामाण्या योगादित्यर्थः । श्रङ्गप्रधानभावेन समुचयं वक्तुं विकल्पपक्षं व्यवस्थापक्षं च निराकरोति - तत्रेति । नित्यवदिति । पापक्षयोद्देशेन नामकीर्तनं द्वादशाब्दादि च नित्य वच्छ्रयते तयो. र्विकल्पे तु पाक्षिकत्वं स्यात् ततश्च नित्यवच्छ्रवण बाधाच्छद्वस्वारस्यभङ्गः स्यात्, अधिकारिविशेषेण वा देश विशेषेण वा व्यवस्थाऽऽश्रयणे सामान्यश्रुतस्य विशेषे लक्षणया शद्वस्वारस्यभङ्गः स्यादित्यर्थः ।
३२
.
ननु समुच्चयेऽपि निरपेक्षसाधनत्वेनावगतस्य सापेचत्वे स्वारस्यभङ्गस्तदवस्थ एव, मैवं, नैरपेक्ष्यं हि साधनान्तराभावः स च नानयोरन्यतरस्यापि विषयः स्वविवयस्य साधनत्वे साधनान्तरस्य चाभावे प्रमेये वाक्यभेदप्रसङ्गात् स तु योग्य प्रमाणान्तरानुदयस्य विषयः, उपलभ्यते तु प्रमाणान्तरं साधनान्तरग्राहकम्, अतः प्रमाणद्वय पर्यालोचनायां परस्पर सापेक्षत्वात् स्मार्त्तपौरागयोः समुच्चय एवं श्रेयान् ।
"
मन्विति । नामकीर्तनवाक्येभ्यो हि तदेव निरपेक्षसाधनं पापक्षयस्य प्रतीयते मन्वादिस्मृतिभ्यस्तु द्वादशाब्दादि निरपेक्षसाधनंपापक्षयस्य प्रतीयते तयोः समुचये तु सापेक्षत्वाच्छन्दस्वारस्यभङ्गः स्यादेवेति भावः । नामकीर्तनवाक्यात्तस्य पापक्षयसाधनत्वं प्रतीयते न तु निरपेक्षत्वं तस्याशाद्वत्वादेवं मन्वादिवाक्याद् द्वादशाद्वादेः पापक्षयसाधनत्वमेव प्रतीयते न तु निरपेक्षत्वमुक्तहेतोरिति परिह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
३३
1
रति । मैवमिति । नैरपेक्ष्यस्याशाद्वत्वे कारणमाह – नैरपेक्ष्यमिति । अनयोरिति । नामकीर्तनमन्वादिवाक्य योरित्यर्थः । साधनत्वं निरपेक्षत्वंच शद्वप्रमेयं किं न स्यात्तत्राह - स्वविषयस्येति । नामकीर्तनवाक्यंमन्वादिवाक्यं च स्वस्वविषयस्य साधनत्वं साधनान्तराभावात्मकंनिरपेक्षत्वं च बोधयद्भिद्येतेत्यर्थः । शब्ददूषणं वाक्यभेदरूपमुत्तवाऽर्थदूषणमाह- सत्विति । योग्यानुपलब्धेरित्यर्थः । तया ह्यभावो गृह्यते न चात्र साऽस्ति प्रमाणद्वयेन साधनद्वयोपलम्भादित्यर्थः श्रतो न शब्दस्वारस्यभङ्गः, प्रत्युत शब्दसामञ्जस्यमेव समुच्चयपक्षे स्यादित्युपसंहरति श्रत इति । स्मार्तेति । द्वादशाब्दादिनामकीर्तनयोरित्यर्थः ।
1
"
,
नन्वेवमपि समुच्चि तयोरनयोर्द्दर्श पौर्णमासयोरिव का रणत्वमेव किं न स्याद् विपरीतो वाऽङ्गप्रधानभावः १ पुराएवचनेभ्य एव भगवद्भजनस्य प्रायश्चित्तकर्माङ्गत्वावगमादिति ब्रूमः -श्रीभागवते तावत्
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् | न निष्पुनन्ति राजेन्द्र ! सुराकुम्भमिवापगाइति भगवद्भजनस्य प्रायश्चित्ताङ्गस्वमवगम्यते, प्रायचित्तानि न पुनन्तीति न तस्यार्थः, मन्वादिवचनव्याकोपाद्, नारायणपराङ्मुखमिति विशेषणवैयर्थ्याच्च, अपि च प्रायश्चित्तान्यनुष्ठितान्यपि नारायणपराङ्मुखंन पुनन्ति नारायणपरायणन्तु पुनन्तीत्यर्थः । अतः स्वतः पुनतां तेषां नारायणपरायणत्वमङ्गमित्यवगम्यते, तथा तत्रैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
मन्त्रतस्तन्त्रतश्चिद्रं देशकालाई वस्तुत: । सर्व्वं करोति निश्चिद्रं नामसङ्कीर्त्तनं हरेरिति, तवेति वा, सर्वकर्मसाद्गुण्यार्थत्वं हि हरिकीर्तनस्य सिद्धवदनूद्यते, तथा स्कन्दपुराणेऽपि
૫
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
प्रकाशसहिता यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियाऽऽदिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतमिति ॥
अनुवादश्च प्राप्तिमनुमापयति निवीताधिकरणन्यायेनोपव्यानविधायकवाक्यशेष निवीतानुवादवत् ।
श्रीविष्णुपुराणेऽपि वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय ! देवेन्द्र त्वादिकं फलमितिकर्माङ्गत्वमवगम्यते हरिस्मरणस्य, यद्यत्र स्मरणंखातत्र्येण विवक्षितं किमिदं जपहोमार्चनादिष्विति, अतःसर्चकाङ्गत्वाद् भगवत्कीर्तनस्मरणयोः, प्रायश्चित्तस्यापि तदन्तः पातित्वात्प्रायश्चित्ताङ्गत्वेनैव नामकीर्तनं पापक्षयहेतुन्न स्वतन्त्रमिति।
ननु समुच्चयेऽपि मन्वायुक्तप्रायश्चित्तं प्रधानं नामकीर्तनं तदङ्गमेवमेव कुतः ? किं तु स्वर्गफले दर्शपूर्णमासयोरिव पापक्षये मन्वायुक्तप्रायश्चित्तनामकीर्तनयोः समत्वेन समुच्चयः किं न स्यादिति शङ्कतेनन्विति । विपरीत इति । नामकीर्तनं प्रधान मन्वायुक्तप्रायश्चित्तमङ्गमित्येवंरूपः किं नस्यादित्यर्थः । पूर्वपक्षी परिहरति-पुराणेति । न च भजनस्य कर्माङ्गत्वेऽपि किं नामकीर्तनस्येति वाच्यं, भजनस्य नवविधत्वेन कीर्तनस्यापि तदङ्गत्वावगमात् । नारायणपरामखमिति द्वितीयान्तं पुरुषविशेषणं, प्रायश्चित्तचरणक्रियाविशेषणं वा, तदेव दर्शयति-प्रायश्चित्तानि नेति । तस्येति । भागवतवचनस्येत्यर्थः । अपि विति । नारायणपरामखशब्दस्य द्वितीयान्तत्वे स्पष्टव योजना। फलितं वचनार्थमाह-नारायणपरायणमिति । भागवतवचनार्थमुपसंहरति-अत इति । स्वत इति । प्राधान्येनेत्यर्थः । परायणत्वं भजनम् । मन्त्रतो न्यूनं तन्त्रतो न्यूनं देशतो न्यूनं कालतो न्यूनम् अर्हशब्दवाच्य शुचित्वादियोग्यतातो न्यूनं वस्तुतो द्रव्यतो न्यूनं सर्वं कर्म निश्छिद्रंपूर्ण करोति नामकीर्तनमिति वचनार्थः । साद्गुण्यं साङ्गत्वं, तदर्थत्वं. तदङ्गत्वं । सिद्धलकारेणानूद्यत इत्यर्थः । न चानुवादेऽपि कथं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
३५
नामकीर्तनस्य प्रायश्चित्ताङ्गत्वेन विधिस्तत्राह-अनुवाद इति । प्रायश्चि. त्ततपोयज्ञाद्यतया विधिमनुमापयति कल्पयति; निवीताधिकरणन्या. येनेत्युक्तं विवृणोति-उपव्यानेति। "उपव्ययते देवलक्ष्ममेव तत्कुरुते" इत्युपव्यानविधेः शेषे "निवीतं मनुष्याणामि"ति निवीतानुवादो यथा निवीतस्य मनुष्यप्रधानातिथ्यादिकर्माङ्गता विधिं कल्पयति तथे. त्यर्थः । तृतीये-विधिशेषे "निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधा. नत्वाद" ।।४।१। इति, इदं च कृत्वाचिन्ताऽधिकरणं, निवीतं मनु प्याणामित्यस्यार्थवादत्वात् । मैत्रेयेति संबोधनम् । तदेवाह-यद्यत्रेति । उपसंहरति-श्रतइति। नन्विह सर्वकर्माङ्गतया पापक्षयहेतुत्व मुच्यते नामकीर्तनस्येति तत्राह-प्रायश्चित्तस्येति ।
अत्र समाधीयते-स्वप्रधानमेव पुरुषोत्तमकीर्तनंपापप्रध्वंसनहेतुः,
श्रीभागवते तावत् कर्मणा कर्मनिहारो न ह्यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शन मिति; कर्मात्मकप्रायश्चित्तनिन्दापूर्वकंके चित्केवलया भत्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कात्स्न्येन नीहारमिवभास्कर
इति ब्रह्मविद्यासमानस्कन्धतया केवलायाः कीर्तनादिलक्षणाया भगवद्भक्तःप्रायश्चित्तत्वेनावधारितत्वात,
--पूर्वतन्त्रस्य तृतीयाध्याये तुरीयपादे प्रथमेऽधिकरणे-"निवीतंमनुष्याणां, प्राचीनावीतं पितणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते” इति विषयवाक्यमादाय; निवीतस्य विधित्वमाशङ्कय; प्राचीनावीतोपवीतयोसिसोऽधःपातनिबन्धनासौकर्यसम्भावनया किल स्वरसप्राप्ते निवीते विधेरनपेक्षणादर्थवादत्वं सिद्धान्तितं, श्रयमाणरय प्रशंसाऽर्थवादस्यान्य. थाऽनुपपत्त्योपध्यानस्यावश्यके विधेयत्वे निधीतादेरपि विधित्सनीयतायां वाक्य. भेदापाताद् निवीतप्राचीनावीतयोर्मनुष्यपितृसंबद्ध तथा दैवकर्मानहतयोपवी. तस्य तदर्हता व्यतिरेकद्वारा स्तुवन्निवीतमर्थवादो यथा भवति, तथा प्रकृतेऽपि नामकीर्तनविषयकानुवादतोऽपि विधिकरूपना निष्प्रत्यूहेति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
प्रकाशसहिता
तथा
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोयतस्तद्विषया मतिः ॥ एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्। यदा नारायणेत्येतजगाद चतुरक्षरम् ॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यतेतितत्र तत्रैवकारश्रवणाद, एवं नामकीर्तनप्रायश्चित्तयोः पापक्षयेऽङ्गाङ्गिभावेन समुपक्ष मुपपाद्य दूषयति-अत्रेति । कर्मणा द्वादशाब्दादिना कर्मनिहोरोनेप्यते हि । नन्वेवं स्मृतिवचनविरोधः स्यादत आह-आत्यन्तिकइति । कृतेऽपि द्वादशाब्दे पापवासनासभावादात्यन्तिकपापनाशोनास्ति, अन्यथा पुनः पापाचरणं न स्यादिति भावः । तत्रैव हेतुरविद्वदधिकारित्त्वादिति। तत्त्वज्ञानाभावात्स्मार्तप्रायश्चित्तानुष्ठातणां पुनः पुनः पापाचरणमेव भवतीति नात्यन्तिकः पापनाशइति भावः । कितात्यन्तिकनाशे प्रायश्चित्तं तत्राह-प्रायश्चित्तमिति । विमर्शनब्रह्मविद्येत्यर्थः । कर्मात्मकेति । द्वादशाब्दादिरूपेत्यर्थः। के चि. दिति। "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धय"इति विरलत्वात् । नीहारं तमः। ब्रह्मविद्येति । यथा हि ब्रह्मविद्या सवासनं पापं क्षपयति; एवं कीर्तनादिलक्षणा भक्तिरिति भावः । सर्वेषामिति । महापातकानुपातकोपपातकप्रकीर्णकादिसकलपापाचरितणामित्यर्थः। सुनिकृतमिति । सुनिष्कृतमिदमेवेति योजना। द्वादशाब्दादि निष्कृतं.
-ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेदितियोगियाज्ञवल्क्यसूचितानि ब्राह्मणहत्याऽऽदीनि महापापानि, स्तेनस्तु ब्राह्मणस्वामिकसुवर्णचोरः "ब्राह्मणसुवर्णापहरणं महापातकमि"तिवच. नेनापस्तम्बीयेन संवादात् । अनुपातकानि पितृपितृव्यादिभार्थ्यागमनादीनि । उपपातकानि गोवधादिभायाविक्रयान्तानि योगियाज्ञवलायोक्तानि । महापातकातिपातकानुपातकोपपातकभिन्नं पातकं प्रकीर्णमुच्यते। अनादिशब्देनातिपातकग्राहमिति संक्षेपः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
३७
भवति न तु सुनिष्कृतं वासनाक्षयाभावादिति भावः । यतो नाम व्याहरणातद्विषया विष्णुविषया मतिस्तत्त्वज्ञानं भवतीत्यर्थः । यद्वा यतः कारणाद्विष्णोः स्वनामव्याहर्तृसर्वपातकिविषया मतिरभि. मानो भवतीत्यर्थः । श्रघोनः श्रघवत इत्यर्थः । अस्याजामिलस्येत्यर्थः । श्रवधारितत्वाच्छ्रवणादिति पञ्चम्यन्तयोः स्वः धानं पुरुषोत्तमकीर्त्तनमिति प्रतिज्ञयाऽन्वयः ।
एतावता लमघनिर्हरणाय पुंसां - सङ्कीर्त्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्रमघवान् यदजा मिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिमि
त्यनेनापि केवलस्य कीर्त्तनस्य कृत्स्लपापक्षयहेतुत्वमेव समर्थ्यते, यदि हि पर्याप्तवचनोऽयमलंशब्दस्तदा प्रथमाप्रयोगेण भवितव्यम्; अलं मल्लो मल्लायेतिवद्, इह तु तृतीया दृश्यतेऽतो निवारणवचनोऽयमलंशब्दइत्यलमतिप्रसङ्गनेतिवत् ; ततश्चायमर्थः, भगवतो गुणकर्मनाम्नां सङ्कीतनमिति यत्पुंसामघनिर्हरणायेत्येतावताऽलम् एतावनानुष्ठेयं पापक्षयमात्रस्यातितुच्छत्वाद् भगवत्कीर्त्तनस्यातिगरीयस्त्वादेतदेव विवृणोति - विक्रश्येति, रणमभ्यस्तमहापापोऽजामिलोऽपि पुत्रं विक्रश्य न हरिंकीर्त्तयित्वा तदपि न स्पष्टं म्रियमाणत्वेन शिथिलकरणस्वात् तथाऽपि दैवगत्या पुत्रनाम्न एव भगवन्नामत्वाद् मुक्तिं समस्तानर्थनिवृत्तिलक्षणां निरतिशयानन्दरूपाश्च प्राप्तो नानर्थैकदेशस्य पापस्य निवृत्तिमात्रं तत्रापि मुक्ति: किल बभूवेति नैतदैति यमात्रं किन्त्वयमधुनैव मुक्तिमुपयातीति साङ्गलिनिर्देशमभिधीयते धर्म्मराजेन, तत्समये तस्यार्थस्य वर्त्तमानत्वाद् उक्तलक्षणाया मुक्तेर बहिष्ट्रेमा -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
प्रकाशसहिता नन्यवेद्यत्वेऽपि भगवल्लोकप्राप्तिलक्षणाया अपि मुक्तस्तात्पर्य, तस्माद्विवक्षितार्थलाभः,
एतावताऽलमित्यस्यार्थमाह-अनेनापीति । केवलस्य साधना. न्तरनिरपेक्षस्य यस्य मुक्तिः फलं तस्य किमु वक्तव्यं कृत्स्नपापक्षय. हेतुत्वमिति कैमुतिकन्यायेन समर्थ्यत इति भावः । तदेवाह-यदीति । पर्याप्तावेतावानलमिति प्रयोगः स्यादित्यर्थः । एतावतेति तृतीयया निवारणवचनत्वेऽलंशब्दस्य साधनान्तरनिषेधः पर्यवस्यति । श्लोकस्योत्तराद्धं व्याचष्टे-एतदेवेति। उपैतीतिवर्तमानापदेशस्य तात्पर्य मवबुध्यैवोक्तं धर्मराजेन यमेन । ननु सर्वानर्थनिवृत्तिपरमानन्दरूपा मुक्तिरजामिलस्य कथं धर्मराजेनाज्ञातैवेहोक्तेति, अबहिष्नादृश्यत्वेन, भगवल्लोकप्राप्तिरूपा मुक्ति स्तु ज्ञायत एव सा च परममुक्तिस्वरूपैवेति परममक्तिमपैतीति विवक्षितार्थों लभ्यत-इति भावः ।
ततश्चापातालवनितले निमग्नमुपरिच स्वायंभुवभुवनमुल्लिखन्तं सर्वतो विसारिविविधशाखोपशाग्वं संसारमहामहीरहमेव समूलं गिलतो भगवन्नामग्रहणमहादावदहनस्य जननमरणमध्यवर्तिनः सर्वानेव क्षणेन शून्यतां नयन्तीभिरनन्तजन्मानुबन्धिनींभिरतिबहलाभिरप्यंहःस्थूलपटलीभिः कुक्षिकोटरकुहरप्रान्तोऽपि मनाङ् न पूर्यते तस्य कथं तद्रसने साधनान्तरसाकाङ्क्षत्वशङ्काऽवतारः, अपि च
न तथा ह्यघवानाजन् पूयेत तपत्रादिभिः ।। , यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥
-मोक्षः किलानादिदुःखपरम्पराऽत्यन्तोच्छेदो, नित्यसुखं चेति प्रथमद्विधा, शेषोऽपि नित्यसुखात्मता तदनुभवश्वेति, अनादिमः सायुज्याख्यः, चरमस्तु सालोक्यसाष्टिसारूप्यसामीप्यभेदाच्चतुर्विधः, सर्वमेतदवसरविशेषे सप्रमाणं निरूपयिष्यते । मुच्छ्धात्वर्थानुगुण्यतो दुःखात्यन्तनिवृत्तिरेव तत्स्वरूपं, शिष्टाः पञ्चविधास्तु तदौत्तरकालिक्योऽधिकारिविशेषभागिन्यो भवन्ति, दुःखात्यन्तनि. वृत्तिस्तु तन्मान्तरीयिकेति व चित्तदनुल्लेखोऽपि न न्यूनताऽऽवहः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
श्रीभगवनामकौमुदी।
३६ तस्य कृष्णस्य पुरुषाणां निषेवया, कृष्णे निवेशितेन्द्रियः कीर्तनादिपर इति,
न निष्कृतैरुदितैब्रह्मविद्भिस्तथा विशुद्धयत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतै
स्तदुत्तमश्लोकगुणोपलम्भकम्इति च कर्मभक्तिसाध्ययोः शुद्धयोसादृश्यमुपदिश्यते तदपि नाङ्गाङ्गिभावे संभवति, अङ्गप्रधानयोरेकफलत्वात्,
श्रीविष्णुपुराणेऽपि प्रायश्चित्तान्यशेषाणि तपाकात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परमि
ति कर्मात्मकेभ्यः सकाशात् कृष्णानुस्मरणस्योस्कृष्टत्वमभिधीयते तदपि प्रायश्चित्ताङ्गत्वे हरिस्मरणस्य न संजाघटीति, अङ्गिनः सकाशादङ्गस्योत्कृष्टत्वायोगात्,
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परमित्यत्रकशब्दोऽपि नैरपेक्ष्यमेव प्रतिपादयति, यो हि सजातीयस्मरणमपि द्वितीयं न सहते स कथं जात्यन्तरं. सहेत,
कैमतिकन्यायमुपसंहरति-ततश्चेति । भगवन्नामग्रहणरूपस्य महादावदहनस्य कुतिकोटरकुहरप्रान्तोऽप्यंहस्तूलपट लीभिर्न पूर्यत. इत्यन्वयः संसार एव महान्महीरुहो वृक्षस्तम्, एवकारःसाकल्यवाची, समूलं गिलतइति दहनविशेषणम्, पापातालमवनीतले निमग्नमिति उल्लिखन्तमिति विविधशाखोपशाखमिति च संसारवृक्षविशेषणं, जनन· मरणमध्यवर्तिन इति द्वितीयान्तम् , एकेति तणविशेषणं, शून्यतांव्यर्थतांकदाऽपि भगवन्नामग्रहणप्रभावान्नयन्तीभिःप्रापयन्तीभिरिति पटलीधि. शेषणं, कोटरंवृत्तस्यान्तरावकाशवान्प्रदेशः, कुतिरेव कोटरंतस्य कुहरं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
प्रकाशसहितां
I
छिद्रं, मनाग् श्रल्पः, तस्य नामग्रहणदावदहनस्य तद्ग्रसने अंहः पटली, दहने, ततश्च प्राधान्यमेव नामग्रहणस्येति भावः, तत्पुरुषनिषेवयेत्यस्य कृष्णार्पितप्राण इत्यत्रान्वयमाह - तस्येति । श्रर्पित प्राण इत्यस्यार्थमाहनिवेशितेन्द्रिय इति । तस्यैव प्रकार माह- कीर्तनेति । वागिन्द्रियं कीर्तन परं, श्रोत्रं श्रवणपरमित्यादि । ब्रम्हविद्भिरुदितैर्ब्रतादिभिरिति योजना | उदाहृतैः उच्चरितैः । हरिनामोच्चारणस्य फलान्तरमाह - तदिति । उत्तमः श्लोकः कीर्तिर्यस्य हरेस्तस्य गुणा ऐश्वर्यादयस्तेषामुपलम्भकंप्रापकमित्यर्थः । भक्तिः कीर्तनादिरूपा संबोभवीति संभवति । पुराणान्तरपर्यालोचनानामकीर्तनस्य प्राधान्यमाह - श्रीविष्णुपुराण इति । संघटीत घटते । जात्यन्तरं तपःकर्मादिरूपं प्रायश्चित्तम् ।
४०
श्रीनरसिंहपुराणेऽपि
इत्युदीरितमाकर्ण्य कृष्णवाक्यं यमेरितम् । नारकाः कृष्ण कृष्णेति श्रीनृसिंहेति चुकुशुरित्यारभ्य प्राप्तनरकाणामपि पापिनां कीर्त्तनमात्रादेव नरकार्णवादुत्तीर्णानां बैकुण्ठसङ्गम उपवर्ण्यते,
श्रीस्कन्दपुराणेऽपि हरहरहर शब्दमादितो वै मुहुरभिधाय मुनीन्दवृन्दवर्यः । अपठदखिलमेघघोषतुल्यं
सकलहिताय नमः शिवाय शब्दमित्यारभ्य; श्रवणमात्रादेव नरकान्निर्गत्य शिवपुरप्रासिरभिहिता,
श्रीविष्णुधम् तु स्पष्टमेव निरपेक्षसाधनत्वमुपवर्णितम्,
अथ पातकभीतस्त्वं सर्व्वभावेन भारत । विमुक्तान्यसमारम्भो नारायणपरो भवेति ॥ तथा तत्रैव
गोविन्देति समुच्चार्य पदं चपितकिल्विषः । चत्रबन्धुर्विशुद्धात्मा गोविन्दत्वमुपेयिवान
Shree Sudharmaswami Gyanbhandar-Umara, Surat
COLE
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। ति प्रायश्चितपराङमुखस्यापि क्षत्रबन्धोः कीर्तनमात्रादेव पापक्षयो दर्शितः, तस्मात्केवलमेव हरिकीर्तनंकृलपापक्षयहेतुः, नान्यसमुचितं नतरामन्याङ्गभूतमिति।
विष्णुनामकीर्तनस्य वैकुण्ठप्राप्तिफलकत्वादपि प्राधान्यमित्याहश्रीति । श्रीनृसिंहेति। शिवनामकीर्तनस्य कैलासप्राप्तिफलकत्वात्प्रा धान्यमाह-हरहरेति। सकलहिताय नमः शिवायेति शब्दमपदि. त्यन्वयः। अखिलमेघगोषतुल्यं यथा स्यात्तथेति । उच्चरित्यर्थः । विमुक्तति। त्यक्तप्रायश्चित्तान्तरारम्भ इत्यर्थः। श्रवणकीर्तनादिना नारायणपरो भवेत्यर्थः । गोविन्दसायुज्यप्राप्तिफलत्वाच नामवीर्तनस्य नाङ्गत्वमित्यभिप्रेत्याह-गोविन्देति । उपसंहरति-तस्मादिति। के चित् केवलया भत्तयेत्यादिवाक्यादित्यर्थः।।
ननु किमिदं कैवल्यं नाम ? किं साधनस्य स्वरूपमेव उत साधनान्तराभावः, उतान्यस्यासाधनत्वं, ? तत्र यदि खरूपं तर्हि समुच्चयेऽपि स्वरूपस्यानपापादविरोधः, अथ साधनान्तराभावः तदोभयविधानाद्वाक्यं भिद्यतेत्यवादिष्म, विष्टिविधाने तु सति साधनान्तरे कृतेऽपि कीतने पापक्षयो नाभविष्यत् साधनान्तराभावविशिष्टस्यैव साधनत्वाद, अथान्यस्यासाधनत्वं तदाऽपि वाक्यभेद एव, एकेन वाक्येनोभयविधानायोगादु. अथ विशिष्टविधानमिति चेत्तदाऽप्यन्यगतस्यासाधनत्वस्यान्यविशेषणत्वेन विधानायोगात् ।
कैवल्यमातिपति-नन्विति । नामकीर्तनस्वरूपं वा द्वादशाब्दाद्यभावो वा वादशाद्वादेरसाधनत्वं वेति विकल्पाः । उभयेति । पापतये नामकीर्तनविधानात्साधनान्तराभावविधानाञ्चेत्यर्थः । प्रवादिष्मेति । नरपेक्ष्यं हि साधनान्तराभाव इत्यादिपूर्वपक्षग्रन्थ इत्यर्थः । साधनान्तराभावविशिष्टं नामकीर्तनं पापक्षयसाधनमिति विशिष्टविधावाह-विशिष्टेति । कृतेऽपि साधनान्तरे नामकीर्तनात्पापक्षयो भवति स न स्यादित्यर्थः । कृते साधनान्तरे विशिष्ट्राभावादिति । नामकीर्तन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
४२
प्रकाशसहिता
स्य साधनत्वं द्वादशाब्ददेरसाधनत्वं च यदि विधीयते तदा वाक्यभेदइत्यर्थः । श्रन्यासाधनत्वविशिष्टसाधनत्वं विधीयतांतत्राह-अन्येति।
उच्यते-कारणस्य पौष्कल्यं कैवल्यं, तदेव च निरपेक्षं पौष्कल्यं कार्यपूर्वक्षणनियतिः; यां सामग्रीमाचक्षते तद्विदः, यदनन्तरं कार्यमवश्यमात्मानं लभते तत्पुकलं कारणमिति यावद्, तच्च न साधनान्तरसव्यपेक्षत्वेऽवकल्पते, तच्च क चिदेकस्य क चिद् द्वयोः क चिबहूनां तत्र यदा द्वयोबहूनां वा तदा खाश्रये व्यासज्य वर्त्तते पौष्कल्यं, यदा पुनेरकस्य तदा कात्स्न्येन ।
ननु समवाय्यसमवायिनिमित्तजन्यं सर्व कार्यमारम्भवादे, परिणामविवर्त्तयोः पुनरुपादाननिमित्तजन्यं, तत् कथमेकस्य पोष्कल्यम् ?
सिद्धान्तीकैवल्यं निर्वक्ति-कारणस्येति। पौष्कल्यमेव तावदाहयदनन्तरमिति । तच्चेति । पुष्कलत्वमित्यर्थः। अन्यापेक्षत्वे पुष्कल. त्वमेव न स्यादित्यर्थः । व चिदेकस्येति । यथा विभागस्य पूर्वदेशसंयोगनाशे। द्वयोरिति । दर्शसमुदायापूर्वपूर्णमाससमुदायापूर्वयोः परमापूर्वे यथा। बहूनामिति । घटे दण्डादीनाम् । तत्रापि विशेष. -माह-यदेति-कात्स्नेति । स्वाश्रये वर्तत इत्यनुषङ्गः। ततश्च नामकीर्तनमेकमेव पुष्कलकारणं पापक्षय इति भावः। एकस्य पुष्कलकारणत्वमाक्षिपति-- नन्विति। प्रारम्भो नामात्यन्तभित्रका-- त्पत्तिः, परिणामो नाम कार्यकारणयोः परमार्थतो भेदाभेदो, विवर्तोनाम कार्यस्य मिथ्यात्वम्। प्रारम्भवादो नैयायिकादीनां, परिणामवादो भास्करीयाणां, विवर्तवादो वेदान्तिनाम् । अतः कथमेकस्य तदुक्तं, केवलया भत्त्येत्यादिरूपमित्यर्थः। - उच्यते-निमित्तकारणविषयमेतत् पौष्कल्याभिधानं, नोपादानविषयं, फलोपादानस्यात्मनः प्रसिद्धत्वेन
--एतच्चान्धपरम्यरागतकुसंस्कारमूलकमेव प्रायो निरुपपदाभिधानं, वस्तुतस्तु वेदान्तिष्वद्वैतवादिनामित्येवोक्तिया॑यसी। . . . . .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। शास्त्रानपेक्षणाद्, उक्तं हि भाष्यकृद्भिः "ज नात्येवासी मयैतत् कर्तव्यमिति, उपायन्तु न वेद तस्योपायः कथनीय” इति । ननु निमित्तकारणस्यापि कथमेकस्य पौष्कल्यं? न हि निमित्तकारणमात्रात् किंचित् कार्य सिध्यति, तदयुक्तम् , आलोकसंयोगमात्रादन्धकारनिवृत्तईर्शनात्। ननुयदि पौष्कल्यमेव निरपेक्ष कथं तर्हि व्रीहियवयोः? उच्यते-तत्र कारणत्वस्यैव प्रत्येकं परिसमाप्तत्वात्। अन्योन्यनिरपेक्षत्वमेव न सर्वनैरपेक्ष्यमितिकर्तव्यतासाकाक्षत्वात् पौष्कल्यं तु स्वव्यतिरिक्तसर्वनरपेक्ष्यम् . अतश्च केवलया भत्त्येत्यमर्थः, मधुभिभिधानमेव मनागुद्दिश्यमानमशेषपापप्रध्वंसस्य पुष्कलं कारणंतरणिरिवगगनाङ्गनमवतीर्णस्तिमिरपटलपाटनस्य, तच्च पौष्कल्यं कारणत्वस्य विशेषणं न भक्तो, भक्तः कैवल्ये कारणत्वे च विधेये वाक्यभेदो मा प्रसातीदिति।
प्रसिद्धत्वेनेति। अहंप्रत्ययगम्यत्वेनेत्यर्थः । प्रात्मनः शास्त्रानपेक्ष. णं शबरस्वामिसंमत्याऽपि दर्शयति-उक्तं हीति। असौ पुरुष एतत्फलंमया कर्तव्यं साधनीयमिति जानात्येवेति योजना, एवकारातच्छानगम्यमिति भावः। नन्वित्यादिचोद्यपरिहारौ स्पष्टौ। कारणस्य पौष्कल्यं कैवल्यं तदेव च नरपेक्ष्यमिति पूर्वग्रन्थोक्तमाक्षिपति-ननु यदीति । कथं तहीति । नैरपेक्ष्यमित्यनुषङ्गः। व्रीहिभिर्यजेत यवैर्यजे. तेति तृतीयाभ्यां नैरपेक्ष्यं ब्रोहियवयोः प्रतीयते तन्न संभवति प्रोक्षणादीतिकर्तव्यतासापेक्षत्वादिति भावः। तत्र -- ब्रीहियवस्थले । अन्योन्येति । बीहीणां यवनिरपेक्षत्वं यवानां ब्रीहिनिरपेक्षत्वमित्यर्थः। उपसंहरति-अतश्चेति । मनाग = ईषत् । उल्लिख्यमानमुश्चार्यमाणमित्यर्थः । केवलया भत्तयेत्यादेविवक्षितं वाक्यार्थमाह-तश्चेति । विपक्ष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
प्रकाशसहिता
दण्डमाह-कैवल्य इति । भक्तः पापक्षयं प्रति कारणत्वे तस्याश्च कैवल्ये विधीयमाने वाक्यभेदः स्यादिति भावः ।
ननु भक्तरेव विशेषणं कैवल्यं केवलया भक्त्येति भक्तिसामानाधिकारण्याद् ? मैवं, कारणत्वविशेषणत्वेऽपि तत्सामानाधिकाण्योपपत्तेः, तन्तुभिरुपादानैः पटंकुविन्दः करोनीतिवत्, तत्र हि कारणं विशिंषदुपादानत्वं तद्वारेण तन्तूनपि विशिनष्टि तथेहापि; अन्यथा कैवल्यस्य भक्तिविशेषणत्वे वाजपेयोक्तो वैरूप्यदोषोऽपि प्रसज्येत, तत्र हि वाजपेयशब्दस्यान्नादिद्रव्यवचनत्वे करणभूतं द्रव्यं प्रति यजत्यर्थस्य प्राधान्यात् फलापूर्व प्रति च गुणभावात् प्रधानत्वगुणत्वोद्देश्यत्वविधेयत्वज्ञातत्वाज्ञातत्वानि परस्परविरुद्धान्येकस्यां प्रतीतावेकस्यैव प्रसज्येरनिति नामधेयत्वमेव तस्य समर्थितं तथेहापि केवलया भक्त्येति कैवल्यगुणयुक्ताया भक्तो फलसाधनत्वे विवक्षिते तस्याः कैवल्यं प्रति प्राधान्यात् फलं प्रति च गुणभावाद्विरुद्धत्रिकद्यापत्तिरनिवार्यैव; तस्मात्कारणविशेषणमेव पौष्कल्यम् ।
आक्षिपति-नन्विति । सामानाधिकरण्यादिति । समानविभत्त्यन्तत्वादित्यर्थः। तत्सामानाधिकरण्येति ।भक्तिसामानाधिकरण्येत्यर्थः। तत्र दृष्टान्तमाह-तन्तुभिरिति । उपादानस्य कारणत्वविशेषणन्वेऽपि तन्तुसामानाधिकरण्यं यथा तथेत्यर्थः । तत्रापि तन्तुविशेषणन्वंप्रतीयत इत्याशङ्कयाह-तत्र होति । विशिषव्यावर्तयत्। विशिनष्टि
-अयंभावः-विधेयभेदाद्वाक्यभेदो दुर्निवारो यतो विधेयभेदाद् विधिभेद भावश्यकः "सकृदुच्चरितः शब्दः सकृदेवार्थमवगमयति नासकृदि" तिन्यायेनैकः शब्द एकया वृत्या खलु सकृदर्थ बोधयेद्, असकृदर्थबुवोधयिषायामावृत्तिः कार्या सा च सति गत्यन्तरेऽप्रामाणिकीति प्रमाणप्रतिपन्नायामस्यां भवत्यपि क्वचिद्वाक्यभेदो नान्यथेति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
४५.
व्यावर्तयति । तथेहापोति। कैवल्यं कारणत्वं विशिषद्भक्ति विशिनष्टीत्यर्थः । कैवल्यस्य भक्तिविशेषण वे दोषान्तरमाह-अन्यथेति। वाज पेयोक्त इति । वाजपेयाधिकरणोक्त इत्यर्थः। तमेव प्रपञ्चयतितत्र हीति। वाजपेयेन स्वाराज्यकामो यजेतेति वाक्ये वाजपेयपदंविधेयगुणसमर्पकं प्रसिद्धम्। वाजशब्दार्थमाह-अन्नेति । पेयशब्दार्थमाह-आदीति । ततश्च सुराद्रव्यं लभ्यते । करणभूतमिति । वाजपदेनोक्तमित्यर्थः। फलापूर्वमिति गुरुमते । फलभावनामिति भट्टमते बोध्यम् । एकस्य यागस्य वाजपेयपदवाच्यद्रव्यं प्रति प्राधान्यम् फलभावनां फलापूर्ववाप्रति गुणत्वम्, एवमुद्देश्यत्वं विधेयत्वंचोद्देश्य. त्वासातत्वं विधेयत्वादशातत्वम् , एवमेतानि परस्परविरुद्धान्येकस्यां. प्रतीतो वाजपेयेन स्वाराज्यकामो यजेतेतिवाक्यजन्यायां प्रसज्येन्निति हेतोर्नामधेयत्वमेव तस्य वाजपेयशब्दस्य समर्थितं वाजपेयाधिकरणइति शेषः । तथेहापि विरुद्धत्रिकद्वयापत्तिरनिवार्यवेति योजना। प्राधान्यगुणत्वोद्देश्यत्वबिधेयत्वज्ञातवासातत्वानि विरुद्धत्रिकद्वयम् । तस्मादिति । अयं भावः केवलया भत्तयाऽप्यघं धुन्वन्तीति वाक्ये यद्यघक्षयं प्रति भक्तिः कारणत्वेन विधीयते भक्ति प्रति च कैवल्यं. विधीयते तदा विरुद्धत्रिकद्वयापत्तिः पूर्वोक्तो वाक्यभेदश्च । अथ कैवल्यविशिष्ा भक्तिः पापक्षये कारणत्वेन विधीयते सोमेन यजेते. ति सोमविशिष्टो याग इव फले, तन्न, तथा सति केवलशब्दस्य कैवल्यवाचित्वन भक्तिसामानाधिकरण्यानुपपत्तेर्मत्वर्थलक्षणा स्यात् कैवल्यवत्या भत्तयेति सोमवता यागेनेतिवत् तस्मादग्नये शुचय इत्या. दिवत्केवलया भत्त्येति सामाधिकरण्याद्विशिष्ट मेकं कारकं विधीयते, अतोऽक्षये भक्तिः पुष्कलं कारणमिति वाक्यार्थोऽग्निः शुचिर्देव. तेतिवत् ।
--... - ----- १ वाजपेयाधिकरणे विरुद्धत्रिकद्वयापत्तितो गुणविधिमुपेक्ष्य नामता स्वीकृता, प्रकृतेऽपि पापक्षयं प्रति भक्तः कारणत्वस्य विधाने भक्ति प्रति च कैवल्य. स्य विधाने साधनस्य साध्यसिद्धयङ्गतया शेषत्वरूपं गुणत्वं, कैवल्ये च साध्यत्वेन शेषित्वरूपं प्राधान्यं भक्तौ वाच्यं, तथा साध्यत्वेन विधेयत्वं, सिद्धत्वेनोद्देश्यत्वम्, एवमज्ञातत्वेनोपादेयत्वं, ज्ञातत्वेनानुवायत्वमिति निरुक्कदोषः प्रसज्येतेति
भावः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
प्रकाशहिता ___ननु तृतीयया साधकतमत्वमभिधीयते तमबर्थश्च सातिशयः स चापेक्षिकः, अपेक्षा च नासति साधकान्तरेऽवकल्पते केवलप्रातिपदिकेन च पौष्कल्यमभिधीयत इति परस्परव्याहतमेतत् , तदयुक्तम् , अतिशयोऽप्यत्र कार्यसन्निकर्षोऽभिप्रेतः स च नापेक्षिक एव; अपि त्वनापेक्षिकोऽपि,
तदाहुनर्तिककारमिश्राःयदेन्द्रियं प्रमाणं स्यात् तस्य चार्थेन संगतिः । मनसो वेन्द्रियैर्योग आत्मना सर्व एव वेति ॥
अत्र 'चात्मन इन्द्रियार्थपर्यन्तानामापेक्षिक साध कतमत्वं, सर्व एव वेत्यत्र त्वनापेक्षिकम् , अवधिभूतस्य साधनान्तरस्याभावात्, तत्राप्यापेक्षिकत्वे कथं चिद्विप्रकर्षस्यापि संभवाद् अनापेक्षिक एव मुख्यः सन्निकर्षःस एव चौत्सर्गिकस्तृतीयाऽर्थः, साधनान्तरेषुतु प्रमाणान्तरैरुपस्थापितेषु तबलादापेक्षिकोऽपि खीक्रियते, अत इह कार्यप्रत्यासन्नत्वमनापेक्षिकमेव मुक्तप्रग्रहया तृतीययाऽभिधीयते, ततश्च सिद्धमेव पौष्कल्यं स्पष्टार्थमनूद्यते केवलयेति न व्याघातः, न चैकहायन्यादिभिरन्वितः सोमक्रय इव भक्त्या कैवल्येन चान्वितमहोविधूननमेव प्रतीयते परस्परान्वयस्तु तयोः पार्मिक इति वक्तव्यम्, अघधूननस्य फलस्योद्दिश्यमानत्वेन विधेयत्वानुपपत्तेः, तस्मादस्मदुक्तव वाचोयुक्तिवरीयसी, तस्मान्निरपेक्षमेव भगवन्नामकीर्तनं पापक्षयहेतु न्याङ्गभूतं न चान्यसमुचितमिति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। शङ्कते-नन्विति। श्रापेक्षिक इति। साधकान्तरापेक्षयाऽतिशयितंसाधकंसाधकतममुच्यतेसाधकान्तराभावेकिमपेक्ष्य साधकतमंस्याद अतस्तृतीयाबलादापेक्षिकत्वं प्रतीयते केवलप्रातिपदिकेन च तदभावः प्रतीयत इति विरोध इति भावः । परिहरति-तदयुक्तमिति । अत्रेति तृतीयाऽर्थे निर्धारणे सप्तमी तृतीयाऽर्थमध्ये योऽतिशयः स कार्यसंनिकर्षोऽव्यवधानरूपोऽभिमत इत्यर्थः । कार्यसंनिकर्षरूपोऽतिशयः साधकान्तरमपेक्ष्यैव भवतीति न नियमः किन्तु तदनपेक्ष्यापि भवति। तदेतद्भट्टाचार्यसंमत्या दर्शयति-तदाहुरिति। प्रमाणं साधकतमं तच्चेन्द्रिय मिन्द्रियार्थसंयोगोवेन्द्रियमनःसंयोगोवाऽऽत्ममनःसंयोगोवा सर्वे वेति कारिकाऽर्थः।यदेन्द्रियसंन्निकर्षःप्रमाणं तदैकैकस्य सापेक्षत्वम्, एवंच तस्य तस्य प्रमासाधकतमत्वं तत्तत्साधकान्तरमपेक्ष्यैव भवति। सर्वेषां. प्रमाणत्वे सर्वेषां समुदितत्वात्साधकान्तराभावादनापेक्षिकं साधकत्वम् । अवधिभूतस्येति।अपेक्ष्यमाणस्येत्यर्थः। अत्र सर्वेषां प्रमाणत्वेऽपि समुदितानां प्रमाणत्वं न प्रत्येक परिसमाप्तं तथा सति प्रमाणभेदे प्रमा. भेदापत्तेः, ततश्च प्रत्येकं यानि प्रमासाधकानि तदपेक्षया समुदितानां साधकतमत्वमिति तदप्यापेक्षिकम्, एवंच नानापेक्षिकः कुत्राप्यतिशयः, अत एव तत्राप्यापेक्षिकत्व इत्यादिःप्रौढिवादस्तथाऽपि केवलया भत्तयेत्यत्र न विरोधः । भत्त्येति तृतीयया साधकतमत्वमुक्तं केवलशब्देन च पौष्कल्यमुक्तं, तच्च यदनन्तरं कार्यमवश्यमात्मानं लभते तत्त्वं, त. तश्च पापक्षये प्रतियोगितया साधकीभूतपापाद्यपेक्षया भक्तः साधकतमत्वेऽपि कथं चिद्विप्रकर्षस्यापि संभावितत्वात्तन्निवृत्त्यर्थ केवल. येति पदं ततश्च नायमनुवादः । तत्रापीति । तयोरापेक्षिकानापेक्षिकयोरपिमध्येऽनापेक्षिक एव मुख्यःसन्निकर्ष इत्यन्वयः। अत्र हेतुरापेक्षि. कत्वे कथंचिद्विप्रकर्षस्यापि संभावितत्वादित्यर्थः। श्रौत्सर्गिकइति । 'सर्वविषयत्वमुत्सर्गस्तत्सिद्ध इत्यर्थः। अपेक्षायां कारणमाह-साधना. न्तरेग्विति।यथेन्द्रियस्य प्रमाणत्वपक्ष। प्रकृत पाह-श्रत इहेति।प्रत्यासत्तौ । हेतुमाह-मुक्तेति।प्रग्रहः-प्रतिबन्धः । उपसंहरति अतश्चेति । नन्वरुणयैकहायन्या पिङ्गादया सोमं क्रोणातीत्यादावारुण्यादिविशिटक्रयविधानवत्केवलया भत्तयेत्यादिवाक्येऽपि कैवल्यविशिष्टयाभत्त्या ऽघधूननविधानमस्त्वित्याशङ्क्याह-न चेति । तयोर्भक्तिकैवल्ययोररुः ऐकहायन्योरिव. पार्मिक पृष्ठतः सिद्धः पश्चात्कृत इत्यर्थः । इति न च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
४८
प्रकाशसहिता
वक्तव्यमिति सम्बन्धः । तत्र हेतुरघविधूननस्येति । वाचोयुक्तिर्वा कप्रयोगः । परमप्रकृतमुपसंहरति — तस्मादिति । अन्यशब्देन मन्वाद्य्क्तप्रायश्चित्तम् ।
यत्तक्तं पुराणवचनैरेवाङ्गत्वमवगम्यत इति, तदयुक्त, प्रायश्चित्त नि चीणीनीत्यस्यायमर्थः - प्रायश्चितानि न निष्पुनन्ति न सम्यक् पुनन्तीति, सम्यक्त्वंचात्र वासनापरिक्षयः स च न कर्म्मसाध्यः तानि हि नारायणपराङ्मुखमधिकुर्वन्ति तस्य चकथं वासनाविध्वंसं विदध्युः, तस्य भक्तिज्ञानैकसाध्यत्वाद्, यस्तु नारायणप्रवणः स कर्म्मात्मकेषु प्रायश्चित्तेषु न प्रवर्त्तत - एव, एवं च पापक्षयं कुर्वतामेव प्रायश्चित्तानां तद्वासनाक्षयहेतुत्वं निवार्य्यते । न चैवं सति मन्वादि'वचनविरोधो न वा विशेषणानर्थक्यं, हेतुत्वेनोपयोगाद, इदमेव च स्पष्टीकृतं कर्मणा कर्मनिर्हार इति, न हि तस्य कर्मणा कर्मनिर्हारो नास्तीत्यर्थोऽपि तु नात्यन्तिक इति, आत्यन्तिकत्वं च सह वासनाभिः परिक्षय इति, अविद्वदधिकारत्वादिति हेतुत्वमेव प्रकटयति, अधिक्रियतेऽस्मिन् पुरुष इत्यधिकारः, अविदुपोऽधिकारोऽविद्वदधिकारस्तस्य भावस्तस्माद्, भगवत्पराङ्मुखविषयत्वात्प्रायश्चित्तानामित्यर्थः । विमर्शनमिति च ब्रह्मविद्या दृष्टान्तत्वेनानूद्यते न विधीयते, भक्तरेव प्राकरणिकत्वात्, तथा
क चिन्निवर्त्ततेऽभद्रात्क चिच्चरति तत्पुनः । प्रायश्चित्तमतोऽपार्थं मन्ये कुञ्जरशौववदिति सतीषु पापवामनासु पापप्रवृत्तेरवश्यंभावात् " प्रायश्चित्तमनर्थकमिति ब्रुवतेदमेवोपजीव्यते,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
श्रीभगवनामकौमुदी। पुराणवचनैः
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराभाण्डमिवापगाइत्यादिभिः। न निष्पुनन्ति निष्कर्षेण न पुनन्ति निष्कर्षश्च सजातीयारम्भकपापसंस्कारक्षय इत्यभिप्रायेणाह-न सम्यगिति । वाक्यार्थमाह-स चेति । नारायणपगङमुखमिति विशेषणस्य तात्पर्यमाह-तानि होति । तानि प्रायश्चित्तानि, तस्य नारायणपराङ्मु. खस्य, विदध्युः कुर्युः, तस्य वासनाध्वंसस्य । भक्त्या नामोचारणादिरूपया जन्यं यज्ज्ञानं तदेकसाध्यत्वाद् भत्येकसाध्यत्वादिति वक्तव्ये ज्ञानग्रहणम् भक्तो सत्यां ज्ञानस्यानुषङ्गिकत्वेनावश्यकत्वाद्, भत्तयेकसाध्यस्य वासनातयस्य,
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः ।
नाधर्मजं तहृदयं तदपीशाघिसेवयेत्यादिबहुवाक्यैरवगम्यते, कर्मात्मकप्रायश्चित्तेषु नारायणपराङ्: मुखाधिकारिकत्वे फलितमाह-- यस्त्विति।अनधिकारित्वादिति भावः। फलितं वाक्यार्थमाह-एवञ्चेति । पापक्षयं कुर्वताम् प्रायश्चित्तानामित्युक्त फलितमाह-न चैवमिति । वासनाक्षयहेतुत्वं निवार्यतइत्युक्तेः फलितमाह-नवेति। अन्यथा प्रायश्चित्तानि चीनीत्यादिवाक्ये नारायणपराङ्मुखमिति विशेषणमनमर्थकं स्यादिति भावः। हेतुत्वेनेति । कर्मात्मकप्रायश्चित्तानाम् पापवासनाक्षयहेतुत्व. निवारणे न निप्पुनन्तीत्यनेनोक्ते नारायणपराङ्मुखमिति विशेषणस्य हेतुत्वेनोपयोगादित्यर्थः । हेतुत्वेनोपयोगश्च तस्य च कथमित्यादिपूर्व ग्रन्थ उपपादितः । ननु किमिति मन्वादिवचनानामविशेषप्रवृत्तानानारायणपराङ्मुखाधिकारित्वेन संकोचः क्रियते, न च विशेषणानर्थक्यं, नारायणपराङ्मुखस्य वासनाक्षयं न कुर्वन्तीतरस्य तु तंकुर्वन्तीति तत्सार्थक्यादित्याशक्य;
कर्मणा कर्मनिहारो न यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनमित्येतद्वाक्यवशेन समाधते-इदमेव चेति । कर्मणा प्रायश्चित्तेन । कर्मनिहरिः पापध्वंसः। हेतुत्वमिति । पूर्ववाक्ये नारायणपरा. मुखमितिविशेषणसूचितमेवेत्यर्थः । प्रविधिकारित्वादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
प्रकाशसहिंता
स्यस्य विग्रहमाह-अधिक्रियत इति । अविद्वत्शब्दार्थमाह-भगवत्पराङ्मुखेति । प्रायश्चित्तं विमर्शनमित्यस्यार्थमाह-विमर्शनमिति। विद्येति प्रथमान्तम् । प्राकरणिकत्वादिति । प्रकरणप्रति. पाद्यत्वादित्यर्थः । ब्रम्हविद्या ह्यविद्यानिवृत्तिद्वारा सर्वसंसारनिवतिकेति दृष्टान्तत्वेनानूद्यते न विधीयते प्रकरणविरोधापत्तेरिति भावः । यद्वा नकारो मध्यमणिन्यायेनोभयत्र सम्बन्धनीयः ब्रम्हविद्या नानूद्यते न विधीयते भक्तरेव प्राकरणित्वात्सैव विमर्शन. शब्देनोच्यत इति भावः। कर्मात्मकप्रायश्चित्तस्य सजातीयारम्भकपाप. संस्कारनिवर्तकत्वाभावे संमत्यन्तरमाह-तथेति । अभद्रात्पापात् । वाक्यार्थमाह-सतीध्विति । अवता वाक्येन, इदमेव = प्रायश्चित्तस्य पापसंस्कारानिवर्तकत्वमेव,
तथा
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाघिसेवयेत्येतदपि संवादकं, यस्मिन् यस्मिन्निमित्तं यद्यत्मायश्चित्त विहितं तपोदानव्रतादि च तैः प्रायश्चित्तैस्तान्यघान्येव पूयन्ते नश्यन्ति; न पुनरधर्मजम् अधर्मेभ्योजातम्, अन्यैषुग्रहणाड्डः। ततश्च तत्तत्संस्कारविशिष्टतयोत्पन्नं हृदयम् , ईशाघिसेवया तु तदपि पूयते, अपिशब्दान्न केवलमघानि नश्यन्ति; अपि तु तत्संस्काराअपीति । ईशाघिसेवा चात्र न चतुर्थी पादसेवनलक्षणा भक्तिर्विवक्ष्यते; किंतर्हि कीर्तनलक्षणा तदधिकारत्वात्, तथा हि सेवा भजनं भक्तिरिति पर्यायाः, सा चात्र
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
प्रवेन वन्दनं दास्यं सख्यमात्मनिवेदनमि ति नवधा भिद्यते, सा च प्रत्येकं कृत्लपापक्ष्यहंतुः तत्तन्माहात्म्यप्रतिपादकवचनानां पुराणेषु भूयस्त्वाद्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
संस्कारवानसेवनस्य सेवा चा
भीमगवनामकौमुदी। इह तु कीर्तनस्यैव सेतिहासमाप्रकरणपरिसमाप्तः प्रतिपादनात् कीर्तनलक्षणोपादीयते।
भक्तः पापवासनानिवर्तकत्वे संमत्यन्तरमाह-तथेति । वाक्यार्थमाह-यस्मिन्निति । न चाधर्मजमित्यसाधुः प्रयोगः, सप्तम्यन्तउपपदे जनेर्धातोर्डप्रत्ययविधानाद्, यथा कुलजमिति, पञ्चम्यन्ते, तूपपदे जातिव्यतिरिक्तवाचिनि डप्रत्ययविधानाद् यथा तजमिति, अधर्मशब्दस्य जातिवाचित्वाड्डप्रत्ययानुपपत्तेस्तत्राह-अन्येग्विति । "अन्येष्वपि दृश्यते” ३२२१०॥ इति दृशिधातुग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्सर्वप्रयोजनकत्वात्केवलादपि सप्तम्यन्तोपपदाभावेऽजातिवाचिपञ्चम्यन्तोपपदाभावेऽपि जनेर्डप्रत्ययः। अधर्मज. त्वं हृदयस्य कथं ? पूर्वनिप्पन्नत्वात्तत्राह-ततश्चेति । तद् हृदयंसंस्कारविशिष्टतयोत्पन्नं,-श्लोकस्य चतुर्थचरणं व्याचष्टे-ईशेति । नन्वीशाङ्घिसेवनस्य पापसंस्कारनिवर्तकत्वेऽपि किमायातं कीर्तनस्य तत्राह-ईशाघ्रिसेवा चेति । अत्र = श्लोके । चतुर्थी वक्ष्यमाणश्लोके । तदेवाह-तथा हीति। इह स्विति । तैस्तान्ययानि पूयन्तइत्यादिश्लोके। सेतिहासमिति । अजामिलोपाख्यान इत्यर्थः । ___ अथ वा सर्वप्रकाराऽपि भक्तिरत्र प्रकरणिनी केवलया भत्तयेत्यविशेषेण प्रक्रमात् कीर्तनवदन्येषामपि शृङ्गमाहिकया पापक्षयहेतुत्वप्रतिपादनाच, तत्र
सकृन्मनः कृष्णपदारविन्दयो. निवेशितं तद्गणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान्
स्वमेऽपि पश्यन्ति हि चीर्णनिष्कृताइति स्मरणस्य; तदपीशाघिसेवयेति पादसेवनस्य; यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवयेत्यात्मनिवेदनस्य भगवजनसेवायाश्च; तस्या अपि मुख्यभगवद्भक्तित्वात सर्वपुराणेषु पुनः पुनरत्यादरेण मद्भक्तजनवात्सल्यमित्यादिभिावधीयमानत्वात् ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
प्रकाशसहिता
जिह्वा न वक्ति भगवद्गणनामधेयंचेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि
तानानयामसतोऽकृतविष्णुकृत्यान् ॥ इति तु यमवाक्यं नवविधाया अपि, तथा हि यदिति व्यस्तमव्ययम् , अन्यथा यच्छिर इति समासे जिह्वाचेतःशब्दाभ्यां सम्बध्यमानस्य यच्छब्दस्यादःसापेक्षत्वेनासामर्थ्यप्रसङ्गाद, विष्णुकृत्यमिति च कीर्तनस्मरणवन्दनेभ्योऽवशिष्टं श्रवणादिषट्कं गृह्यने गोबलीवईन्यायेन, न कृतं विष्णुकृत्यं यैस्तेऽकृतविष्णुकृत्यास्तानानयध्वमिति नवविधभक्तिहीनानामानयनप्रतिपादनेनैकैकभक्तियुक्तानामनानयनं प्रतीयते, एकाङ्गवैकल्येन प्रत्युदाहरणनियमात् , तत्रापि “वैवखतं संगमनं जनानामि". तिश्रुत्याऽऽनयनस्योत्सर्गतःप्राप्तत्वाद्, भक्तानामनानयनमेव विधीयते,अप्राप्तत्वात् ,ततश्च नवविधाया भक्तरैकैकश्येन कृत्लपापक्षयहेतुत्वमिति भावः। श्रवणादीनातु माहात्म्यं खस्वप्रकरणे विशेषतोऽवगन्तव्यम् । प्रसङ्गागतं चैतत्, प्रस्तुतं पुनरधर्मवासनानिवृत्तिहेतुत्वं भक्तरेव न कर्मणामिति ।
मुख्यं पक्षमाह-अथ वेति । सर्वप्रकारा नवविधेत्यर्थः । अन्येषा. मिति। श्रवणादीनामित्यर्थः । शृङ्गग्राहिकयेति । यथा गोविशेषः शृङ्गे गृहीत्वा प्रदर्श्यते; एवं श्रवणादीनां प्रत्येकं पापक्षयहेतुत्वंप्रतिपाद्यत इत्यर्थः । तदेवाह-तत्रेति । श्रवणादिषु मध्ये। तद्गुणेति । कृष्णगुणानुरागि मन इत्यर्थः । चीर्णेति । चीणं कृतं निष्कृतं प्रायश्चित्तं कृष्णचरणारविन्दस्मरणरूपं यैस्त इत्यर्थः । स्मरणस्येति । पापतयहेतुत्वप्रतिपादनादित्यनुषङ्गः । एवं पादसेवनस्यात्मनिवेदन स्य भगवजसेवायाश्च नवविधाया अपीत्येषु पदेवयमेवानुषतः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________
श्रीभगवनामकौमुदी।
५३
कृष्णार्पितप्राण इत्यात्मनिवेदनोक्तिः । तत्पुरुषनिषेवयेति भगवजनसे. वोक्तिः भगवद्भक्तिप्रस्तावे किमर्थ भगवजनसेवोदाहियते ? तबाहतस्या अपीति। तत्र हेतुमाह-सर्वेति।मद्भक्तजनवात्सल्यं-नवविधायाअपि भक्तरित्यर्थः, पापतयहेतुत्वप्रतिपादनादिन्यनुषङ्गः पूर्वमेवोक्तः । कथमत्र नवविधायाभक्तेः पापक्षयहेतुत्वं प्रतीयते? तबाह-तथा हीति। व्यस्तं पृथक् पदं येषामित्यर्थे, अदःसापेक्षत्वेनेत्यर्थः, जिह्वाऽऽदिसापेक्षत्वेनेत्यर्थः, असामर्थ्यप्रसङ्गादिति । निरपेक्षत्वं हि सामर्थ्य, समर्थश्च पदविधिः, अतः समासो न स्यादित्यर्थः। गोबलीवर्दन्यायेनेति । यथा. गोपदं बलीवदंपदसहोचरितं तदितरपरं तथा विष्णुकृत्यपदं कीर्तनादिसहोचरितं तदितरपरमित्यर्थः। पदार्थमुक्का वाक्यार्थमाह-इतिन . वविधेति एकाङ्गवैकल्येनेति । एकमङ्गविशेषणंतस्य वैकल्यमभावस्तेन। प्रतिकूलमुदाहरणम् प्रत्युदाहरणं, यथाऽरुणयैकहायन्या क्रीणातीत्यु. वाहते शुक्लयैकहायन्याऽप्यनेकहायन्याऽरुणयाऽपिन क्रीणातीति गम्य. ते; एवं नवविधभक्तिहीनानामानयनप्रतिपादनेनैकभक्तिमतामनानयनं. प्रतीयते । एवं भक्तानामनानयनस्यार्थिकत्वमुक्त्वा संप्रति तस्यैव विधेयत्वमाह-तत्रापीति। अनानयनस्यार्थिकत्वेऽपीत्यर्थः। वैवस्वतं. यमम् । सङ्गमनम् नेतारम् । फलितमाह-ततश्चेति। उपपत्त्यन्तरमाहश्रवणादीनामिति । पुराणेष्विति भावः । प्रसङ्गेति। एतत् श्रवणादीनाम् पापक्षयहेतुत्वम् प्रसागतमित्यर्थः। यस्य प्रसङ्गागतं तन्निर्दिशतिप्रस्तुतमिति । नामकीर्तनस्य प्रायश्चित्ताङ्गत्वशङ्कानिरासाय प्रायश्चि. त्तानि चीर्णानीत्यादि वाक्यार्थत्वेन प्रस्तुमित्यर्थः।
ननु कोऽयमधर्मो नाम यद्वासनानां निवृत्तये न प्रभवन्ति कर्माणि ? किं हननादि कम्मैव, किं वा तजन्यः संस्कारः, किं वाऽन्यः, न तावत् कर्म तस्य स्वयमेव निवृत्तत्वात् तादयेन प्रायश्चित्तविधानानुपपत्त:, अथ संस्कारः न तज्जन्यामन्यां वासनामङ्गीकुर्मः
-सामध्यं चात्रैका भावरूपं प्रायं, "संमष्टार्थ समर्थमि"ति महा. भात्ये भगवत्पतञ्जल्युक्तेः, निरूप्यनिरूपकभावापनविषयताप्रयोजकोपस्थितिजनकत्वात्मकं पय्यवस्थति, तथा चात्र यच्छब्दस्य समस्तत्वे तदर्थस्यान्यत्रान्वयोsसंभवी स्याद् वृत्तवाद्, वृत्तस्य विशेषणयोगासंभवादित्यर्थः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
प्रकाशसहिता
संस्कारस्य संस्कारान्तरायोगादनवस्थाप्रसङ्गाद्, न वाऽन्यः
प्रमाणाभावाद,
૧૪
यदाहुर्वार्तिककारमिश्राः
तस्मात्फलप्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तौ वाऽपि पश्वादेरपूर्व न ततः पृथगि-ति, शक्तिमात्रमिति च यागादिजन्यः संस्कार एवोच्यते, शक्तिमन्तमन्तरेण मुख्यशक्तेरवस्थानायोगाद्, उत्पत्तौ वाऽपि पश्वादेः शक्तिमात्रत्वमित्यपि फलस्य पूर्वावस्था, यथोक्तं निबन्धकृद्भिः "फलस्य बाबुराव - स्थे" ति । सा च यागादिजन्यः संस्कार एव, धम्र्मवदेवाधर्मः, तथा चाधर्म्मवासनाक्षयो नाम न कश्चिद, इदमपेशलम् जात्यन्तरमेव धर्माधम्र्मोन संस्कारजातीयौ. अभियुक्तैर्भेदेनानुक्रान्तत्वात्, तत्र च क्रियाज्ञानयोरेव संस्कार इति तार्किकाः । वयन्तु सर्वेषामेव संस्कारव्यतिरिक्तानां विनश्यतां मोऽस्तीति ब्रूमः विनश्यत्वेनैवानुमातुं शक्यत्वात्,
9
श्रीविष्णुपुराणे चैतदेव स्पष्टीकृतंहिंसाऽहिंसे मृदुकर धर्माधर्म्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचतइति तैर्हिसाऽऽदिभिर्भाविता वासितस्तान्येव प्रतिपद्यन्ते, न चात्र धर्माधर्म्मशब्दाभ्यां विहितप्रतिषिद्धयोः क्रिययोरुपादानं तयोः पृथगेव हिंसाऽऽदिशब्दैरुपात्तत्वात् । यद्यपि मुख्यवृत्त्याऽग्निहोत्र हनन क्रिययोरेव । र्थानर्थहेतुत्वेन धर्माधर्म शब्दवाच्यत्वं तथाऽपि यदद्वारेण तयोरर्थानर्थ हैतुत्वं तदेवापूर्व प्रायेण धर्माधर्म्मशब्दाभ्यां शास्त्रेषु व्यवहियते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
श्रीभगवनामकौमुदी।
५५
- भक्तरधर्मवासनानिवृत्तिहेतुत्वमाक्षिपति-नन्विति । वार्तिक कारमिश्राः = भट्टाचार्याः। पूर्वार्द्धन यागादेहत्तरावस्थाऽपूर्वमुत्तराईन पभ्वादिफलस्य पूर्वावस्थाऽपूर्वमुच्यते। तत इति । शक्तरित्यर्थः । ननु शक्तिमात्रकमित्यन्यपक्ष एव दृश्यते तत्राह-शक्तिमात्रमिति । मुख्यशक्तिरेव शक्तिशब्दवाच्या, संस्कारस्तु लाक्षणिकः किमर्थं परि. परिगृह्यते तत्राह-शक्तिमन्तमिति । यागमित्यर्थः । उत्तरार्द्धस्य तात्पर्यमाह-उत्पत्ताविति । पूर्वावस्थापदार्थमाह-सा चेति । नन्वेतद्धर्मे सिद्धं किं तावता प्रकृतेऽत पाह-धर्मवदिति । उपसंहरतितथा चेति । ततश्च नासौ भक्तिसाध्य इति भावः । दूषयति-इदमिति । अभियुक्तैरक्षपादप्रभृतिभिः । ननु तथाऽपि कथमधर्मसंस्कारः क्रियामानयोरेव संस्कारजनकत्वात्तत्राह-तत्र चेति । विनश्यत्त्वेनेति । विमतं, संस्कारजनकं, संस्कारभिन्नत्वे सति विनश्यत्वाक्रियाशा. नवदिति । तत्रैव स्मृति प्रमाणयति श्रीविष्णुपुराण इति । श्लोकं व्या. चष्टे-तैरिति । वासिताः संस्कृतास्तान्येवेति हिंसाऽहिंसे मृदुकरे धर्माधर्मावृतावृते इत्यर्थः । ऋतम् सत्यम् । अतश्च न क्रियाज्ञानयोरेव संस्कारजनकत्वं,हिंसाऽऽदीनामपि संस्कारजनकत्वानानात्। जात्यन्तरभूतधर्माधर्मयोरपि संस्कारजनकत्वमेतद्वचनेनैव सिद्धयतीत्याहन चेति । ननु धर्माधर्मशब्दयोहामहिंसाऽऽदिक्रियास्वपि प्रयोगो दृश्यतेऽताह-यद्यपीति ।
वार्तिककाराणामपि स्वर्गयागयोरन्तराले किश्चिदतीन्द्रियं तयोरेव साध्यसाधनसंबन्धनिर्वाहक वस्तु भतार्थापत्तिप्रमेयमपूर्वन्नाम न परपरिकल्पितं कार्यनियोगापरपर्यायशब्दैकसमधिगम्यं किश्चिदिति मनीषितंन पुनः संस्कार एव । मण्डनमिश्ररप्ययमेवार्थोऽङ्गीकृतः प्रारब्धक्रिययैव जीवन्मुक्तिं समर्थयदिः । अथ वाऽग्रिहोबहननादिक्रियाणां विहितप्रतिषिद्धत्वनिबन्धनः स्वर्गनरकहेतुरेकः संस्कारः श्रुतार्थापत्तिप्रमेयः तासामेवान्योऽपि सजातीयोत्पत्तिहेतुः क्रियानिबन्धनोऽनुमेयः, यथा योगिशैववैष्णवशिवलिङ्गशालिग्रामादिदर्शनस्थ पुरुषार्थ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
प्रकाशसहिता हेतुरतिशयः शास्त्रसमधिगम्यः कश्चिदस्ति, पाषण्डिचा. ण्डालादिदर्शनस्य पुनरनर्थहेतुः, तयोरेवानुभवनिमित्तः स्मृतिहेतुरन्योऽपि । अस्मिंश्च विभागे ।
नैकान्तिकं तद्धि कृतेऽपि निष्कृत मनः पुनर्धावति चेदसत्पथे। तत्कर्मनिहारमभीप्सतो हरे
गुणानुवादः खलु सत्त्वभावनइत्येवंजातीयकं वचनजातं प्रमाणं, तथा हि न तावत्सजातीयोत्पादकः संस्कारो नास्त्येवेति वक्तं शक्यते
यः सकृत्पातकं कुर्यात् कुर्यादेनस्ततोऽपरमित्यादि
श्रुतेः,
तेषां ये यानि कर्माणि प्राक् मृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनरि
स्यादिस्मृतेश्च,खगनरकसृष्टाविव पुण्यपापसृष्टावप्यविषमस्य कृपालोः परमेश्वरस्य प्राचीनपुण्यपापसापेक्षत्वाच परमसिद्धान्तेऽप्यनपाकृत्यैव सापेक्षत्वं मृष्टेर्मायामयत्वेन वैषम्यदोषसमाधानाच।।
कथं तर्हि वार्तिककारैः संस्काररूपत्वमुक्तं धर्मस्य तत्राहवार्तिकेति । वार्तिककाराणामपीति । मनीषितमित्यन्वयः। वार्तिकस्थं शक्तिपदं व्याचष्टे-किंचिदतीन्द्रियमिति । क्षणभङ्गुरस्य यागादेः कालान्तरभाविफलजनकत्वानुपपत्तिः श्रुतार्थापत्तिः । परेति । परै. परिकल्पितं स्वीकृतमित्यर्थः। शद्वो लिङादिः। न पुनः संस्कार. एव, अपूर्वमित्यनुषङ्गः शास्त्रकाराणां प्रायेण जात्यन्तरपत्र धर्माधर्मशसप्रयोगादिति भावः । ननु मण्डनमिश्रादिभिर्वेदान्तविद्भिः संस्कारमादाय जीवन्मुक्तिसमर्थनं क्रियते, सर्वसंस्कारो धर्माधर्मशब्दवाच्य. पव, अन्यथा तस्य सुखदुःखभोगानुपपत्तेस्तत्राह-मण्डनेति । अयमेव जोत्यन्तरमती धर्माधर्मा इत्ययमेवेत्यर्थः । संस्कारशब्देन चाहानले.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। .
शोक्तिरिति भावः । प्रारब्धक्रिययेति । धर्माधर्मरूपेण प्रारब्धेनेत्यर्थः । प्रकारान्तरमाह-अथवेति।श्रुतार्थापत्तित्तिरिति।क्षणभङ्गुराया:क्रिया याःकालान्तरभाविफलसाधनत्वानुपपत्तिगम्य इत्यर्थः । अनुमेय इति । विमता यागादिक्रिया सजातीयोत्पादकसंस्कारहेतुः क्रियात्वाद्वेष्टनादि. कियावदिति । एकस्याः क्रियाया विविध संस्काररूपातिशयजनकत्वमुक्तं तत्र दृष्टान्तमाह-यथेति।योगिनश्च शैवाश्च वैग्णवाश्च शिवलिङ्गं च शालग्रामादश्च तेषां दर्शनस्येत्यर्थः। पुरुपार्थधर्महेतुरतिशयो धर्मा. ख्यः । चण्डालादोत्यादिशब्देन चैत्यादि । अनर्थहेतुः पापाख्यः । तयारेवेति । योग्यादिपाषण्डादिदर्शनयोरित्यर्थः । अतः परमेश्वरभनेनिषिद्धक्रियाजन्यस्य नरकहेतोः संस्कारस्य निवर्तकत्वमित्युपसं. हारो द्रष्टव्यः । तत्रैव प्रमाणन्तरमाह-अस्मिश्चेति । तद्धि निष्कृतंनैकान्तिकं न सर्वात्मना पापनिवर्तकं, तत्र हेतुः कृतेऽपि निष्कृतेऽसत्पथे मनः पुनर्धावति, चेच्छब्दो यत इत्यस्यार्थे, तत्तस्मात्कर्मणो निर्हारः, आत्यन्तिको नाशस्तमभीप्सत इच्छतः पुंसो हरेर्गुणानुवाद ऐका. न्तिक इत्यनुषङ्गः। यतः सत्त्वभावनः सत्त्वशोधक इति श्लोकार्थः । सजातीयोत्पादकसंस्कारंप्रमाणतःसाधयति-तथा हीति । तेषांसृज्यमानानां मध्ये सृष्ट्यां जन्मनि ये सृज्यमानाः तान्येव कर्माणि प्रतिपद्यन्ते संस्कारवशादिति भावः। तत्रैव युक्तिमाह-स्वर्गेति । ईश्वरोहि कं चित्पुण्ये प्रवर्त्तयति कं चित्पातके तत्र पूर्वसंस्कारमपेक्षते, अन्यथा वैषम्यमेव स्याद्, न च तत्संभवति परमकृपालुत्वादितिभावः। परमसिद्धान्त इति । 'वेदान्तिसिद्धान्त इत्यर्थः । सृष्टर्मायामयत्वेऽपीश्वरस्य वैषम्यं प्रसज्यते प्रतिपुरुष सुखदुःखवैचित्र्यजननात्तच वैषम्यं प्राचीनसंस्कारादिसापेक्षत्वमवलम्ब्यैव समाहितमिति भावः ।
यदि परं खर्गनरकहेतुरेव सजातीयोत्पादकोऽपीति वक्तव्यं तथा च सति
___१-अयमभिप्रायः-सृज्यमानशरीरिकर्मसापेक्षतया भगवतो न वैषग्यादिदोषः, एतदेव “वैषम्यनैपुण्ये न सापेक्षत्वात्तथा हि दर्शयति" ॥२॥३४॥इत्युतरमीमांसासूत्रेण सिद्धान्तितम्, "पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने" ति भगवती श्रुतिः, ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमि" ति भगवद्वाक्यंचैनमर्थमुपोद्वलयत।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________
પૂર
प्रकाशसहिता
विद्यातपः प्राणनिरोधमैत्री - तीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्तइत्यादिना वेदाभ्यासजपोपासनादिखाध्यायैः शुद्धरनान्यन्तिकत्वाभिधानं नावकल्पेत; निरंशस्य संस्कारस्य सान्वयविनाशायोगात्, तस्मात्स्वर्गनरकहेतुः सजातीयोंत्पत्तिहेतुश्चेति संस्कारद्वयं कर्मणामवश्यमभ्युपगन्तव्यंततश्च नरकहेतुः संस्कारः प्रायश्चित्तैन्निवर्त्यते न सजातीयोत्पादकः, भक्त्या पुनरुभयविधोऽपीति भक्तरेवात्यन्तिकशुद्धिहेतुत्वं न कर्म्मणामिति, अतश्च प्रायश्चित्तानि चीनीत्येतदप्यनात्यन्तिकतया कर्मात्मकानि प्रायश्चितानि विनिन्द्य प्रकरणिनीमत्यन्तपावनीं भगवद्भक्तिमेव प्रशंसति । यत्पुनः सर्व्वकर्मसाद्गुण्यार्थत्वमिति, तदविरुद्धं दध्यादिवदुभयार्थत्वोपपत्तेः, यथा दक्षा जुहोति दनेन्द्रियकामस्य जुहोतीत्यादिशास्त्रात् क्रत्वर्थत्वंपुरुषार्थत्वं च दध्यादिखरूपस्य; तथेहापि, “वासुदेवे मनोयस्ये" ति तु गुणफलाधिकारः, फलश्रवणाद् । न च पर्णमयीत्वादिवत् फलश्रुतेरर्थवादत्वं, स्मरणस्य भावार्थत्वेन स्वतः फलसाधनतोपपत्तेः पर्णतावैषम्यात्, तस्मादन्याङ्गत्वे प्रमाणाभावात् खातन्त्र्येण च सर्व्वपुराणानां गतिसामान्यात् स्वप्रधानमेव भगवत्कीर्त्तनं कृत्लपापक्षयहेतुरिति स्थितम् ।
श्रीरामेति जनार्द्दनेति जगतां नाथेति नारायणेत्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #78
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। ५६ श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुमुंह्यन्तं गलदश्रुनेत्रमवशं मां नाथ नित्यं कुरु ॥ इति श्रीमदनन्तानन्दरघुनाथपादपद्मोपजीविनोलक्ष्मीधरस्य कृतौ श्रीभगवन्नामकौमुद्यां नामकीर्तनस्य पुरुषार्थत्वप्रतिपादनं नाम द्वितीयः परिच्छेदः ।
नरकहेतुसंस्कार एव सजातीयोत्पादकोऽस्तु किमिति संस्कारद्ध. यमित्याशङ्कय समाधत्ते-तथा सतीति। विद्या देवतान्तरोपासना तपः कृच्छादि, प्राणनिरोधः प्राणायामः, तीर्थाभिषेकस्तीर्थ स्नानम् , अना. त्यन्तिकत्वाभिधानं हि सजातोयोत्पादकसंस्कारसत्त्वादिति भावः। एक एव संस्कारः सांशोऽस्तु तत्र प्रायश्चित्तेनैकांशो नश्यत्वंशान्तर तु सजातीयारम्भकमस्तु तत्राह-निरंशस्येति । उपसंहरति-तस्मादिति । परमप्रकृत मुपसंहरति-श्रत इति । ननु मन्त्रतस्तन्त्रतश्छिद्रमित्यादिवाक्यैरङ्गत्वं नामकीर्तनस्येत्युक्तं तत्राह-यत्पुनरिति।वासुदेवे मनो यस्येत्यादि तु न कर्माङ्गत्वं बोधयतीत्याह-वासुदेव इति । अधि: कारः सम्बन्धः फलश्रवणादिति । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिक. फलमिति । ततश्च जपहोमार्चनादिषु वासुदेवस्मरणम् महाफलहेतुरित्यभिप्रायः। नन्वङ्ग फलश्रुतिरर्थवाद इत्याशङ्कय पूर्वोक्तं स्मारयतिन चेति । भावार्थत्वेन धात्वर्थत्वेन । द्वितीयपरिच्छेदार्थमुपसंहरतितस्मादिति । गतिसामान्यात्समानार्थत्वात् । नाम्नि कृतनिश्चयो ग्रन्थ. कृत्परमेश्वरभक्तिम् प्रार्थयते-श्रीरामेति ।
इति श्रीमदापदेवसूनुनाऽनन्तदेवेन विरचिते भगवन्नामकौमुदीप्रकाशे
द्वितीयः परिच्छेदः समाप्तः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
श्रीभगवत्रामकौमुदी |
s
तृतीयः परिच्छेदः । श्रीकृष्णाय नमः ।
यस्य नामान्यधीयानैः शुकैरपि शुकायितम् । विनेयैर्बल्लवस्त्रीणां स कृष्णः कुरुतात् कृपाम् ॥
प्रकाशस्य
तृतीयः परिच्छेदः ।
॥ श्रीकृष्णाय नमः ॥
1
उत्तरविचारार्थं मङ्गलमाचरति - यस्येति । गोपीनां शिष्यैः शुकैः पक्षिभिः यस्य नामान्युच्चारयद्भिः शुकयोगोन्द्रवदाचरितंस कृष्णः कृपां करोत्वित्यर्थः ।
एवं भक्तिकर्मणोः संभूय साधनत्वे निरस्ते पुनरिदं विचार्यते - किमनयोर्व्यवस्था विकल्पो वेति ? तत्राधिकारिभेदेन व्यवस्थायामधिकारिविशेषणस्य किंचित्करत्वात् श्रद्धाऽऽदिसहकृतस्यैव कीर्त्तनस्य पावनत्वंफलिष्यति, विकल्पे तु तन्निरपेक्षस्यैव, तत्र गुरुलघुनोर्विकल्पे गुरुणो ह्यत्यन्तबाधप्रसङ्गाद् व्यवस्थैव साधीयसी ।
"
निरूपणीयं प्रतिजानीते - एवमिति । कर्म द्वादशाब्दादि । संभूयेति । श्रङ्गप्रधानभावेन समप्राधान्येन वा समुच्चित्येत्यर्थः । व्यवस्था, श्रधिकारिविशेषस्य नामकीर्तनं तद्विलक्षणस्याधिकारिणो द्वादशाद्वादीति । विकल्पस्तु येन केनाप्यधिकारिणा नामकीर्तनं द्वादशाब्दादि वा कार्यमिति । कस्मिन्सति किं स्यात्तत्राह - तत्रेति । किंचित्कफलोपयोगित्वादित्यर्थः । श्रादिशब्देन शुचित्वादि । पूर्वप
क्षमाह -तत्रेति । द्वादशाब्दादि गुरुभूतं, नामकीर्तनं लघुभूतं, तत्र लघु नैव पापक्षये गुरुभूतं न केनाप्यनुष्ठीयेत ततो व्यवस्थैव युक्तेत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
ननु नामकीर्त्तनविषयं शास्त्रं न द्वादशवार्षिकादेः साधनत्वमपलपति तत्कथं बाधः ? उच्यते - अननुष्ठानमेवात्र बाधितत्वं, न विषयापहारः । यथोक्तं भद्वै: "एतेन प्रवृत्तिश्च फलं प्रमाणानां प्रवृत्त्याख्यफलापहारश्च बाघ" - इति । तत्र यदा समशिष्टयोर्द्वयोरपि नोपलभ्यते विशेषः तदा निरङ्क शत्वादिच्छायाः कस्य चित्कदा चित्कस्मिंश्चिस्प्रवृत्तिरिति द्वयोरपि पाक्षिकमनुष्ठानं; यदा पुनरुपलभ्यते विशेषः सुकरदुष्करत्वभेदेन तदा सुकरानुरागिणीमिच्छां न कश्चिदपि कदा चिदप्यपाक्रष्टुमीष्ट इति दुष्करस्यात्यन्तबाध एव तस्माद् व्यवस्थैव वरीयसी ।
श्राशयानभिज्ञः शङ्कते - नन्विति । श्राशयमाविष्करोति — उच्यतइति । उबेकाचार्यसंमतिमाह - यथोक्तमिति । प्रवृत्तिरनुष्ठानम् । अननुष्ठानाख्यं बाधं विवृणोति तत्रेति । विशेषमेवाह - सुकरत्वदुष्करत्वभेदेनेति । सुकरानुरागिणीं सुकरे कर्मणि स्वारस्येन प्रवर्तमानाम् । श्राक्रष्टुं = दुष्करे कर्मणि प्रवर्त्तयितुम् । ईष्टे समर्थः । इतिशब्दो देतौ ।
तत्र केचिन्नितान्तमनुरक्ताः स्मृतिषु पुराणोभ्यश्च मनाग्विभ्यतो महदल्पपापभेदेन वा ज्ञाताज्ञातकृतभेदेन वा प्रकाशरहस्यभेदेन वा स्मार्त्त पौराणञ्च प्रायश्चिसंव्यवस्थापनीयमिति वदन्ति, ततश्चाल्पाज्ञानादिकृतविषयैः पौराणमित्युक्तं भवति । तन्न साधीयः
स्मात्तैर्विकल्प्यते
पापे गुरूणि गुरुणि खल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परमिति गुरुलघु सर्व्वपापानामविशेषेण कृष्णानुस्मरणस्य मुख्यप्रायश्चित्तत्वाभिधानाद ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
६१
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
६२
प्रकाशसहिता
केषां चिद् व्यवस्थामाह-तत्रेति । स्मृतिषु नितान्तमतिशयेनानुरक्ता अभिनिविष्टा इत्यन्वयः । मनाग = अल्पम् । अनेनानुवादसमय एवावरसः सूच्यते, श्रुतिमूलत्वेन स्मृतिपुराणयोर्विशेषाभावादिति । महत्सु वा ज्ञानकृतेषु वा प्रकाशकृतेषु वा पापेषु स्मार्तं प्रायश्चित्तम् , इतरेषु पौराणमिति व्यवस्था, कर्तृव्यतिरिक्तनाज्ञातं रहस्यम् तस्मिन्नेव मते परं विशेषमाह-ततश्चेति । अल्पेऽज्ञानकृते रहस्यकृते च पातके स्मातं प्रायश्चित्तमस्त्येव किंतु तस्य नामकीर्तनेन विकल्प इति भावः । तदेतद्दषयति-तन्नेति । गुरुणि पापे गुरूणि प्रायश्चित्तानि, अल्पे. ऽल्पानि, स्वायंभुवो मनुस्तदादयो जगुः । तेषामिति निर्धारणे षष्टी । तेषामशेषाणां गुरुलघुप्रायश्चित्तानां मध्य इत्यर्थः । परशब्दार्थमाहमुख्यति ।
ननु को नाम न ब्रूते कृष्णानुस्मरणं महापातकादिप्रकीर्णान्तसाघसंहरणमिति, सा हि ब्रह्मविद्या, तथा हि कृषति विलिखति विदारयति संसाराटवीमिति वा कर्षति आकर्षति आत्मसात्करोति वाऽज्ञानमिति वा कृष्णः परमात्मा सदानन्दरूपो वा
कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत
इति च स्मृतेः, तस्य चायमर्थः, भवनं भूःसत्ता तदाचको भूवाचको न तु पृथिवीवाचक इति; निवृतिवचनेनणकारेणानन्वयात्, पृथिवीवर्तिनों जीवानामानन्दोयस्मादिति विग्रहे लक्षणाप्रसङ्गाद्, प्रास्थावरमाचतुराननंच सर्वेषां जीवानामानन्दयितरि स्वसमयपरिपच्यमाननानापुण्योपसादितविविधविषयसन्निधिसंमृज्यमानम-- नोमुकुरमण्डलान्तरभिव्यज्यमानतया तत्तदानन्दतयोपधीयमाने परमात्मनि पृथिवीगतानन्दत्वस्य तद्हेतुत्वस्य चाविवक्षितत्वाद्, विरक्षितत्वेवा "ये वाऽमुष्मात्पराञ्चोलोकास्तेषां चेष्टे देवकामानां चे"त्यादिशास्त्रविरोधात्,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
तस्मान्निरवद्यस्य सर्वेषामात्मभूतस्य सदानन्दस्यानुस्मरणं पुनः पुनश्चिन्तनं सजातीयप्रत्ययावृत्तिलक्षणं विजातीयप्रत्ययनिरोधलक्षणं वा निदिध्यासनमिहोपादीयते तस्य चात्मसतत्त्वसाक्षात्कार कारणभूतं श्रवणं प्रति फलोपकार्य्यङ्गभूतस्यासम्भावनानिरासवत् तत्प्रतिबन्धकपातकप्रध्वंसोऽपि द्वारकार्य भवत्येव,
६३
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणइति स्मरणात्, कीर्त्तनस्य महापातकादिनिवर्त्तकत्वे नेदं प्रमाणम् ।
नात्र नामकीर्तनस्य मुख्यप्रायश्चित्तत्वमभिधीयत इति शङ्कते - नन्विति | कृष्णानुस्मरणस्य ब्रह्मविद्यात्वं साधयति - तथा हीति । विलिखतेरर्थमाह - विदारयतीति । श्राकर्षतेरर्थमाह- श्रात्मसादिति । ज्ञानमिति छेदः । विलापयतीत्यर्थः । परमात्मा निर्गुणं ब्रह्मेत्यर्थः । अर्थान्तरमाह – सदानन्द इति । निर्वृतिरानन्दः । नन्वेवं सद्रूपत्वेनानन्दरूपत्वेन द्वैतापत्तिस्तत्राह तयोरैक्यमिति । सदानन्दयोरित्यर्थः । ऐक्यस्य धर्मान्तरत्वं वारयति - परं ब्रह्मेति । ननु भूवाचकस्य कथंसद्वाचकत्वमतश्राह - तस्य चेति । अनन्वयादनन्वयप्रसङ्गात् । ननु किमित्यनन्वयः कृषिवाच्यभुवो णवाच्य श्रानन्दो यस्मादिति विग्रहादतश्राह - पृथिवीवर्त्तिनामिति । पृथिव्या नानन्दो जडत्वात्तद्गतजीवलक्षगायां च स एव दोषः । भूवाचकेन तद्वर्त्तिजीवलक्षणा, जीवानामिति षष्ठ्यर्थं लक्षणा चेत्यभिप्रायेण लक्षणाद्वयप्रसङ्गादिति कचित्क चिस्पाठः । दोषान्तरमाह - स्थावरमिति । स्वसमये परिपच्यमानानि फलोन्मुखानि नानापुण्यानि तैरुपसादिता विविधा विषयास्तेषां सन्निधिरव्यवधानं तेन संसृज्यमानं मन एव मुकुरमण्डलमादर्शमण्डलं तदन्तरभिव्यज्यमानतयेत्यर्थः । तत्तदानन्द तयेति । स्रगानन्दश्चन्दनानन्दइत्यादिरूपेणेत्यर्थः । उपधीयमाने = उपाधितः प्रतीयमाने । श्रविषक्षितत्वात्तात्पर्याविषयत्वाद् । विपक्षे दोषमाह - विवक्षितत्वे वेति । श्रमुष्मादादित्यमण्डलादू देवकामा देवानन्दाः, अतश्च सर्वजनानन्द प्रदे परमात्मनि पृथिवीगतजीवानन्द प्रदत्वविवक्षा न युक्तिमतीति भावः ।
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________
६४
प्रकाशसहिता
उपसंहरति-तस्मादिति । कथं निदिध्यासनस्य पापक्षयहेतुत्वं ज्ञान. करणत्वादित्याशक्य, नेदं ज्ञानकरणं किं तु श्रवणं, तदङ्ग निदिध्यासनं, तस्य च द्वारं पापक्षय इत्याह-तस्य चेति । श्रवणस्याङ्गत्वं निदि. ध्यासनस्य फलोपकार्यङ्गत्वं चास्माभिः सिद्धान्ततत्त्वे प्रपञ्चितम् । असंभावनेति । यथा श्रवणमननयोः प्रमाणप्रमेयासंभावनानिरासोद्वारं तथेत्यर्थः । तत्प्रतिबन्धकेति । तच्छद्वेन साक्षात्कारो निर्दिश्यते । परमप्रकृतमुपसंहरति-कीर्तनस्येति । नेदमिति । पापे गुरूणि गुरुणीत्यादिवचनद्वयं न प्रमाणमित्यर्थः ।
इदमसुन्दरम्, कृष्णशब्दस्य तमालश्यामलत्विषि यशोदास्तनन्धये ब्रह्मणि रूढत्वाद्, रूढियोगमपहरतीति न्यायात्। यौगिकत्वे वा दुर्वारमदनमहाग्रहगृहीततया समुल्लवितसकलसेतूनांगोकुलकामिनीना, मतिविषमरोषावेशविवशविशृङ्खलसकलकरणवृत्तीनां पूतनाप्रभृतीनामरातीना, मत्यन्तपराचीनचेतसां यमुनावनपशुपक्षिसरीसृपाणा,मतिबहलमोहपटलीपिनद्धसर्वेन्द्रियाणांवृन्दावनतरुगुल्मलतावीरुधामपि मुक्तिसुखमनिवारितं वितरतो नित्यनिरस्तनीहारतया निरन्तरखमहिमसमुल्लसदनन्तानन्दस्य गोपालशिरोमणेः सर्वप्रकारोऽपि योगोऽस्यैवेति तस्यैवेह ग्रहणं न निर्गुणस्य ब्रह्मणः प्रयोगप्राचुर्यात् तत्रैव प्रथमतरप्रतीतेरुदयात्,
दूषयति-कृष्णशब्दस्येति । कृषिभूवाचकइत्यादिशास्त्रसिद्धोयोगः कथं त्यज्यत इत्याशय, तेनापि श्रीकृष्ण एवोच्यत इत्याहयौगिकत्वइति । सेतंवो धर्ममर्यादाः। विशृङ्खला उच्छङ्खलाः। करणवृत्तय इन्द्रियवृत्तयः, पराचीनं विषयाभिभुखम् । सरीसृपाःसादयः। पिनद्धानि = आच्छादितानि । वितरतो ददतः । नीहारमशानम् । अनन्तोऽपरिच्छिन्नः। सर्वप्रकार इति । कृषतिविलखतीत्यादिपूर्वग्रन्थोक्तयोगाभिप्रायेण । उभयत्र योगाविशेषे कथं तस्यैव ग्रहणंतत्राहप्रयोगेति। प्राचुर्याद्वाहुल्यात्, यथा गोशब्दस्य दशस्वर्थेषु सढत्वाविशे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
६५
घेऽपिप्रयोगबाहुल्यात्सास्नादिमपिण्डप्रतीतिःप्रथमं जायतेतथेत्यर्थः। तत्रैव = श्रीगोपाल एव, विषयसप्तमी ।
तस्य चानुस्मरणं कीतनमेव न ध्यानं वाक्यशेषे कीर्तनस्यैव प्रशंसनात्
क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबीजमनुत्तममिति, न चान्यविधीयतेऽन्यत्प्रशस्यत इति सङ्गच्छते, अपि च प्रतीचीनमात्मवस्तु न कदा चिदपि स्मरणाङ्गनमवतरति, प्रतीचीनत्वस्यैव व्याघाताद्, अतस्तस्य नाम्ना रूपेण वातदुभयनिरासेन बोपाधिना तद्विषयत्वं वक्तव्यंतत्र नामोपाधिकं स्मरणमिह गृह्यते तच्च कीर्तनमेव, स्मरणशब्देन च कीत्त नमुपादानस्य मानसमपि भगवन्नाम्नोऽनुसन्धानं सर्वाघसंहारि न केवलं वाचिकमिति विवक्षितं, पुराणान्तरेच समानप्रकरणे नानाविधनरकयातनाकन्दकुद्दालस्य कीर्तनस्यैव वर्णितत्वाद्, इहाप्यस्मिन् प्रकरणे सङ्कीर्तनमेवोपादीयते न ध्यान: तस्य च गुरुलघुभेदानादरेण सर्वाघसंहारहेतुत्वेनावधारितत्वान्न महदल्पपापभेदेन व्यवस्थापन गरीयः, अत एव न ज्ञानाज्ञानप्रकाशरहस्यभेदावपि व्यवस्थापकौ, स्वरूपेण वा गरिमलघिमानौ स्यातां निमित्तान्तरेण वा; गरिमलघिमानावेव तौ कस्तत्र विशेषः, गुरुलघुनोश्चांहसोरविशेषेण निवर्तकं भगवत्कीर्तनमित्यभ्यधायि, तत्कथं तद्भेदेन व्यवस्थेति ?
ननु तथाऽपि कथं नामकीर्तनस्य प्रायश्चित्तत्वाभिधानं तबाहतस्य चेति। वाक्यशेषे = उत्तरश्लोके। नाकपृष्ठं स्वर्गः। अनुत्तमं न विद्यत उत्तमंयस्मात्। प्रतीचीनं प्रत्यग्रूपम् । स्मरणेति । स्मृतिविषयीभवती-:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
a, Surat
www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________
प्रकाशसहिता
त्यर्थः । कथं तर्हि तत्र तत्र स्मरणविषयत्वोपन्यासः पुराणादौ तबाहअत इति । नाम्ना कृष्णरामेत्यादिना, रूपेण मेघश्यामत्वादिना वा. तदुभयनिरासरूपेण वोपाधिना स्मरणविषयत्वं वक्तव्यमित्यर्थः । इहेति । कृष्णानुस्मरणं परमित्यादिवाक्य इत्यर्थः। यदि कीर्तनमत्राभिप्रेतं किमिति स्मरणशब्दप्रयोगस्तत्राह-स्मरणेति । युक्त्यन्तरमाह-पुराणान्तरे चेति । तथाऽपि नामकीर्तनं पौराणमल्पाज्ञानकृतरहस्यपापनिवर्त्तकं भविष्यति तत्राह-तस्य चेति । अवधारितत्वा. दिति । पुराणस्वारस्येनेति शेषः। महति पातके स्मात्तं प्रायश्चित्तम्, अल्पे नामकोर्तनमिति व्यवस्था नोचितेति भावः । स्वरूपेणेति । ब्रह्म हत्याऽऽदिषु स्वरूपेण गरिमा। अनृतवदनादिषु स्वरूपेण लघिमा । निमित्तान्तरेण वा स्यातामित्यनुषङ्गः। लघुनोऽपि पातकस्याभ्यासा. दिनिमत्तान्तरवशेन गरिमा। गुरुणो रहस्यत्वादिनिमित्तवशेन लघिमा। ताविति । स्वरूपनिमित्तान्तरकृतावित्यर्थः। गरिमलघिमानावेवेति विधेयः कस्तत्रेति । उभयकृते गरिमलघिमस्वरूपे न कोऽपि विशेषइत्यर्थः। फलितमाह-गुरुलधुनोरिति। अंहसोः पापयोः । तद्भेदेन = गुरुलघुत्वादिभेदेन ।
यस्मिन्यस्तमतिर्न याति नरकं स्वर्गोऽपि यचिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राम्होऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदधं प्रयाति विलयं तत्राच्युते कीर्तित___ इत्यनेनापि व्यवस्थान प्रतीयते, कथम् ? अल्पपापनिवर्तकत्वे कीर्तनस्य न चित्रवुद्धिः, किन्तु नितान्तमहीयसामप्यंहसां कीर्तनमात्रान्निवृत्तिरित्युच्यमाने कस्य चिदनवगतभगवन्नाममहिम्नः पुंसश्चित्रवुद्धिरुत्पद्यतेसा निवर्त्यते कैमुत्यन्यायेन, तथा हि यस्मिन्यस्तमति,र्यचिन्तने, यत्र निवेशितात्ममनसः, चेतसि यःस्थित इति च स्मरणमेव शब्दभेदेन प्रतिवाक्यमलंकारार्थमावय॑ते
विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्गमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। इतिवत् । उत्तरोत्तरभूमिकागतस्तु विशेषो विद्यमानोऽपि न विवक्ष्यते कैमुत्यानुपयोगाद्, नरकशब्देन तुनाधर्मफलस्य ग्रहणं, तन्निवृत्तः कैमुत्येन सिषाधयिषितत्वात्, ततश्चायमर्थः-यस्मिन्नच्युते निविष्टबुद्धिनरकं नराणांकं सुखं मानुषमानन्दं सार्वभौमत्वादिकम् अन्तरायत्वेनापि न प्राप्नोत्येव यदि कथं चिदसावमरपुरीपारमैश्चयंमधिगच्छति तर्हि स विघ्नः, द्विपरार्द्धस्थायी हैरण्यगर्भोऽपि लोकोऽल्पकः, मुरमथनचरणस्मरणस्यातिविसदृशं फलं, सार्वभौमसेवाया इव खोदरम्भरित्वं, किंतर्हि ? तेषां स्मरर्ता पुंसां मुक्तिं सकार्याविद्याविध्वंसद्वारेण निरतिशयानन्दे निजमहिमन्यवस्थानमेव ददाति भगवान् , अमलधियो हि ते न हि तेषां समलधियामिवान्येषां देशकालावच्छिन्नं फलमुचितम् इदमेवामलत्वंधियो यदुत पुरुषोत्तमपादपल्लवप्रवणत्वं, विषयद्वारेणैव हि समलत्वममलत्वं च धियः, ततश्च येषां धी वनत्रितयान्तरे वर्तमानं यं कं चिदमरमन्यमवलम्बते तेषामुचितान्येव साम्राज्यादीनि, येषां पुनर्भुवनत्रितयोत्तीर्णभक्तानुगृहीतभूत्तिमुत्तमश्लोकशिखामणिमवलम्बते तेषान्तु विविधपरिच्छेदविरहिणी मुक्तिरेवोचिता न तु परिच्छिन्नान्यन्यानि फलानीति । - अव्यवस्थायां प्रमाणान्तरमाह-यस्मिन्निति । नात्राव्यवस्था प्रतोयत इत्याशङ्कते-कथमिति । समाधत्ते-अल्पेति । अत्र हि विचित्रवुद्धिः कैमुत्यन्यायेन परिह्रियते, सा च प्रसक्ता परिहर्तव्या, प्रसङ्गश्च चित्रबुद्धर्महापापनिवर्तकत्वे नामकीर्तनस्योच्यमाने भवति; नाल्पपापनिवर्तकत्वे,तस्मादव्यवस्थैव युक्तति भावः। कस्य चिदिति। भगवदनुग्रहादवगतभगवन्नाममाहात्म्यानां महापुरुषाणां तु न तत्र चित्रबुद्धिरिति भावः। कैमुत्यन्यायं विवरिष्यन्नक्षरशः श्लोकार्थमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________
६८
प्रकाशसहिता
I
I
तथा हीति । तत्र पौनरुक्तयं परिहरति — यस्मिन्निति । उत्तरोत्तरेति । नरकशद्ववाच्य सार्वभौमानन्द स्वर्गं ब्रह्मलोक मुक्तीनामुत्तरोत्तरमस्त्युत्कर्षः परं तु न विवक्ष्यत इत्यर्थः । कैमुत्यानुपयोगादिति । अस्मिन्वाक्ये - ऽच्युतकीर्तनस्य महापापक्षयहेतुत्वे कैमुत्यन्यायः प्रदर्श्यते तत्रैषामुत्तरोत्तरोत्कर्षो नोपयुज्यत इत्यर्थः । नरकशब्दस्य सार्वभौमानन्दपरत्वं दर्शयति--नरकेति । तन्निवृत्तेर्नरक निवृत्तेरित्यर्थः । न प्राप्नोत्येवेति । तितुच्छत्वादिति भावः । स्वर्गोऽपि यच्चिन्तने विघ्न इत्यस्य तात्पर्यमाह - यदीति । यत्र निवेशितेत्यादेस्तात्पर्यमाह - द्विपरार्द्धेति । मुक्तिं चेतसीत्यादेस्तात्पर्यमाह - किं तर्हीत्यादि । श्रमलधियामिति हेतुगर्भं विशेषणमित्याह - श्रमलेति । तदुपपादयति- न हीति । धियोऽमलत्वं च विषयकृतमित्याह - इदमेवेति । फलितमाह — ततः श्चेति । भुवनत्रितयादुत्तीर्णा भक्ता निष्कामत्वादित्यर्थः । तेष्वनुग्रहाय गृहीता मूर्तिर्येन स तथा । उत्तमेति । पुण्यकीर्तिचूडामणिमित्यर्थः । त्रिविधेति । देशतः परिच्छेदो मूर्तत्वं, कालतः परिच्छेदो विनाशित्वंवस्तुतः परिच्छेदो भेदः, तद्विरहिणीत्यर्थः ।
I
इह दातृदानसंप्रदानभावस्योपचारिकत्वाद् न षष्ठीपर्य्यनुयोगः, मुक्तिमपि न कतिपयानां वितीर्य्य विरमति मुरभिदितरदानिवद्, अपि तु येषां मनसि स्थितः तेषां - सर्वेषामेवेति बहुव्रीहौ सिद्धस्य सर्व्वनाम्नो विवक्षा, अपि च अन्येषां दाहृणां यद्यर्थिनो मनसि स्थिताः तर्हि तेभ्योऽर्थं वितरन्ति, अयं पुनरर्थिनामेव मनसि स्थितोमुक्तिं ददाति, अन्यच्चान्ये दातारो वनीयकेभ्यो धनंविभज्य वितरन्तो वियन्तिः अयं पुनरव्ययः प्रतिवनीयकं सर्व्वस्वं वितरन्नपि न व्येति य एवं मनोमात्रेणाप्यभिमुखानां सर्व्वाननर्थानपनयति निरतिशयं चार्थ - मुपनयति तस्मिन्वहिरन्तःकरणद्वयीं वाङ्मनसलक्षणांप्रणिधानानामनर्थैकदेशपरिहारमात्रं किं चित्रं ? नैव चित्रमिति । ततश्च ज्ञानकृतप्रकोशमहापातकपरिहारो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #88
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। ऽपि मनसः क्षतिमेवावहति न पुनः पूर्ति, तत्कथं तत्रापि सङ्कोचेन व्यवस्थाऽऽशङ्कति । एवं च
अवशेनापि यन्नाग्नि कीर्त्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहजस्तैमूंगैरिवे
त्येतदप्यनुसृतं भवति, वर्णितव्यवस्थायांतुप्रकीर्णकविषयत्वे पातकशब्दो बाध्येत, अतिपातकादिविषयत्वे सर्वशब्दः, न च पातकशब्दस्येव सर्वशब्दस्यापि विशेषान्तरे पर्यवसानं, प्रयोगवैफल्यात् पातकशब्देनैव तत्सिद्धः, अस्मत्पक्षे तु पातकशब्देनैव सर्वपातकग्रहणेऽपि न्यायाभासपरिकल्पितव्यवस्थाबाधेन सफल: सर्वशब्दः, तस्मान्नव व्यवस्था ।
ननु ददातियोगे चतुर्थी स्यान्न षष्ठी तत्राह-इहेति । औपचारिकत्वादिति। त्रिविधपरिच्छेदशून्याया मुख्यददात्यर्थयोगाभावान्न चतुर्थीप्रसङ्ग इति भावः। अमला धीर्येषामिति बहुव्रीहावन्तर्गतस्य सर्वनाम्नस्तात्पर्यमाह-क्तिमिति । मुरभिन्मुरारिः । इतरदानिवदिति वैधय॑दृष्टान्तः। पुंसां चेतसि स्थित इत्यस्य तात्पर्यमाह-अपि चेति । अर्थिनामिति संपातायातं यतो निष्कामानामपि मनसि स्थितो. मुक्तिं ददाति। अव्ययपदतात्पर्यमाह-अन्यच्चेति।वनीयका याचकाः। किं चित्रमित्यादेस्तात्पर्यमाह-य एवमिति। सर्वाननानिति । अवि. द्या हंकारादोनित्यर्थः । अपनयति = निवर्तयति । निरतिशयं चार्थः परमानन्दरूपं स्वात्मानम् उपनयति प्रापयति । तस्मिन्परमात्मनि, बहिःकरणं वाग् , अन्तःकरणं मनः, एतद्द्वयीम्, प्रणिदधानानामेकागोकुर्वताम् । कीर्तने हि वाङ्मनसप्रणिधानं, “यन्मनसा ध्यायति तद्वाचा वदती"ति श्रुतेः। अनर्थैकदेशेति । यदधं प्रयाति विलयमित्युक्तमित्यर्थः। परमप्रकृतमपसंहरति-ततश्चेति । परिहारो नाशः। मनसः क्षतिमिति । कीर्तने वाङमनससाध्ये मनोमात्रसाध्यमुक्तिफलापेक्षया फलाधिक्यमुचितं, न तु पापप्रविलयमात्रफलकत्वेन तद्हासइति भावः। अल्पाज्ञानकृतोपपातकादिनिरासहेतुभूतं नामकीर्तनमिति व्यवस्था दुरापास्तेत्याह-तत्कथमिति । वर्णितव्यवस्थाया बाधका.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________
७०
प्रकाशसहिता
न्तरमाह-एवं चेति । महापातकाद्यपपातकान्तपातकव्यतिरिक्तं पापंप्रकीर्णकं, महापातकसममतिपातकम् । आदिपदेनोपपातकम्। ननु प्रकीर्णकविषयत्वेऽपि नामकीर्तनस्य न पातकशब्दो बाध्यते तस्य पापमात्र प्रयोगदर्शनात्तत्राह-न चेति । वैकल्याद्वैयर्थ्यादित्यर्थः । ननु त्वत्पतेऽपि सर्वपदवैयर्थ्यमविशेषेणाशेषपापविषयत्वात्पातकश. ब्दस्य तत्राह-अस्मदिति ।
श्रीभागवते तु शृङ्गग्राहिकयैव महापातकान्यनुक्रम्य सङ्कीत नेनैव तन्निवृत्तिरभिहिता
स्तेनः सुरापो मित्रचक ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरिति ॥
न च तदज्ञानकृतविषयं रहस्यविषयं वेति वक्तव्यं, बुद्धिपूर्वमखिलजगत्प्रख्यातं पातकं कृतवतोऽजामिलस्यापि नामकीर्तनादेव तन्निवृत्तेवर्णनाद्, न च तदप्युपपातकादिविषयमिति वक्तव्यं, तस्मिन्महापातकानामप्यनुक्रान्तत्वाद् ____ यतस्ततोऽप्युपानिन्ये न्यायतोऽन्यायतो धनमित्यादिना।
तत्रैव युक्त्यन्तरमाह-श्रीभागवत इति । न चेति । सर्वेषामिति धृत्या वुद्धिपूर्वकारिणामपि संगृहीतत्वादिति भावः। उपक्रमविरोधश्चेत्याह-बुद्धिपूर्वमिति । अन्यायतो धनमिति सुवर्णस्तेयसंग्रहः ।
श्रीविष्णुधर्मे च बुद्धिपूर्वप्रकाशमहापातकिनः क्षत्रबन्धोरपि नामकीर्तनमात्रात् परमपूतत्वप्रतिपादनाद् नेयं व्यवस्था न्यायविदां हृदयमधिरोहति, तस्मादन्यथा व्यवस्थाप्यते तद्यथा यस्य पुराणेषु मातृवचनेष्विव न कदा चिदिमान्यपथ्यमतथ्यं वाऽभिद्धतिः अपि तु षथ्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। मेव तथ्यमेवेति दृढतरश्रद्धाऽनुबद्धा, भगवति च भक्तजनमनःसरोजिनीजीवितेश्वरेनमदमरमण्डलमौलिमालाशलाकालिखितनिजविजयवर्णनावर्णश्रेणीसनाथपादपीठे पुरभिदि मुरभिदि वा भक्तिभरगरिमगर्भिणी स्तम्भस्वदरोमोद्गमादिसात्त्विकभावसहचरी चित्तवृत्तिः साऽपि नगतानुगतिकत्वेन;अपितुतदीयमहिममहार्णवावगाहनेन, तस्य पौराणानां श्रवणकीर्तनादीनामन्यतमं गुरुलघुविशेषानादरेण सर्वेषामेव निरशमंहसां परमंप्रक्षालनम् , इतरस्य पुनः प्रतिपदोक्तं स्मार्त्तमिति।
प्रतिपादनादिति । गोविन्देति समुच्चार्य पदं क्षपितकल्मषः । क्षत्रबन्धुर्विनष्टात्मा गोविन्दत्वमुपेयिवानि
त्यादिवाक्यैरिति भावः । मतान्तरमाशङ्कते-तस्मादिति । यस्य पुरुषस्य । पुराणेष्वितिपदस्य श्रद्धापदेन सम्बन्धः। भगवतोत्यस्य चित्तवृत्तिरित्यनेन सम्बन्धः। नमताममराणाम् , मण्डलं लमूहस्तस्य मौलिषु मकुटेषु माणिक्यानि तेषां शलाका लेखन्यस्ताभिलिखिता ये निजस्य भगवतो विजयवर्णनासम्वन्धिनो वर्णास्तेषां श्रेणी तया सनाथं युक्तं पादसम्बन्धि पोठं यस्येति भगवद्विशेषणम् । भक्तभरो भारस्तस्य गरिमा तेनगर्भिणोति चित्तवृत्तेर्विशेषणम् । स्तम्भो नि
ापारता । श्रादिशब्देनानन्दाथग्रहणम् । एते सात्त्विका भावास्तेषां सहचरीत्यर्थः । चित्तवृत्तिर्वर्तत इति शेषः। तदीयेति । तच्छब्देन भगवान् । तस्य पुरुषस्य । गुरुलघुविशेषेति । सर्वपापनिव. तकत्वश्रवणादिति भावः । रहो वेगः । इतरस्येति । अश्रद्धस्याभक्तस्य चेत्यर्थः । प्रतिपदोक्तं तत्र तत्र विस्पष्टोक्तम् ।
तत्र श्रद्धावतोऽधिकारे नारदीयवचनं प्रमाणंयस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावतीति,
श्रीभागवते चयदृच्छया मत्कथाऽऽदौ जातश्रद्धश्च यः पुमान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________
प्रकाशसहिता
न निर्विएणो नातिसक्तोभक्तियोगोऽस्य सिद्धिद इति, तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायत, इति च पुराणेषु श्रद्धावतां भक्तियोगाधिकारं दर्शयति निवर्त्तयति तु कर्माधिकारम् ।
श्रीभगवद्गीतासु अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मन
इति श्रद्धाहीनस्य सर्वत्रानधिकारं दर्शयति । शिवधर्मोत्तरेऽपि
विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकः । लोकानुग्रहकर्ता यः स मृषाऽर्थ कथं वदेदिति
गुणवादनिराकरणेन शिवशासनेषु श्रद्धामुत्पादयन् श्रद्धावतोऽधिकारं दर्शयति । __ अतिरपि कर्मकाण्डे ज्ञानकाण्डे च श्रद्धावत एवाधिकार दर्शयति, तत्र कर्मकाण्डे श्रद्धयाऽग्निःस मिध्यते श्रद्धया हूयते हविरित्यादिका, ज्ञानकाण्डे श्रद्धावित्तोभूत्वाऽऽत्मन्येवात्मानं पश्येदित्यादिका।
तस्मात्सर्वत्र श्रद्धावत एवाधिकारः,
भक्तियोगःश्रवणकीर्तनादिः । शिवात्मकः कल्याणप्रतिपादकः । गुणवाद औपचारिकत्वम् ।
सा च पुरुषभेदेन विषयभेदेषु व्यवतिष्ठते तस्माद् व्यवस्थितोऽधिकार इति।युक्तं चैतद् विधिपुरुषसम्बन्धोवा तद्धतुर्वा व्युत्पत्तिभेदेनाधिकारशब्दार्थ इति न्यायविदां स्थितिः । तत्र श्रेयःसाधनलक्षणस्य विधेःवसाध्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________
श्रीभगवन्नामको मुदी |
भोग्यश्रेयोद्वारेण भोका पुरुषेण सम्बन्धो विधिपुरुषसम्बन्धः, तद्धेतुर्जीवनकामनाऽऽदिः ।
७३
नियोगवादिनस्तु नियोज्यनियोगयोर्बोद्धृबोद्धव्यलक्षणः सम्बन्धो विधिपुरुष सम्बन्धः स च कर्मण्यैश्वर्य्यमित्येवलक्षणादधिकारादन्य एवेति मन्यन्ते ।
स सर्वोऽपि न श्रद्धामन्तरेण संभवति, अनवगतासभावस्य पुंसो वाक्याद्विशिष्टप्रवर्त्तकविषयाद् वस्तुवृत्त्या विसंवादशून्यादपि ममेदमिष्टसाधनमिति वा ममेदंकार्य्यमिति वा प्रतिपत्तेः प्रवृत्तेश्चादर्शनात् ।
सा चेति । स स पुरुषस्तत्र तत्र श्रद्धत्त इत्यर्थः । व्युत्पत्तिभेदेनेति । श्रधिकरणमधिकार इति व्युत्पत्या विधिपुरुषसम्बन्धः । अधिक्रियते येनेति व्युत्पत्या तद्धेतुः । तदेव विवृणोति - तत्रेति । गुरुमते विधिपुरुषसम्बन्धं विवृणोति - नियोगेति । उभयमतेऽपि श्रद्धाऽपेक्षामाह - स सर्व इति । श्रनवगतेति । यस्याप्तत्वं न ज्ञायतइत्यर्थः । विशिष्टेति । इष्टसाधनत्वप्रतिपादकादित्यर्थः । प्रतिपत्तेरदशनादित्यन्वयः ।
ननु यस्य वेदस्तन्मूलं च स्मृतिपुराणादि सर्व्वं शास्त्रप्रमाणमिति निर्णिक्तशङ्कापङ्कबुद्धिरस्ति स एव शास्त्र - ऽधिक्रियते, तत्र यदि कथं चिदेकदेशेऽप्यश्रद्धा तत्कथमेकदेशान्तरेऽप्यधिकारः, अपि च नैकदेशविषयिणी श्रद्धैव संभविनी, सा हि शास्त्रस्य प्रमाणान्तरसंवादनिबन्धना वा स्वतः प्रामाण्यनिबन्धना वा, न तावदाद्यः प्रमाणान्तरैर्दुरवगाहत्वादतिगहनस्य धर्मतत्त्वस्य, नापि द्वितीयः स्वतः प्रामाण्यस्यैकदेशान्तरेऽप्यविशेषात् तन्निबन्धना वेदभविष्यत् सर्वत्रापि श्रद्धा, न वा कुत्रचित्, तत् कथं तन्निबन्धना व्यवस्थेति ?
१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________
७४
प्रकाशसहिता पुराणेषु श्रद्धावतः पौराणषु श्रवणकीर्तनादिष्वधिकारः, इतरस्य स्मार्तेष्वधिकार इत्युक्तमाक्षिपति-नन्विति । निर्णिक्तः प्रक्षालितः शङ्कापको यस्याः। एकदेशे पुराणादिरूपे, एकदेशान्तरे स्मृत्यादिरूपे । एकदेशविषयां श्रद्धाम् प्रकारान्तरेण दूषयति-अपि चेति । तन्निबन्धना चेत् = स्वतःप्रामाण्यनिबन्धना चेत् । तन्निबन्धना श्रद्धानिबन्धना व्यवस्थेति।
इदमसांप्रतधर्मव्रम्हविषयशास्त्रयोः प्रामाण्यस्याविशिष्टत्वेऽपि श्रद्धाया व्यवस्थितत्वात् । यो ह्यकर्त्तारमात्मानमवगमयन्तीरुपनिषदोऽपि न श्रद्धत्ते स एव कर्मविधीनाद्रियते, अत एव हि तस्यैव तत्राधिकारोनेतरस्य, अन्यथा हि सर्वस्यापि सर्वत्राधिकारोऽभविष्यद्, न च तथाऽस्ति, एवमिहापि वक्तदोषविरहादेकतुलाऽऽरूढ़ेषु सर्वशास्त्रषु समानगरिमसत्सर्गसिद्धाऽपि श्रद्धा कुत्र चित् कुतश्चित् प्रतिबन्धकाददृष्टादुदाहरणभासदर्शनाचार्थान्तरपरत्वशङ्काकलङ्कन कुण्ठीकियते तदुपपन्नं तन्निबन्धना व्यवस्थेति ।
दूषयति-इदमिति । श्रद्धाकृतव्यवस्थामपपादयति-यो होति। विपक्ष वाधकमाह-अन्यथेति । कुतश्चिदित्येतद्विवृणोति-अदृष्टादित्यादिना । उदाहरणाभासैर्वा ग्रामेऽयमेक एवाद्वितीयः पुरुष इतिवदेकमेवाद्वितीयमित्यादिवेदान्तानामर्थान्तरपरत्वमिति भवति शङ्का । ___ भक्तरप्यधिकारिविशेषणत्वं पुराणवचनैरेवावगः म्यते, श्रीवियणुपुराणे तावद्
यन्नामकीर्तनं भक्तथा विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावक इति,
अत्र च भक्तिशब्देन भगवदालम्बनो रत्याख्यः स्थायी भावोऽभिधीयते, न भजनमात्रं तस्य कीर्तनशब्देनोपायेषूपात्तत्वात् ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #94
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
प्रह्ललादचरिते चायमर्थः स्फुटतरमवगम्यतेनाथ योनिसहस्रेषु येषु येषु ब्रजाम्यम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ इति श्लोकस्यैकवाक्यत्वाद् ।
-
૧
भक्तेरप्यधिकारिविशेषणत्वमाह - भक्तेरिति । विलापनं निवर्त कम् । ततश्च विष्णुभक्तस्य नामकीर्तनं सकलपापक्षयहेतुरितरस्य मन्वाद्युक्तम् प्रायश्चितमिति व्यवस्थेति भावः । भक्तिशब्दार्थमाहअत्रेति । रतिः प्रीतिः । स्थायी भावो धर्मः । भक्तिशब्दस्य प्रीतिवा चित्वं समर्थयते - प्रल्हादेति । पूर्ववाक्ये भक्तिशब्देनोदाहृत्य प्रीतिशब्देनोत्तरवाक्ये निर्देशादिति भावः ।
नन्वन्यैव भक्तिरन्यैव च प्रीति निर्देशभेदादेव, अन्यथा हि पौनरुक्तच प्रसज्येत, अन्यच्च नेह प्रीतिः प्रायते, अपि तु हे माप लक्ष्मीपते ! अविवेकिनां विषयेषु या प्रीतिः सा त्वामनुस्मरतो मे हृदयात्सर्पतु गच्छतादिति रागनिवृत्तिः प्रार्थ्यते तत् कथमेकवाक्यत्वमिति ? भक्तिप्रीत्योर्भेदं शङ्कते - नन्विति । नेहेति । उत्तरश्लोक इत्यर्थः । मां पातीति मापः । रागनिवृत्तिस्तद्ध्वंसः । रागविरोधी चेतोवृत्तिविशेषो विरक्तिः ।
I
श्रसुभगमेतद्, यदि भक्तरन्या प्रीतिः प्रार्थ्यते विरतिर्वा, तर्हि तस्या अपि भगवद्वाक्ये भक्तेरिवानुभाषणेन ग्रहणेन च भवितव्यं भक्तिर्म्मयि तवास्त्येव भूयोऽप्येवं भविष्यतीतिवद् मयि प्रीतिस्तवास्त्येव भूयोऽप्येवंभविष्यतीति, विषयेषु विरक्तिस्तु तवास्त्येव भूयोऽप्येवं भविष्यतीति च तथा, न चैवमभवत्, तस्मात्पूर्वश्लोकोद्दिष्टाया भक्तः स्वरूपवर्णनमुत्तरश्लोकेन क्रियत
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________
७६
प्रकाशसहिता
"
भेदाद्विषयेष्वनुभूयमा
इति व्याख्येयं तद्यथाऽनुस्मरत इति षष्ठी पञ्चमी वा पुरुषस्य हृदयस्य च विशेषणम्, प्रीतिशब्देन च सुखं वा तदभिव्यञ्जिका वा बुद्धिवृत्तिर्गृह्यते, तत्र सुखपक्षे तस्य सर्वत्रैकरूपत्वात्तदुपरागस्यैव नेषु या प्रीतिर्यत्सुखमभिव्यज्यते सा त्वामनुस्मरतो मे हृदयान्माऽपसर्प्यतु नापयातु त्वदनुस्मरणेनैव तत्सुखमभिव्यज्यतामिति सुखाभिव्यञ्जकं भगवदनुस्मरणं प्रार्थितं भवति, वृत्तिपक्षेऽपि तथैव तत्रापि तत्खरूपसम्मानयोगक्षेमस्यापि तद्भेदस्य विषयावच्छेदमन्तरेणानवगमादवच्छेदकविषयान् बहिर्भाव्य प्रीतेरेवोपादानेऽविवेकिनांविषयेषु सुखसाधनेषु या प्रीतिः सां त्वामनुस्मरतो मम हृदयान्नापयातु विषयानुल्लङ्घ्य त्वामेव निरतिशय सुखात्मानमालम्बतामिति यत्तच्छब्दयोः सामानाधिकरण्यंस्फुटमेव, ततश्च पक्षद्वयेऽपि श्रीमन्मुरमथन चरणारबिन्दमकरन्दमन्दाकिनीमवगाहमानस्य मनसः कोऽपि समुल्लासः स्वानन्दमाविर्भावयन् भक्तिरित्यभिहितं भवति, सा च रतिरेवेति ।
दूषयति - तर्हीति । तस्याः प्रीतेः, विरक्तेश्च । भगवद्वाक्येऽग्रेतने। भवितव्यमित्युक्तं विवृणोति - भक्तिर्मयीति । तथा = विस्पष्टम् । पौनरुक्त्यं परिहरति-तस्मादिति । तदेव विवृणोति - तद्यथेति । षष्ठी. पक्षे पुरुषविशेषणम्, पञ्चमीपते हृदयविशेषणम् । प्रीतिशब्दार्थं द्वेधा निरूपयति - प्रीतीति । ननु विषयेषु यत्सुखमविवेकानां तत्कथंभगवन्तमनुस्मरतः स्यात्तत्राह - तस्येति । सुखस्येत्यर्थः । तत्तदुपराग स्येति । उपरञ्जकतत्तदुपाधेरेवेत्यर्थः । तथैवेति । सुखाभिव्यञ्जकं भववदनुस्मरणम् प्रार्थितम् भवतीत्यर्थः । तदेव दर्शयति - तत्रापीति । तत्स्वरूपेति । बुद्धिस्वरूपसमानयोगक्षेमस्य जन्यत्वात् । तद्भेदस्य बुद्धिवृत्तिविशेषस्य, बहिर्भाव्य व्युत्थाप्य, प्रीतेरेवेति । वृत्तिमात्रस्येत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #96
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। फलितमर्थमाह-विषयानिति । ततश्च भगवति प्रीतिरेव भक्तिरित्यु. त्तरश्लोकगतयत्तच्छब्दसामानाधिकरण्येन सिद्धमित्युपसंहरति-यत्तदिति । समुल्लासो वृत्तिभेदः।
श्रीभागवते चरतिरेव भक्तिरित्यवगम्यतेदेवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धगरीयसीत्यत्र,
तस्य ह्ययमर्थः-गुणलिङ्गानां गुणमयशरीराणामानुश्रविकं श्रुतिपुराणादिगम्यं कर्म चरितं येषां ते तथोक्ताः तेषां देवानां मध्ये सत्व एव शुद्धसत्त्वमयमङ्गलमूतौ सरखतीतीरवासिभृगुमुख्यमुनिजनसिद्धान्तप्रसिद्धमहिमनि श्रीवत्सलाञ्छन एकमनसः पुरुषस्य एकाग्रस्य वा मनसो या वृत्तिरनिमित्ता फलाभिसंधिशून्या स्वरसत एव विषयसौन्दर्य्यादयत्नेनैव जायमाना न बलादापाद्यमाना सा भागवती भक्तिः सा च सिद्धेज्ञानाद् गरीयसीति । गरीयस्त्वमेव विवृणोति___ जरयत्याशु या कोशं निगीणमनलो यथेति ।
यथा निगीर्णमन्नपानादि जाठरो जातवेदा जरयति तथा या कोशमन्नमयादि पश्चप्रकारमाशु नाशयति, अनुभवशिरस्कत्वाद्, न ज्ञानमिव तत्त्वयुक्तिभिः क्रमेणेकैकमपोहति, ततश्च तस्या गरीयस्त्वे कतमः सन्देहइति, मुक्तगरीयसीति वा व्याख्येयम् ,
सालोक्यसार्टिसामीप्यसायुज्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाइत्यादिदर्शनात् । जरयत्याशु या कोशमिति तु स्वय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #97
--------------------------------------------------------------------------
________________
प्रकाशसहिता
मेव भक्तिरन्विष्यमाणा मुक्तिं बलादविलम्बेनापादयतीति दर्शयति । एवंलक्षणश्च मनसः परिणामः कथं नु रतेरन्यः स्याद् ।
७८
भागवत पर्यालोचनयाऽपि रतिरेव भक्तिरित्याह- श्रीभागवतइति । देवानाम् ब्रम्हविष्णुमहेशानाम् । शुद्धसत्वमयत्वं विवृणोतिसरस्वतीतोरेति । भृगुणा हि विष्णुवक्षसि पदाघातः कृतः विष्णुस्तु भूषणः वेनाङ्गीकृतवानतः शुद्धसत्त्वमय इति भावः । फलाभिसन्धिशून्या चेद्भक्तिः कथं जायेत ? तत्राह-स्वरसत एवेति । सार्ष्टिः सारूप्यं, सायुज्यं तादात्म्यम् एकत्वमभेदः । उपसंहरति- एवमिति ।
"
अन्या व्याख्या - एकमनसः पुंसो देवानां या वृत्तिः सा भक्तिरित्यन्वयः, तत्र देवशब्दस्य नानार्थत्वादिन्द्रियग्रहणार्थमुपपदं गुणलिङ्गानामिति, शब्दादिग्रहकारणानामित्यर्थः । अनेनैव कर्मेन्द्रियाणामपि ग्रहणं छत्रिन्यायेन, कम्र्मशब्देनैव बुद्धेरपि अन्यक्ष विशेषणविशेष्ययोरनन्वयप्रसङ्गात् । कर्म्म कर्तव्यं तच्च द्विविधंदृष्टमानुश्रविक च तत्र प्रत्यक्षादिभिः कर्त्तव्यत्वेनावगतं दृष्टं, यस्य तु शास्त्रादवगम्यते कर्त्तव्यत्वं तदानुश्रविकं तत्र रागादिनिबन्धनप्रवृत्तिवारणार्थं विशेष -
मानुश्रविककर्मणामिति, श्रानुश्रविकेऽपि काम्ये रागादिनिबन्धनत्वात्प्रवृत्तेस्तन्निवृत्तये विशेषणमनिमित्तेति, अनिमित्ताऽपि कदाचिदन्यदेवताऽऽलम्बनी वृत्तिः स्याद् न च सा भागवती भक्तिरत आह-सत्त्वएवेति । शेषंपूर्ववत् ।
I
व्याख्यानान्तरमाह -- श्रन्येति । छत्रिन्यायेनेति । छत्रिणो गच्छ. न्तीत्यत्र यथा छत्रिशब्दः छत्र्यच्छत्रिसमुदाय लक्षकः, एवं गुणलिङ्गशब्दोऽपि कर्मेन्द्रियज्ञानेन्द्रियसमुदायलक्षकः । तद्विशेषणमानुश्रविककर्मणामिति । तत्र कर्मशब्दो बुद्धिवृत्त्युपलक्षणमित्याह - कर्मेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #98
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
अन्यथेति । ज्ञानेन्द्रियाणां कर्माभावादिति भावः । इन्द्रियाणाम् भग वति वृत्तेः क्रममाह - तच्चेति ।
अनेनैव क्रमेण श्रीमदच्युते चित्तावतारस्य विवचितत्वाद्, न प्रातिलोम्येन विशेषणानर्थक्यं शङ्कनोयम् । श्रयमत्र निष्कर्षः - रागादिदोष निबन्धनाभ्यः प्रवृत्तिभ्यः परावृत्तानां श्रुतिपुराणवैष्णवागमविहितश्रवणादिकर्म्मप्रवणानामिन्द्रियाणां किं चिदपि फलमनभिसन्दधानानां सकलभुवन सौभाग्यसार सर्व्वस्वमूर्ती मुरमर्द्दने परिचयप्रचयादनपेक्षितविधिः खरसत एव समुल्लसन्ती विषयान्तरैरव्यवच्छिद्यमाना वृत्तिर्भागवती वृत्तिर्भक्तिरिति । तत्र बहिरिन्द्रियाणां श्रवणादिव्यतिरेकेण वृत्त्यभावात् श्रवणादीनां चान्योन्यं भिन्नजातीयत्वान्मनोवृत्तेस्तु भावलक्षणायाः सर्व्वत्रैकरूपत्वाद मनोवृत्तिरेव मुख्यो भक्तिशब्दार्थः, श्रवणादिषु तु तदनुविधानादेव भक्तिशब्द इति ।
पु
७६
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो हि भिद्यत - इत्यनेनापि भक्तिभावयोरभेद एवावगम्यते, अन्यथा हि भक्तेर्वैविध्यं प्रतिज्ञायौत्पत्तिकसत्त्वादिगुणभेदेन भावभेदप्रतिपादनायोगात्,
1
श्रनेनेति । उक्तेनेत्यर्थः । प्रातिलोम्येनेति । श्रन्तिममेव विशेषणमस्त्विन्द्रियाणां भागवती वृत्तिर्भक्तिरिति न शङ्कनीयमित्यर्थः । निष्कर्षः तात्पर्यार्थः । एवं सामान्यतः सर्वेन्द्रिय वृत्तेर्भगवद्विषयाया भक्तिशब्दव्यपदेश्यत्वमक्त्वा तत्रापि विशेषमाहतत्रेति । श्रवणादीनामननुगतत्वात्तेष्वनुस्यूता मनोवृत्तिरेव भक्तिशब्दवाच्येति भावः । युक्त्यन्तरेणाह - भक्तियोग इति । भावी मनोरुचिः । वैविध्यमनेकत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #99
--------------------------------------------------------------------------
________________
CO
प्रकाशहिता श्रीनरसिंहपुराणेऽपि-इक्ष्वाकुचरिते
चकार मेघे तद्वर्णे बहुमानरतिं नृपः । पक्षपातेन तन्नानि मृगे पद्म च तादृशीत्यादिप्रेमातिशयस्यैव भक्तित्वं दर्शितम् ,
श्रीस्कन्दपुराणेऽपि बीभत्सिते दुर्विषये कदाचियो वाऽपि रागो भविता जनस्य । स चेद् भविष्यत्यपि नाम रुद्रे को नाम मुक्तो न भवेद्भवाब्धेरि
त्येतदेव दर्शितं भक्तिप्रक्रमात्, श्रीलिङ्गादिषु चखरनेत्राङ्गविक्रियेत्यत्रानुभावानामनुक्रान्तत्वात् तेषांच भावानामङ्गभावादगी भाव एव भक्तिरिति गम्यते। स चायमाद्यो भावो वृत्यन्तरैरन्तरा निविशमानैरप्यनेकजन्मवासनावासिते चेतसि न व्यवच्छिद्यमानो विभावादिभीरसरूपतामापाद्यमानो निजसुखसंविदा निर्भरमालिङ्गितः स्वयमेवानन्दसंविदभिधानमुपचारासहं दधानो भक्तिरित्यभिधीयते ।।
तद्वर्णे कृष्णसदृशवणे। तन्नाम्नि कृष्णनाम्नि, तदृशि कृष्णह. तल्य इत्यर्थः। सोऽपि चेद्रुद्रे भविष्यतीति संबन्धः। स्वरवि क्रिया सगद्गदत्वम् । नेत्रविक्रिया अश्रु, अङ्गविक्रिया रोमाञ्चाः । भक्तेरनुज्ञायमाना भावा अनुभावाः। भावाङ्गभावाद् = भत्त्यङ्गत्वात् । अङ्गी प्रधानम् । आद्य इत्यनुभावापेक्षया, वृत्त्यन्तरैर्विषयविष यैर्न व्यवच्छिद्यमानः । तत्र हेतुरनेकजन्मेति ।।
तस्य चालम्बनविभावोऽवज्ञाऽऽकृष्टकुसुमायुधसौन्दर्यसबखः कमलाकुचतटीपत्रभृङ्गो भगवाननन्तो वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #100
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
मनागवलोकन खर्व्वीकृतमदनगर्ध्वो मुग्धमृगलाञ्छनशेखरः शंकरो वा, तावपि श्रुतिपुराणवाक्यैः कर्णाभ्यर्णमवतीर्णौ वा; अभिनयैरभिनयप्रतिभानमार्गमनुसरन्तौ वा मज्जन्मकर्माभिनयइत्येतदर्थमेवाभिनयनस्य विहितत्वाद् । उद्दीपनविभावास्तु विलसदमलमरकतमणिमरीचिमञ्जरीपिञ्जरालिभ्रान्तिभूमयो निर्यन्मकरन्दबिन्दुजालजम्बालितगगनाङ्गनाः परिमलतर्पितपवनातिथयस्तरुणतुलसीवन वीथ्यः, मुरमथनरथाङ्गलाञ्छनच्छटापरिष्वङ्गसुव्यङ्ग्यसौभाग्यश्रेणिश्रीमद्गोपीचन्दनविदलानि, प्रसिद्ध सकला भरण सौन्दर्य्य सर्व्वस्ववश्च न चणा नयनाह्लादिन्यो नलिनाक्षमालाश्व, हरनयनदहनदग्धसहचरस्मर विरहशुष्कावशिष्टकतिपयकलस्य कलावतः कलाभरचूर्णचय इव धवलिन्ना बहिरन्तस्तमसो तिरो दधानंमनोमुकुर मण्डलीमुज्ज्वलां विदधद् भासुरं भसितं,सकल पुरुषार्थ संपत्सुरलताबीजश्रेणीश्रियो रुद्राक्षमालाश्व, हरिदिनहरयामिनीमहोत्सवादयश्च । अनुभावाव्यभिचारिणश्च भरतादिमुनिमनीषिताएव न पुनरिहाभिनवाः सर्व्वेषां चैतेषामुदाहरणानि श्रीभागवते स्फुटतरमुपलभ्यन्ते; पुराणान्तरेषु च केषां चित्, तत्रालम्बनविभावस्य च -
स्वयं त्वसाम्यातिशयस्त्रयधीशः खाराजलक्ष्म्याप्त समस्तकामः । वलिं हरद्भिश्चिर लोकपालैः किरीटकोट्यर्हितपादपीठः ॥
इत्यादि । उद्दीपनविभावस्य च -
११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
८१
www.umaragyanbhandar.com
Page #101
--------------------------------------------------------------------------
________________
२
प्रकाशसहिता तस्यारबिन्दनयनस्य पदारविन्दकिञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां
संक्षोभमक्षरजुषामपि चित्ततन्वोरित्यादि।
एवंव्रतः स्वप्रिंयनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गाय
त्युन्मादवन्नृत्यति लोकबाह्यइत्यादि । खरनेत्रगात्रविकाररूपाणामनुभावानांतत्रापि सात्त्विकानां--
क चिदुत्पुलकः तूष्णीं प्रेमप्रसरसंप्लतः ।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षण इत्यादि, निर्वेदादीनां च व्यभिचारिणां
क वाऽहं कितवः पापो ब्रह्मनो निरपत्रपः ।
क च नारायणेत्येतद् भगवन्नाममङ्गलमित्यादि । एवं शैवेऽपि
अस्ति कश्चिदपर्य्यन्तरमणीयगुणार्णवः । षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः । अात्मशक्त्यमृताखादप्रमोदरसिको युवा । अखण्डजगदण्डानां पिण्डीकरणपण्डितः ॥ अनन्तानन्दसंदोहमकरन्दमध्रुव्रतः।
औदार्यधैर्यगाम्भीर्यमाधुर्य्यमकरालयः । इत्यादीन्यालम्बनादीनामुदाहाया॑णि ।
विभावो जनको भावः। आदिशब्देनानुभावव्यभिचारिभावग्रहणम् । निजस्वं सुखं तदेव संविद्, अत एवानन्दसंविदित्यभिधा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #102
--------------------------------------------------------------------------
________________
श्रीभगन्नामकौमुदी। नम् । शृङ्गारादिरसेषु प्रमदाऽऽदिरिवानालम्बनविभावः श्रीगोविन्दः शंकरो वेत्याह-तस्येति । तयोरालम्बनत्वमुपपादयति-तावपीति । अभिनयैरनुकारप्रदर्शनैः, स्वकर्तृकैः परकर्तृकैर्वा । अभिनेयानां तत्तत्प. रमेश्वरचरित्राणां प्रतिभानं स्फुरणं तन्मार्गो विषयता, यथा कथं चिदुपस्थितः परमात्माऽऽलम्बनविभावो भक्तिरसस्येत्यर्थः। मरीचीनांमञ्जर्यस्तद्वत्पिञ्जरा अलयस्तेषां भ्रान्तिभ्रमणं तद्भूमयः, निर्यन्तो निर्ग: च्छन्तो मकरन्दस्य बिन्दवस्तेषां जालोनि तैर्जम्बालितं शबलीकृतं. गगनमेवाङ्गनं याभिः, परिमलेन तर्पितः पवनो याभिस्ताः प्रथमान्तत्रयं. वीथीनां विशेषणं, रथाङ्गं सुदर्शनं तदीयलाञ्छनच्छटानां परिष्वङ्गः सम्बन्धस्तेन सुव्यङ्गया सौभाभ्यश्रेणियस्तानि गोपीचन्दनविदलानि खण्डानि । सौन्दर्यसर्वस्वस्य वञ्चने चणा निपुणाः । नलिनं पद्मम् । शिवभक्तिरसस्योद्दीपनविभावमाह-हरेति । हरमस्तकचन्द्रः पूर्व पूर्णकल एवासीद्धरनेत्राग्निनो दग्धस्य मदनरूपस्य सहचरस्य विरहेण काश्चन कलाः क्षीणास्तासां चूर्णानीव भसितं, मुकुरो दर्पणः । भरतादीनां शृङ्गारादिरसनिरूपकाणामभिमता एवानुभावादय इति । अक्षरं निर्गुणं ब्रम्ह । अनुभावोदाहरणमाह-एवंव्रत इति । तदवा. न्तरभेदानामुदाहरणमाह-तत्रापीति । षड्विधेति। कामक्रोधमदमोहलोभमत्सरात्मकषडिधपापमयस्येत्यर्थः। श्रात्मेति । स्वगुणामृ. तास्वादप्रमोदा भक्तास्तेषु रसिको बत्सलः, युवा जरारहितः, पिण्डी. करणम् = एकीकरणं संहारो, मधुव्रत इव मधुव्रतः पूर्णानन्द इत्यर्थः । मकरालयः= समुद्रः, एतादृशः शिव पालम्बनं विभावः। __एवं स्थिते यत्कश्चिदुक्तं भक्तिरुत्साहेऽन्तर्भवतीति तल्लौकिकभक्त्यभिप्रायं, तस्य समरार्थमेव खामिना खीकृतत्वाद्, इह तु न तथा,
यथोक्तं श्रीमता प्रह्लादेन अहं त्वकामस्त्वद्भक्तस्त्वं तु खाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिवेति, तस्माद्रत्याख्यो भावो भक्तिरिति ।
सेवाजनक उत्साहो भक्तिरिति मतान्तरं दूषयति-पवमिति । लौकिकेति। राजसेवाऽऽदिसंबद्धा भक्तिरुत्साहेऽन्तर्भवतीत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #103
--------------------------------------------------------------------------
________________
प्रकाशसहिता राजादिः समराद्यर्थ सेवकं स्वीकरोति तश्च नोत्साहमन्तरेण सेवकस्य संभवतीति भावः । अहं त्विति । राजसेवकौ हि स्वस्वकार्योद्देशेन प्रवत्ते नैवमावयोरित्यर्थः।
ननु श्रीविष्णुपुराणे विहिताचरणं प्रतिषिद्धवर्जनच भक्तिरित्युक्तं
न चलति निजवर्णधर्मतो यः सममतिरात्ममुहृद्विपक्षपते । न हरति न च हन्ति किं चिदुच्चैः
सितमनसन्तमवेहि विष्णुभक्तमित्यादौ, सत्यमुक्तम् , उपलक्षणं तु तत् शाखाग्रमिव चन्द्रस्य न स्वरूपं भक्तः प्रकृष्टः प्रकाश इव, भावलक्षणाया भक्तः पृथगुपादानाद,
मनसि कृतजनाईनं मनुष्यं
सततमवेहि हरेरतीव भक्तमिति । अत्र हि सततं मनसि कृतजनाईनमिति संबन्धः, सातत्यं च न भावमन्तरेणावकल्पते, अतीव भक्तमिति च स एव मुख्यो भक्त इति दर्शयति, सममतिरात्मसुहद्विपक्षपक्ष इति च सर्वात्मनि वासुदेवेभावमन्तरेण नोपपद्यते,उपपद्यतेचोपलक्षणत्वम्। विधिप्रतिषेधातिक्रमोहि रागादिनिबन्धनः, न च पुरुषोत्तमप्रवणे चेतसि रागादयोऽवकाशं लभन्ते, अत एवाभाणि भगवता श्रीशुकेन
विकर्म यच्चोत्पतितं कथं चिदुनोति सर्वं हृदि सन्निविष्ट इति ।
लोकेऽपि भक्तसेवकयोर्भेदो दृश्यते, समानेऽपि राजसेवाकर्मणि भक्तोऽयमभक्तोऽयमिति व्यपदेशदर्शनात् , तस्माद् भाव एव भक्तिः। सा च कीर्तनाङ्गं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #104
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
यन्नामकीर्त्तनं भक्त्येतिश्रुतेः, न चासाविच्छया संपादयितुं शक्यते, अतोऽनुपादेयत्वादर्थादधिकारिविशेषणंभविष्यति फलवत् । एतदेव स्पष्टीकृतं -
के चित्केवलया भक्त्या वासुदेवपरायणा इति । अत्र वासुदेवपरायणा इति तदेकलक्षणस्य भावस्याधिकारिविशेषणभावेनोद्देशः, भक्तयेति भजनक्रिया कीर्त्तनादिरादीयते, के चिदिति च दुःसंपादत्वेनाधिकारिविशेषणमेव दर्शयति
I
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म्म यच्चोत्पतितं कथं चिद्धुनोति सव्र्व्वं हृदि सन्निविष्टइति । तत्रापि त्यक्तान्यभावस्येति भावस्योद्देशः, भजत इति कीर्त्तनादेरुपादानं, तस्माद् भक्तस्यैवाधिकारः । ज्ञानस्याप्यधिकारहेतुत्वमवगम्यते, "यतस्तद्विषया मति" रिति यतो नाम्नस्तद्विषया मतिर्भवति, तस्य नाम्नोव्याहरणं पापक्षयहेतुरित्यतो यस्य तज्ज्ञानमस्ति स एवाधिकारीत्यर्थादुक्तं भवति,
J
८५
तदुत्तमश्लोकगुणोपलम्भक-
इति ज्ञानवतो हरेर्नामपदैस्तद्वाचकैः शब्दैरुत्तमश्लोकं तद्गुणांश्चोपलभते यः स एवात्राधिकारीति व्यक्तम. वगम्यते, ज्ञानं चात्र परोक्ष पदार्थमात्रविषयं न पुनरपरोक्षमोपनिषदम्, एवं च श्रद्धाभक्तिज्ञानसंपन्नस्याधिकारिणः पौराणं प्रायश्चित्तमितरस्य तु स्मार्त्तमिति व्यवस्थितम् ।
प्रकृष्टप्रकाशो यथा चन्द्रस्य स्वरूपं न तथैतदित्यर्थः । उपसंहरति- तस्मादिति । प्रकृतमाह - सा चेति । तावता कथमधिकारिविशेषणत्वम् ? तत्राह - न चेति । असौ भक्तिः । भक्त्येति वासुदेवपरायण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #105
--------------------------------------------------------------------------
________________
प्रकाशसहिता
इत्यनयोरर्थभेदमाह–तत्रेति । उद्देशोऽभिधानम् । ज्ञानस्येति । नामोच्चारणं पापक्षय हेतुरित्यस्य परमेश्वरज्ञानस्य चेत्यर्थः ।
८६
ननु भवतु स्मृतिपुराणवचनानामन्योन्यविरोधव्यवस्थेयम्, इह पुनः पुराणवचनानामेवान्योन्यविरोधोविलोक्यते - कानि चित्सकृत्कीर्त्तनादेव पापक्षयमभिदधति, कानि चिदावर्त्त्यमानानीति, तथा हिश्रीलै
-
ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् | मन्त्रमाह सकृद्यस्तु पातकैः स विमुच्यत इति । श्रीभागवते तु हरेर्गुणानुवादः खलु सत्त्वभावन इति, नातः परं कर्म निबन्धकृन्तनंमुमुक्षतां तीर्थपदानुकीर्त्तनादिति च, कस्तत्र विरोधपरिहार इति ?
उच्यते । तत्राप्यनुतप्ताननुतप्तविषयत्वेन व्यवस्था, तथा हि श्रीवैष्णवे "कृष्णानुस्मरणं परमि" त्यविशेषेण प्राप्तामावृत्तिमनुतप्तविषयेऽपवति
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परमिति, तोऽननुतप्तविषयैव सा व्यवतिष्ठते । प्रकारान्तरेण शङ्कते - नन्विति । अनुतप्तस्य सकृन्नाम कीर्तनमित रस्यावर्त्त्यमानमिति परिहारग्रन्थार्थः । श्रननुतप्तविषयैव सा श्रावृतिरित्यर्थः ।
ननु नेह निर्द्धारणमावृत्तेः, इयतो वारानितीयन्तंकालमिति वा ततश्च कथमनिर्द्धारिता सा विधीयते ? नापि यावत्फलमावृत्तिरवघातादाविव, पापवन्त्तन्निवृत्तेरपि शास्त्रक गम्यत्वात्,
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #106
--------------------------------------------------------------------------
________________
GU
श्रीभगवन्नामकौमुदी। उच्यते। श्रावृत्तिश्रवणादेव पापतारतम्यादावृत्तितारतम्यं कल्प्यते, यते च तदष्टाक्षरब्रह्मविद्यायां
गोमूत्रयावकाहारो ब्रह्महा मासिकैर्जपैः ।
पूयते तत एवार्वाङ महापातकिनोऽपर,इत्यादि, तस्माद्यस्य पापं कृतवतो भाराकान्तस्येव न कदा चिदितः परं पापे प्रवर्त्त इति पश्चात्तापो जायते तस्य सकृत्कीतनंशोधनम्, इतरस्य पुनरावयमानमिति।
श्रावृत्तिस्वरूपेऽविनिगमं शङ्कते-नन्विति । पापतारतम्येनावृ. त्तितारतम्यमिति समाधत्ते-उच्यत इति ।
नन्वेवमपि सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुरि
त्येवमादीनां का गतिः ? परिहासानादरयोहि न भक्तिश्रद्धाऽनुतापाः सम्भवन्ति, स्तोभसाकेत्ययोस्तु न ज्ञानमपि, श्रावृत्तिरपि नापेक्ष्यते
यद् यक्षरं नाम गिरेरितं नृणांसकृत्प्रसङ्गादघमाशु हन्ति तद् । पवित्रकीर्ति तमलयशासनं
भवानहो देष्टि शिवं शिवेतरइति सकृच्छब्दप्रयोगादाशुशब्दाच श्रद्धादयोऽप्युपेक्षिताः । अस्य ह्ययमर्थः-यदिति व्यस्तमव्ययं, यस्य नाम द्यक्षरं सुखोच्चार्य, तदपि गिरेरितं न तु हृदयेन तदर्थमवधायं तच्च सकृन्न बहुवारं; तदपि प्रसङ्गान्न तु श्रद्धादेः अघम्, अवधीरितमहदल्पभेदम् अाशु शीघ्रमेव नतु कालान्तरव्यवधानेन हन्ति हिनस्ति तत्रापि न नामि नश्चित्तमावणं किन्तु तत्वयमेव, तच सर्वेषां नृणां न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #107
--------------------------------------------------------------------------
________________
CE
प्रकाशसहिता द्विजानामेव, किं च कियदेतद् यदुत पापक्षयहेतुरस्य नामेति, अयं हि पवित्रकीर्तिः पराग्भावेन प्रतिपन्नः परमेश्वर एव पविर्वज्रं “महद् भयं वज्रमुद्यतमि”ति श्रुतेः,
भूतानां महदादीनां यतो भिन्नदृशां भयमिति
स्मृतेश्च । तस्मात् त्रायते भक्तं भेदभ्रान्तिमुन्मूल्य निरातङ्क निजमहिमन्यवस्थापयन्ती कीर्तिर्यस्यास पवित्रकीर्तिस्तं पवित्रकीर्ति ब्रह्मादीनामप्यनतिक्रमणीयशासनं शिवं परममङ्गलं भवान् द्वेष्टीति अहो शिवेतरइति वाक्यान्तरं शिवेतरः पर्युदस्तमङ्गलः, अमङ्गल इति यावद् । अन्येऽप्यमङ्गलाः सन्ति, अयं पुनरपूवोऽमङ्गलइति दक्षं देवी निन्दति। न चैषामतत्परत्वम् , अभ्यासाद गतिसामान्याच्च, अभ्यासस्तावद्जामिलोपाख्याने
अयं हि कृतनिवेशो जन्मकोट्यंहसामपि । यद्व्याजहार विवशो नाम खस्त्ययनं हरेरिति, निर्वेशो भोगः, “निर्वेशो भृतिभोगयोरिति नैघण्टुकाः, स च प्रायश्चित्त उपचर्यते, भोगप्रायश्चित्तयोः कर्मनाशहेतुत्वाविशेषाद् अत्र विवश इति विवक्षितं, विवशस्य तु न श्रद्धाऽऽदयः सम्भवन्ति
एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणेत्येतजगाद चतुरक्षरमिति,
अघोनः अघवतः, एतेनैवेति श्रद्धाविरहः, यदा जगाद तदैवेति अनावृत्तिः, चतुरक्षरमिति च श्रद्धाऽनपेक्षा, अक्षरसमाहारस्यैव विवक्षितत्वात् , संख्याकथनस्य चाधिकमिदमित्यभिप्रायः, एवमस्मिन् प्रकरणे भूयानभ्यासः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #108
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
___ श्रद्धाऽऽदिमतः संकीर्तनेऽधिकार इत्यत्र विरोधं शङ्कते-न. न्वेवमिति । आवृत्त्यादिप्रतिपादकवाक्यानां विरोधं निरूपयतिश्रावृत्तिरपीति । तत्र हेतुः-सकृच्छदप्रयोगादिति । व्यस्तं = पृथपदम् । श्लोकस्य पदशस्तात्पर्यव्याख्यानं सुगमम् । न चैषामिति । सांकेत्यादिवाक्यानामतत्परत्वं श्रद्धाऽऽद्यनपेक्षत्वपरत्वमिति न च वाच्यम् अभ्यासादेकत्रैव ग्रन्थे पुनःपुनः श्रवणाद्, गतिसामान्याद्धि ग्रन्थान्तरे च गतिसामान्यादित्यर्थः । अभ्यासं प्रपञ्चयतिअभ्यासस्तावदिति । चतुरक्षरमित्यत्राक्षरग्रहणस्य तात्पर्यमाहचतुरतरमिति । चतुस्संख्यायास्तात्पर्यमाह-संख्येति । एकेन द्वयेन वा पापनिष्कृतिसंभवाश्चतुष्टयमधिकमिति भावः ।
नन्वेकस्माद्वाक्याद्यावानर्थोऽवगम्यते किं तावानेवान्यस्मादपि; उताधिकः ? यदि तावदधिकस्तर्हि नाभ्यासस्तस्यैव तत्र विधेयत्वाद, उक्तस्यैव पुनरुक्तिरभ्यासः। अथ तावानेव तथापि नतरामभ्यासः, भिद्यते हि तदा वाक्यार्थः; "एकस्यैवं पुनः श्रुतिरविशेषादनर्थकहि स्यादिति न्यायेन, “आनन्दमयोऽभ्यासादि"त्यत्र तु ब्रह्मणों दुर्भेदत्वाद् दुर्बोधत्वाच्च व्यतिरेकेणान्वयेन च पुनः पुनरुपादानं न विरुध्यते
"प्रसन्नव स भवति असद् ब्रह्मेति वेद चेद्
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरि"ति इह तुन तथेति, तद्युक्तम् इहापि विधेयस्यैकत्वेऽपि सुकरत्वेनाश्रद्धातिरस्कृतत्वाद्, “नीहारमिव भास्करः" "दहत्येधो यथाऽनलः” “यथा गदं वीर्यतममि" त्यादिभिरुदाहरणैरुपपत्तिभिश्च पुनः पुनः प्रतिपादनं न विरुध्यते, एवमभ्यासो निरवद्यः।गतिसामान्यं चस्कन्दोक्तो
अवशेनापि संकीर्त्य सकृयन्नाम मुच्यते । भयेभ्यः सर्वपापेभ्यस्तं नमाम्यहमच्युतम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #109
--------------------------------------------------------------------------
________________
प्रकाशसहिता
अवशेनापि यन्नाम्नि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहस्तैर्मृगैरिवेति ॥ श्रीनारदीये च
हरिरिति सकृदुचरितं दस्युछलेनापि यैर्मनुजैः । जननीमार्ग मुक्त्वा मम पदवीं निविशते मर्त्यः एवं सर्वत्र ।
॥
"
अभ्यासमाक्षिपति - नन्विति । एकस्यैवेति । एकश्य पुनः श्रुतिरेव भेदिका, श्रविशेषाद् = विधेयविशेषाभावात् किं ततस्तत्राहअनर्थकं हि स्याद्, यथा समिधो यजति तनूनपातं यजतीभ्यासत्यैकार्थतात्पर्य गमकत्वं दृश्यतेऽत श्राह - श्रानन्दमय इति । श्रसनेवेति व्यतिरेकः । श्रस्ति ब्रह्मेत्यन्वयः । इह तु न तथा, दुर्बोधत्वादित्यर्थः । तिरस्कृत्वादिति पञ्चम्यन्तं न विरुध्यत इत्यनेन संबध्यते । न केवलं - दुर्बोधत्वमभ्यासहेतुः किं तु सुकरत्वेनाश्रद्धेयत्वशङ्काऽपीति भावः । गतिसामान्यं निरूपयति-गतीति ।
င်စ
एतेषु कोऽधिकारी तत्रेति ? अत्रोच्यते - आसन्नमरणोऽधिकारी, विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्ति - मिति दर्शनाद्, यस्यावतारगुणकर्म विडम्बनानि नामानि येsसुविगमे विवशा गृणान्त । तेऽनेकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥
इति च, श्रीनारदीये
-
ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण | रजखलाम् । अश्नाति सुरया पक्कं मरणे हरिमुच्चरन् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
----
www.umaragyanbhandar.com
Page #110
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। मुच्यते पातकात्तस्मान्नात्र कार्या विचारणेति निर्धारणाच, युक्तं च तस्मिन्नवसरे श्रद्धादिनैरपेक्ष्यं नाम्न एंव सुदुर्लभत्वात् , तस्मान्न केन चित् किश्चिद्विरुध्यत इति सर्व सुस्थम् । एवं मध्यमश्रद्धानामधिकारिणां मनांसि समाधातुमुत्प्रेक्षते पन्थानमविरोधस्य । अन्य एव पुनः पन्थाः पारमार्थिकः, तथा हि स्मृतिपुराणविरोधे व्यवस्थादयो नैव निविशन्ते, विषमं हि प्रामा. ण्यमनयोः, वेदादवगतेऽर्थे पदान्तरैरुपनिवद्धानि महर्षिवाक्यानि खलु स्मृतयः; पुराणानि पुनर्वेदा एव श्रीमहाभारते मानवीये च
इतिहासपुराणभ्यां वेदं समुपद्व्हयेदिति
वचनात् , पूरणात्पुराणमिति व्युत्पत्तेश्च, न चात्रावेदेन वेदस्य बृंहणं संभवति, न ह्यपरिपूर्णस्य कनकवलयस्य त्रपुणा पूरणं संभवति।
ननु यदि वेदशब्दः पुराणमितिहासं चोपादत्त तर्हि पुराणमन्यदेवान्वेषणीयं; यदि तु न, न तर्हि इतिहासपुराणयोरभेदो वेदेन ? __ उच्यते-विशिष्टकार्थप्रतिपादकस्य पदकदम्बकस्यापौरुषेयत्वादभेदेऽपि स्वरक्रमभेदाद् भेदनिर्देशोऽप्युपपद्यते, अपि च साक्षादेव वेदशब्दः प्रयुक्तः पुराणेषु
"पुराणं पञ्चमो वेदः", "इतिहासपुराणं च पञ्चमो वेद उच्यते', "वेदानध्यापयामास महाभारतपञ्चमानि",
त्यादौ, अन्यथा पञ्चमत्वं च नावकल्पेत, समानजातीयनिवेशित्वात् संख्यायाः, ब्रह्मयज्ञाध्ययने च विनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #111
--------------------------------------------------------------------------
________________
प्रकाशसहिता योगोदृश्यतेऽमीषां यद् "ब्राह्मणानीतिहासान्पुराणानी." ति, मोऽपि नावेदत्वे संभवति, अत एवाह भगवान्
कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः!। व्यासरूपमहं कृत्वा संहरामि युगे युगइति
पूर्वसिद्धमेव पुराणं सुखग्रहणय संकल्पयामीति हि तस्यार्थः। मात्स्यं कौममित्यादि समाख्यास्तु प्रवचननिबन्धनाः; न तन्निर्माणनिबन्धनाः, काठकादिवद्,
आनुपूर्वीनिर्माणनिबन्धना वा, अत एव अतिपुराणविरोधे पुराणदौर्बल्यमानुपूर्वी भेदात्कदाचिदर्थोऽप्यन्यथा स्यादिति, स्मृतिपुराणविरोधे पुनः पुराणान्येव बलीयांसि।
अत इति । श्रद्धाद्यपेक्षाया असंभवाद् । एतेषु = सांकेत्यादिनि. बन्धेषु नामोच्चारणेषु कोऽधिकारीत्यर्थः। तत्र नामोच्चारणे। मध्यमाधिकारिणां मनःसमाधानाय परिहरति-अत्रोच्यत इति। वस्तुतः समाधानमाह-अन्य एवेति । तत्र के चन मन्दाः पुराणेषु स्मृत्यपेक्षमपकर्ष वदन्ति तानिराकर्तुं पुराणेष्वाधिक्यं संभावयति-तथा होति । आदिशब्देन विकल्पादि । तावता कथं वेदत्वं तत्राह-न चात्रेति । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यत्र वेदशब्दो नेति हासपुराणयोः संग्राहकस्तयोर्भेदनिर्देशादतो भेद एव वेदादेतयोरिति शङ्कते-ननु यदीति । ब्राह्मणपरिव्राजकन्यायमभिप्रेत्य समाधत्त-वि. शिष्टेति। स्वरेति। अनियतस्वरोचारणं पुराणानां स्वरभेदः, आनुपूर्वीभेदः क्रमभेदः । तदेतदुभयं प्रत्यक्षभेव । कथं तर्हि मात्स्यं कौममित्या. दिसमाख्यास्तत्राह-मात्स्यमिति । एवं हि पुराणेषु दृढकर्तृस्मरणमनुपपन्नम्, इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यस्य वेदार्थनि. र्णायकत्वाभिप्रायत्वात्, पुराणं पञ्चमो वेद इत्यस्य वेदवत्प्रामाण्यनिर्णयार्थत्वात्। पौरुषेयाणामपि धारयाऽनादिसिद्धत्वाद् ब्रह्मयज्ञविधिः विषयत्वोपपत्तेः पक्षान्तरमाह-आनुपूर्वीति । पूर्वोक्तेभ्य एव हेतुभ्यः पुराणबलीयस्त्वमाह-स्मृतीति । _ एवं समुल्लवितसकलशृङ्खलेषु यथास्वमेव स्वं स्वमर्थमभिधानेषु पुराणवचनेषु मनागपि क चिदेकमवकाशम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #112
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
लभमानानां स्मृतीनां यदि नाम विषय सर्व्वखापहारः प्रसज्ज्येत ? प्रसज्ज्यतां नाम, कथन्नु पुराणानामाञ्जस्यमुपमृद्य व्यवस्थापनप्रस्तावः, उक्तं हि नारदीयेवेदार्थादधिकं मन्ये पुराणार्थ वरानने ! | वेदः प्रतिष्ठित देवि पुराणे ! नात्र संशयः ॥ पुराणमन्यथा कृत्वा तिर्य्यग्योनिमवाप्नुयात् । सुदान्तोऽपि सुशान्तोऽपि न गतिं प्राप्नुयात्क चिदिति, स्कान्दे च
श्रुतिस्मृती हि नेत्रे द्वे पुराणं हृदयं स्मृतम् । श्रुतिस्मृतिभ्यां हीनोऽन्धः काणः स्यादेकया विना ॥ पुराणहीनाद् हृच्छून्यात्काणान्धावपि तौ वरौ । ननु न वयं व्यवस्थापयामः अपि तु पुराणवचनान्येव व्यवस्थापयन्ति तावत्कर्माणि कुर्व्वीतेत्येवमादीनि ? मैवं तेषां मुमुक्षुविषयत्वाद्, मुमुक्षौ च दशाभेदेन क्रियाभक्तिज्ञानानां समावेशो न विरुध्यत एव, यत्पुनर्नारदीयं वचनं—
"
६३
"यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती”ति; तस्यापि न विश्वासपरिमाणप्रभाव इत्यभिप्रायः " एतावानिति नैतस्य प्रभावः परिमीयते" इत्युत्तरार्द्धविरोधाद्,
अथ परिमाणान्तरनिराकरणार्थं तद्, एवमप्यर्थकप्रसज्येत, इतरपदार्थमहिनामपि खखपरिमाणातिरेकेण परिमाणान्तराभावात् तस्मादयमर्थः - निरङ्कश एव मन्त्रस्य प्रभावः, तथाऽपि यस्य यावान् विश्वासः सतावत्येव मन्त्रं विनियुङ्क्त इति तस्य तावदेव फलमिति ।
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #113
--------------------------------------------------------------------------
________________
६४
प्रकाशसहिता
अपि च किं कीर्त्तनादो प्रवृत्तिमात्र हेतुः श्रद्धा; किं वा कीर्त्तनादेः फलसाधनेऽन्तर्भवति ? तत्र यदि तावत्प्रवृत्तिमात्रहेतुस्तदन्तरेणापि श्रद्धां कीर्त्तनादौ प्रवृत्तस्य पापक्षयो भवेदेव तस्यैव निरपेक्षसाधनत्वाद्, अथ फलसाधनेऽन्तर्भवति तर्हि तस्याः शास्त्रेण वा साधनत्वंप्रमीयते प्रमाणान्तरेण वा ? तत्र यदा शास्त्रेण तदा श्रद्धासहकृतं कीर्त्तनं पावनमित्युच्यते, तत्र पृच्छामः सा सहकारिणी श्रद्धा कीर्त्तनमात्रमवलम्बते श्रद्धासहकृतं - वेति ? न तावत् कीर्त्तनमात्रं, तस्यासाधनत्वात् साधनविषयत्वाच्च श्रद्धायाः; साधनत्वे वा श्रद्धासहकारव्याघातः, अथ श्रद्धासहकृतं वेति, तत् किमात्मना सहकृतं श्रद्धाऽन्तरेण वा ? न तावदात्मना तस्यैव विषयत्वंविषयित्वं चेति व्याघाताद्, नापि श्रद्धाऽन्तरेण तत्रापि विकल्पापातात्, तदपि किं केवलमवलम्बते स्वसहकृतंश्रद्धाऽन्तरसहकृतं वेति, तत्राद्ययोरुक्तो दोष:, तृतीयेऽपि श्रद्धाऽन्तरं नाम किं प्रथमा श्रद्धा तृतीया वा ? न तावत्प्रथमा; अन्योन्याश्रयापाताद्, द्वितीयश्रद्धा निरूपणे हि तत्सहकृतालम्बना प्रथमा निरूप्यते प्रथमश्रद्धानिरुपणे च तत्सहकृतालम्बना द्वितीयेति, अथ तृतीया साऽपि यदि द्वितीया सहकृ तमालम्बते; श्रायातमन्योन्याश्रयत्वं, प्रथमासहकृतञ्चेत् चक्रकमापद्यते प्रथमासहकृतं तृतीयाऽऽलम्बते; तृतीया सहकृतं द्वितीया; द्वितीयासहकृतं प्रथमेति, चतुर्थादिसहकृतत्वेऽनवस्थापातः, तस्मान्न शास्त्रेण श्रद्धायाः सहकारित्वावगतिः संभवति । ननु कीर्त्तनस्य कारणत्वविषयिणी श्रद्धा; न पुष्कल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #114
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। कारणत्वविषयिणी, अतः कीर्तनमात्रविषयत्वेऽपि तस्या न सहकारित्वव्याघातः, तदयुक्तं, श्रद्धा हि साधनमिदं साध्यं न कदाचिद् व्यभिचरतीति प्रत्ययः स च पुष्कलकारण एवावकल्पते न कारणमात्रे तस्मादवोर एवायं दोषः। __ननु शास्त्रतः कीर्तनादेरेव पावनत्वं विश्वासस्य तु प्रमाणान्तरावसेयं सहकारित्वम्, सोऽपि शास्त्रावगतंकीर्तनमात्रादेरेव पावनत्वमवलम्बते, तत्र च नोक्तोदोषः। एवं तर्हि यस्मिन्नारोग्यादावन्वयव्यतिरेको दृश्येते विश्वासस्य तत्र सहकारित्वमस्तु; पापक्षयः पुनरतीन्द्रियत्वान्न श्रद्धाकिंचित्कारमपेक्षते । ___ स्मृतिपुराणयोः श्रुतिमूलत्वाविशेषेऽपीतिहासपुराणाभ्यामित्याद्यक्तवाक्यैर्वक्ष्यमाणैश्च वेदार्थादधिकं मन्यइत्याद्यैः पुराणेप्वाञ्जस्यभङ्गोन युक्त इत्याह-एवमिति । समुल्लखिताः सकलाः शृङ्खलाः प्रमोत्पत्तिप्रतिबन्धका दोषा यैस्तेषु वचनेषु सत्सु । क्रियाभक्तिशानानामिति । मुमुक्षुरविरक्तः कर्माणि कुर्याद्, ईषद्विरक्तः श्रीहरिभक्तिम्, अतिविरक्तस्तु ब्रह्मविचारमिति व्यवस्थाप्यते, न तु
तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायत
इति वचनात् श्रद्धावत्त्वमधिकारिविशेषणमिति व्यवस्थेति भावः । नारदीयवचनस्यापि नाधिकारिविशेषणं श्रद्धेत्यर्थ इत्याहयत् पुनरिति । विश्वासस्य परिमाणमिव परिमाणं यस्य स विश्वासपरिमाणः। प्रभाव इति श्लोकस्थसिद्धिशब्दव्याख्यानम् । शङ्कतेअथेति। तद्वचनम्, तत्किमनर्थकं वचनं? नेत्याह-तस्मादिति । प्रका. रान्तरेण श्रद्धाया अधिकारिविशेषणत्वं दूषयति-अपि चेति । तस्याः श्रद्धायाः। कीर्तनमात्रमिति । केवलं कीर्तनमित्यर्थः। साधनवा. दिति । श्रद्धायाः कीर्तनगतफलसाधनत्वान्तर्भावप्रतिज्ञानादिति भावः । केवलकीर्तनस्य फलसाधनत्वे श्रद्धासहकारः प्रतिक्षातो व्याहन्येत । अथेति। श्रद्धासहकृत कीर्तनं श्रद्धामवलम्बत इत्यर्थः। सहकतं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #115
--------------------------------------------------------------------------
________________
प्रकाशसहिता विशिष्टम्। व्याघाताद् आस्माश्रयात्। विकल्पापाताद् विकल्पदूषणात्। उक्तो दोष-इति । असाधनत्वादिति व्याघातादिति चक्रमेण पक्षद्वयनिराकरणम् । अन्योन्याश्रयादिति । तृतीयाया अनभिधानाच्छद्धाद्वये परस्पराश्रयत्वमिति भावः। तदाह-द्वितीयेति । द्वितीयं शङ्कते-तथेति । साऽपि द्वितीयासहकृतमालम्बते द्वितीया च तृतीयासहकृतमालम्बत. इत्यन्योन्याश्रयत्वम् । प्रथमासहकृतालम्बनत्त्वे चक्रकम् ।चतुर्थादिस. हकृतत्वालम्बनत्वेऽनवस्थेति भावः । उत्तरो ग्रन्थः स्पष्टार्थः।
ननु यद्यवगम्यते सहकारित्वमेकत्र श्रद्धायाः तर्हि शक्यत एवानुमानुमन्यत्रापि, तथा हि-पापक्षयः श्रद्धाऽऽदिसहित साधनवान् ; कर्मफलत्वाद्, प्रारोग्यादिवत् , तदयुक्तं कालात्ययापदिष्ट त्वाद्धेतोः, अवशेनेत्यादिशास्त्रविरोधात्, सोपाधिकत्वाच; मानान्तरयोग्यत्वं हि तत्रोपाधिः, तस्य च साधनोव्यापकत्वे सति साध्यव्यापक उपाधिरित्यस्मिन्नुदयननये युज्यत एवोपाधित्वं, साध्यसमव्याप्तिरिति तु मतान्तरे व्यापकानुपलब्धिलिङ्गकानुमानबाधएवेत्यलमतिप्रसङ्गेन । का तर्हि गतिः "श्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येदि" त्यादी.
नाम् ?
उच्यते-न तत्र श्रवणादिविधिवाक्यार्थविषयिणी श्रद्धा श्रवणादेः सहकारित्वेन विधीयते, किन्तर्हि ? तत्त्वमस्यादिवाक्यार्थविषयिणी, सा च न प्रतीचः परत्वे वाक्यार्थेऽन्तर्भवति; अपि तु प्रमाणेतिकर्तव्यतात्वेन बहिरेवावतिष्ठते, न च तत्रोक्तदोषप्रसङ्गः, "श्रद्धयाऽग्निः समिध्यत” इत्यादि तु प्रवृत्तिहेतोः श्रद्धायाः स्तावकप्र. त्तिं विना पुरुषार्थस्यैवासिद्धः।
ननु यदि प्रवृत्तिहेतुः श्रद्धा, आयातमधिकारिविशेपणत्वं श्रद्धायाः ? मैवम् , अशाब्दत्वात् । नन्वशाब्दमपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #116
--------------------------------------------------------------------------
________________
६७
श्रीभगवन्नामकौमुदी। सामर्थ्यवद् विद्वत्तावच्चाधिकारिविशेषणं भवत्येव शब्दापेक्षितत्वात, श्रद्धा च शब्दापेक्षिता भवति, असमर्थस्याविदुषोऽश्रद्धधानस्यानुष्ठानायोगाद्, अतोऽधिकारिविशेषणमेव श्रद्धेति, असार्वत्रिकमेतद्, यद्धि बहुलाङ्गंबहुधनसाध्यं वा बहुकालव्यापि वा स्वरूपेण वा दुष्करंकर्म तत्र न कश्चिदपि श्रद्धां विना प्रवर्तत इति भवत्यधिकारहेतुः श्रद्धा, यत्र पुनः सुकरे कीर्तनादौ प्रकारान्तरेणापि प्रवृत्तिः संभवति तत्रानुपपत्तेरभावाद् अश्रुतत्वाच्च नियमपरिकल्पनाऽयोगान्नवाधिकारहेतुः श्रद्धेति । भक्तरप्यधिकारिविशेषणत्वंन संभवति,सा हि श्रवणादिनवविधभजनलक्षणा भावलक्षणा वा? न तावद् भजनलक्षणा तस्यामेवाधिकारहेतोर्जिज्ञासितत्वाद, नापि भावलक्षणा; सा हि फलं निमित्तं वा ? तत्र यदि फलंकाम्यमानतयैव तस्या अधिकारिविशेषणत्वं न खरूपेण, तथा च सति भक्तिकामस्याधिकारः स्यान्न भक्तस्य, न चास्याप्यधिकारः, ब्रह्महादेहननादिजनितदोषनिरासार्थिनोऽधिकृतत्वाद्, न च भक्तिकामाधिकारे दोषनिरासोऽप्यन्तर्भवति, अक्षीणदोषस्य भक्तरनुदयाद्__ नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायतइतिवचनादिति वक्तव्यं, तस्य द्वारमात्रत्वेनानुद्देश्यत्वात्।
ननु तर्हि निमित्तं भक्तिः श्रवणादिविधेः तत्र च तस्याः पापक्षयकामनायाश्च संवलितयोरधिकारहेतुता जातेष्टाविव पुत्रजन्मनः तत्पूतत्वादिकामनायाश्च, इदमप्यसाधीयः, भक्तरेव श्रवणायनुष्ठानात्प्रागसिद्धः, यथोक्तं श्रीभागवते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #117
--------------------------------------------------------------------------
________________
प्रकाशसहिता शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ।। - नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥
अत एवेदमपि प्रत्युक्तं; यद् भावोदयादुपरितनानांपापानांभगवद्भजनं प्रायश्चित्तं, प्राचीनानांतुस्मार्तमिति, श्रवणादिधौतपापस्यैव भावोदयप्रतिपादनाद्, नष्टप्रायेति च नष्टानामप्यभद्राणां सत्सु कामादिषु पुनः पुनरुद्भवात् तन्निवृत्तेश्च भावैकसाध्यत्वात्
तदा रजस्तमोभावाः कामलोभादयश्च ये। चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदतीति वचनात् ।
ननु तर्हि नैष्ठिकी भक्तिरास्तां तस्याः श्रवणाद्यभ्यासपटिमसाध्यत्वात् प्रीतिमात्रं पुनः प्रागपि जन्मान्तरसंस्कारवशात्संभवतीति तस्यैवाधिकारहेतुतेति, तदसत्, प्रमाणाभावात्
सर्वात्मना विदधते खलु भावयोगत्यक्तान्यभावस्य हरिः परेशइत्यादि तत्र प्रमाणं तच्च नैष्ठिकीमेवावलम्बते,
अनुमानावष्टम्भेन शङ्कते-ननु यदीति। एकत्रारोग्यादौ। अन्यत्रापि पापक्षयेऽपि,। अवशेनापि यन्नाम्नीत्यादिश्रुतिबाधितमनुमानमित्याहकालेति । व्यापकं मानान्तरयोग्यत्वं तस्यानुपलब्धिरभावस्तलिङ्गका. नुमानबाधः । पापक्षयो न श्रद्धासाधनवान् ; तथाऽर्थे मानान्तरायोग्य त्वादिति । प्रतोचः परत्वे = परब्रह्माभेदे। भक्तरेधिकारिविशेषणत्वे दूषणभेदमाह-भक्तरिति। भावलक्षणा = भगवति निरतिशयप्रीति. लक्षणा । न च तस्येति । भक्तिकामस्येत्यर्थः । ब्रह्महादेनिरासार्थिनइति सामानाधिकरण्यम् । अधिकृतत्वादिति । रात्रिसत्रे प्रतिष्ठाया इव नामकीर्तने दोषक्षयस्यार्थगदावगतत्वादिति भावः । न वक्तव्यमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #118
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
६६
संबन्धः । श्रन्तर्भवन्तीति । कामनाविशेषणत्वेनेति भावः । तत्र हेतुः - अक्षीणेति । तत्र प्रमाणमाह- नराणामिति । न वक्तव्यमिति प्रतिज्ञायांहेतुमाह - तस्येति । दोषज्ञ यस्यैत्यर्थः । जातेष्टिवत्संवलिताधिकारतांशङ्कते - ननु तति । पुत्रे जात इति सप्तमीवद्भक्तेर्निमित्तत्वज्ञापकाभावान्न संवलिताधिकारतेत्याह - इदमपीति । दूषणान्तरमाह - भक्तेरिति । प्रकारान्तरेण पौराणस्मार्त्तयोर्व्यवस्थामाशङ्क्य परिहरतिश्रतएवेति । भावो भक्तिः श्रवणादीनि तत उदिते भावे श्रवणादिरूपे भगद्भजने प्रवृत्तिस्ततश्च भावोदय इति परस्पराश्रयत्वमिति भावः । उत्तरी चोद्यपरिहारौ स्पष्टौ ।
यत्तु यन्नामकीर्त्तनं भक्त्येति; तस्यापि न कीर्त्तनाङ्ग— भक्तिरित्यर्थः, गुणफलाधिकारो हि सः, स्वत एव पापक्षयसाधनं कीर्त्तनकम्मश्रित्य फलगतातिशयमुद्दिश्य भक्तविधानादनुत्तमं विलापनमिति; यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्यवन्तरं भवतीतिवत्, फलगतातिशयश्चात्र पापकारणानां रागादीनां निवृत्तिः रागादिनिवृत्तेभक्तिसाध्यत्वस्याभिधानात् " के चित्केवलया भक्त्या " इत्यत्रापि भजनक्रियैव भक्तिः; न भावः, तस्या एवाप्रकरणसमाप्तः प्रपञ्चनाद्, “वासुदेवपरायणा" इत्यत्रापि न भावः कैवल्यविरोधात् ।
ननु नामकीर्तनं भक्त्येतिवाक्याद्भतेरङ्गत्वं प्रतीयते ततश्चार्थादधिकारिविशेषणता भविष्यतीत्यत आह-यविति । कोऽसौ फलगतोऽतिशयस्तत्राह - फलगतेति । केनाभिधानं तत्राह — के चिदिति । किमत्र भक्तिशद्ववाच्यं तत्राह - श्रत्रापीति । श्रपिशद्वाद्यन्नामकीर्तनं भक्तयेति वाक्यसमुच्चयः । न भाव इति । ततश्च भावोदयादुपरितनानां पापानां - भगवद्भजनं प्रायश्चित्तं नाशङ्कनीयमिति । ननु वासुदेवपरायणा इत्यनेनास्मिन्नेव वाक्ये भावः प्रतीयते पापक्षयसाधनत्वेन तत्राह - वासुदे वेति । कैवल्येति । के चित्केवलया भक्त्येति कैवल्यविरोधादित्यर्थः । ननु समान वाक्योपात्तस्य भावस्य व्यवच्छेदायोगात् तदतिरिक्तसाधनव्यवच्छेद एव कैवल्यं नैवं, श्रुतिविरो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #119
--------------------------------------------------------------------------
________________
१००
प्रकाशसहिता
धिनो वाक्यस्य दुर्बलत्वात् श्रुतिरिह केवलया भक्त्येति तृतीया, वासुदेवपरायणा धुन्वन्त्यघमिति तु वाक्यम्, तो गर्भितोऽयं हेतुः यस्माद्वासुदेवपरापणास्तस्मात्सकलमधं धुन्वन्तीति सर्व्वानुस्यूतः सर्वाधारश्च देवः परमयनमाश्रयो येषां तेषां सर्वेश्वरसनाथानामुचितमेव सर्व्वाघविजयित्वमिति भावः । अपि च स्वरूपेण तदाश्रयत्वे मुख्योऽयं शब्दः, भावस्य तु तदालम्बनत्वे गौणः, तस्मान्न भावस्य कीर्त्तनाङ्गत्वे प्रमाणमिदम् । सकृन्मनः कृष्णपदारविन्दयो— निवेशितं तद्गुणरागि यैरिहे -
त्यत्रापि विषय सौन्दर्यादेव प्राप्तस्य रागस्मरणस्य सुकरत्वप्रतिपादनार्थमनुवादः ।
● एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्यथ यद्यमीषांस्यात्पातकं तदपि हन्त्युरुगायवादः । इत्यत्रापि पातकाभावादेव दण्डानर्हत्वं; तदभावश्च तत्कारणाभावाद्, अत एवोक्तमथ यद्यमीषां स्यात्पातकमिति । रागाद्यभावेऽपि यदि कथञ्चित्प्रमादात्पातकं - स्यादित्यर्थः; तदपि हन्त्युरुगायवाद इत्यपि न भावसहकृतं कीर्तनम् अपिशब्दाद न केवलं भावोदयात्प्राचीनमेव; अपि तूपरितनमपि पातकं हन्त्युरुगायस्य बहूभिधानस्यानन्तानन्दसुधासिन्धोर्बहुभिर्गायमानस्य वा सकलजगत्प्रशस्यपुण्यकीर्त्तेर्वादः कीर्त्तनं, भावस्तु विद्यमानोऽप्युदास्ते, अतितुच्छत्वात्पापनिवृत्तेरिति हि तस्यार्थः ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #120
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
ये देवसिद्धपरिगीत पवित्रगाथा - ये साधवः समदृशो भगवत्प्रपन्नाः । तान्नोपसीदत हरेर्गदयाऽभिगुप्तानैषां वयं त्वधिकृताः प्रभवाम दण्ड
१०१
इत्यस्याप्ययमेवार्थः, कथं ? ये समदृशः सर्वात्मभावेन भगवन्तं पश्यन्ति, अत एव साधवो रागादिदोषरहितास्तान्नोपसीदत तेषां समीपमपि मा यात, न ह्येषां - वयं स्वामिनः पापिनां हि निग्रहे वयमधिकृताः, न तेषां - पापगन्धोऽपि अथ कथञ्चित्स्यात् पातकं तथाऽपि वयंदण्डे न प्रभवामः भगवत्प्रपन्ना हि ते भगवत्प्रपदनेन कीर्त्तनादीनामन्यतमेन दास्यलक्षणेन वा भजनेनैव निरस्तपापा:, अत एव सकलजगत्प्रसिद्धां पापोत्पत्तिं प्रतिपद्यमानाः श्रुतिपुराण सिद्धान्त रहस्यगहनगर्भितां तु तन्निःसरणसरणिमविदुषां भवादृशां भ्रान्त्याऽपि कथंचिदुपगमनं स्यादिति हरेर्गदया सर्वतो गुप्तास्तान्नोपसीदतेति, अपि च देवानां मध्ये ये सिद्धा माहात्म्यविशेषसंपन्नाः पुरन्दरादयः तैः स्वतःपूतैरप्यतिशयेन पूतत्वाय परिगीता पवित्रभूता गाथा येषां लक्षणापेतमपि यन्नामाङ्कितं पद्यं वा प्राकृतभाषारचितं वा तेषां पूतत्वे कतमः सन्देह इति । " खपादमूलं भजत" इत्यत्र तु विविदिषावाक्यविनियुक्तात्कर्मणोऽन्यत्सर्वमेव मुक्तिविरुद्धं कर्म विकर्मशब्देनोच्यते न निषिद्धकर्ममात्रं तस्य कीर्त्तनादिमात्रान्निवृत्तेर्दर्शितत्वात्,
श्री पराशर संहितायामपि न चलतीत्यादिभिरुपलचितानां सततं मनसि जनार्दनं दधानानां पापहेतूनां -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #121
--------------------------------------------------------------------------
________________
प्रकाशसहिता
रागादीनामुच्छेदो विविक्षितः पापक्षयः पुनः कीर्त्तन
मात्रात्
१०२
कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ! भव शरणमितीरयन्ति ये वै त्यज भट ! दूरतरेण तानपापानिति
वचनाद्; भक्तानां नरकपातस्यानाशङ्कनीयत्वादेव न तदर्थमयमारम्भः अपि तु तत्रत्यासन्नजनवर्जनार्थ, - यदाह - " व्रज तान् विहाय दूरात्" " त्यज भट दूरतरेण तानपापान्" "ब्रज भट दूरतरेण मानवानामि" ति च, अतएवोपक्रमेऽपि "परिहर मधुसूदनप्रपन्नान् ” दूरत इति व्याख्येयं न च स्तुतिमात्रत्वमेषाम्, उपपत्तिमत्त्वात्, तथा हि
सकलमिदमहञ्च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान् विहाय दूरादित्यस्या - नन्ते श्रवणादिभिरावर्जिते हृदयगते सति तत्प्रसादादेवाहमिदमिति भोक्तृभोग्यरूपं सकलं जगद्वासुदेवोमाययाच्छन्नचित्प्रकाश एव न तस्मादतिरिच्यते, स हि परमपुमान् पुरुषस्य निरुपाधिकं स्वरूपं परमेश्वरश्व सर्व्वाधिष्ठानं स एकः खरूपेण, एवं सजातीयविजातीयस्वगतभेदविरहान्नितान्त निर्भेदं भगवत्तत्त्वमिति मतिरचला भवति येषां तान् दूराद्विहाय व्रज भट; तदवलोकनपरिपवित्रिता हि प्राणिनो नैवास्मद्गोचरे वर्त्तन्त -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #122
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
१०३
इत्यर्थः । एतदेव स्पष्टीकृतं; पुरुषवरस्य चैतस्य दृष्टिपाते न तव गतिरथ वा ममास्तीति, महद्दर्शनस्य च पावनत्वंप्रसिद्धमेव
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवइत्यादौ ।
शङ्कते - नन्विति । समानवाक्योपात्तस्येति । केचित्केवलया भक्तया वसुदेवपरायणा इत्यत्र कैवल्यं वासुदेवपरायणशद्वोक्तभावव्याव र्त्तकत्वं न सहते तद्विरोधादित्यर्थः । तदतिरिक्तं साधनं स्मार्तं प्रायश्चितम् । श्रतो वासुदेवे भावुकानां केवलं भगवद्भजनं पापक्षयसाधनमिति वाक्यार्थः । केवलयेति श्रुत्या कीर्त्तनादिरूपाया भक्तेरविशेषतोऽन्यनिरपेक्षत्वं प्रतीयते, वासुदेवपरायणा इति वाक्येन भावुकानामिति संकोचः क्रियते, न च श्रुतिविरोधे वाक्यं प्रवर्त्तत इति समाधत्तेमैवमिति । तर्हि वासुदेवपरायणा इत्यनर्थकं ? नेत्याह - श्रत इति । वासुदेव पदार्थमाह- सर्वेति । परायणशद्वार्थमाह - परमिति । तात्पर्यार्थमाह - सर्वेश्वरेति । भाव इति । वासुदेवपरायणा इत्यस्य तात्पर्यवासुदेवपरायणशद्वशक्यो न । दूषणान्तरमाह - श्रपि चेति । ननु सकृन्मन इत्यादिवाक्ये गुणरागिशद्वेन भावः पापक्षयसाधनत्वेन प्रतीयते तत्राह - सकृदिति । विषयः परमात्मा । तत्सौन्दर्य्यादेव प्राप्तरागस्य पुरुषस्य स्मरणसौकर्यप्रतिपादनार्थमित्यर्थः । नन्वेवं विक्रश्येत्यादिवाक्ये स्पष्टं भावयुक्तानां पुंसां पापक्षयसाधनं कीर्त्तनं प्रतीयते तत्राहएवमिति । उरुगायशद्वार्थमाह - बहुभिधानस्येति । श्रनन्तानन्देति तात्पर्यार्थः । पापान्निःसरणमार्गमविदुषां भवादृशां दूतानाम् । गाथाशद्वार्थमाह-लक्षणेति ।
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यश्चोत्पतितं कथं चिद्धनोति सर्वं हृदि सन्निविष्ट - इति श्लोके भावुकस्य पुंसो विकर्मपदवाच्यनिषिद्ध निवृत्तिप्रतिपादनान कीर्त्तनमात्रात्पापनिवृत्तिरतश्राह - स्वपादेति । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विविदि वाघाक्यम् । मुक्तिविरुद्धं काम्यमित्यर्थः । दधानानां पुंसाम् ननु भक्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #123
--------------------------------------------------------------------------
________________
१०४
प्रकाशसहिता नामुपक्रमात्कथं तेषां नरकपातशङ्का ? अत पाह-भक्तानामिति। दूरतरे. णेति तरपशवप्रयोगाद्विष्णुभक्तप्रत्यासन्नजनवर्जनार्थमयमारम्भ इति भावः।
दर्शनं चात्र तत्कर्तृकं तत्कर्मकं वा, उभयस्यापि पावनत्वाविशेषाद्, "व्रज भट दूरतरेण तानपापानि". त्यपि न स्तुतिपरं, कमलनयनकीर्तनध्वनिर्हि सर्वतो विसारी कुड्यादिव्यवधानेऽपि वेधकश्च, अतस्तदन्तराले वर्तमानानामन्धबधिराणामपि सर्वेषामनङ्गुलिप्रेक्षणी• यत्वात् तान् दूरतरेण व्रजेत्युपपन्न एव तरबर्थः, अपापानिति च न खगतपापाभावो विवक्षितः किन्तु परगतपापनिषेधकत्वं प्रयोजनवशा
यमनियमविधूतकल्मषाणामनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणांव्रज भट ! दूरतरेण मानवाना
मित्यत्रापि नियमे स्वाध्यायस्यान्तर्भावात् तस्य च परदेवताप्रकाशकमन्त्रोच्चारणात्मकत्वाद् भत्त्यावेशवशादुच्चैरुच्चारणस्यापि संभवशद् विवक्षितएव तरबर्थः । उत्तमभागवतास्तु दुर्लभदर्शनास्तेषां हि बहिर्विरलः प्रचारः प्रचरन्तोऽप्यनुपासितशरीरतया न सर्वैरुपलभ्यन्ते तेषामपि युगमात्रावलोकिनां कथं चित्कश्चिल्लोचनगोचरमवतरतीति दूरादित्युक्तम्,
यस्य देवे च मन्त्रे च गुरौ च त्रिषु निश्चला। न व्यवच्छिद्यते भक्तिस्तस्य सिद्धिर्न दरतइत्यादौ तुसिद्धिरपवर्गादिलक्षणा; न पापक्षयलक्षणा, वचनान्तरानुरोधात् , तस्मात्केवलं कीर्तनादि पापक्षय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #124
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
१०५ हेतुः, न तत्र भक्तिरङ्गम् अधिकारिविशेषणं वा, अभिधेयज्ञानमपि नाङ्गं प्रमाणाभावादेव । प्रसङ्गान्महद्दर्शनमाहात्म्यं निरूपयति-दर्शनं चेति । ननु ब्रज भट दूर. तरेण तानपापानित्यर्थवाद एव किं न स्यादत पाह-व्रज भटेति । तद. न्तराल इति । यावति देशे नामकीर्तनध्वनिस्तदन्तराल इति । अनलिप्रेक्षणीयत्वादिति । येष्वङ्गुलिरपि दर्शयितुं न शक्यते तावतैवेश्वरनिगृहीतत्वात्तेषामानयनं दूगपास्तमिति भावः। परगतेति। स्वसन्निहि. तगतपापनिवर्सकमित्यर्थः। नियम इति ।
तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् । संध्योपासनमुख्वाश्च नियमाः परिकीर्तिताः॥
इत्यत्रोक्ता इत्यर्थः । कथं तर्हि सकलमिदमहं च वासुदेव इत्यादिश्लोके नतरप्संकीर्तनं? तत्राह-उत्तमभागवतास्त्विति । परमप्रकृतमुपसंहरति-तस्मादिति। नन्वभिधेयपरमेश्वरज्ञानं कीर्तनाङ्गं स्यान्नेत्याहअभिधेयेति ।
नदर्शितं प्रमाणं; सत्यं दर्शितं न तु तदङ्गत्वे प्रमाणं, "यव्याजहारविवशो,” "हरिरित्यवशेनाह” “सांकेत्यं पारिहास्यं वा” "हरिरवशाभिहितोऽप्यघौघनाशः" "अवशेनापि यन्नाग्नि कीर्त्तिते” “हरिरिति सकदुच्चरितं दस्युछलेनापि यैर्मनुजैः” इत्यादिबहुतरप्रमाणविरोधाद्, न चैतेषामतत्परत्वम्, अभ्यासगतिसामान्याभ्यामित्यवादिष्म । नन्वपिशद्वयोंगादेषामतत्परत्वंमैवं, भागासिद्ध त्वाद्वेतोः, “यद् व्याजहार विवशोइत्यादावदर्शनाद् ।
ननु तत्राप्यध्याहार्योऽपिशद्धः; तदर्थस्य विवक्षित स्वाद, अन्यथा ज्ञानपूर्वककीर्तनस्यापावनत्वप्रसङ्गात् ? तदयुक्तं, न हि श्रुतबाधायाध्याहरन्ति, अपि तु श्रुतो. पपत्तये, एवं च सिद्धमेवावशात् कीर्तनस्य पावनत्वम् । अपि च; अपिशवयोगे तदपि स्याद्, न तु तदेवेत्येतावद्, न पुनस्तन्न भवत्येव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #125
--------------------------------------------------------------------------
________________
१०६
प्रकाशसहिता ___नन्वपिशद्वयोगे तात्पर्यमन्यत्र स्याद् अतात्ययविषये बाधकाभावसव्यपेक्षमेव प्रामाण्यम्, एषां च बाधकस्य विद्यमानत्वान्न प्रामाण्यमिति ? इदमसाधु । ज्ञानाख्यगुणविधायकं हि तस्य बाधकं न च यतस्तद्विषया मतिरित्यादेविधायकत्वम् , उपपत्त्यर्थवादो ह्यसौ सर्वानर्थनिबर्हणी ब्रह्मविद्यामुत्पादयतः पापनिहरणे कियान् प्रयास इति, "नाम स्वस्त्ययनं हरे" रिति खस्तिशद्धन मोक्षोऽभिधीयते, स्वस्तीत्यविनाशिनामेति नैरुक्ताः, मोक्षसाधनत्वं च न विधीयते पदार्थशक्तरविधेयत्वात् , किन्तु सिद्धमेव सङ्कीर्त्यते श्रुतसाध्यत्वोपपत्यर्थ, तद्वदत्रापि । ___ दर्शितं कीर्तनकर्तव्यताबोधकं प्रमाणं; तन्न प्रमाणमिति शङ्कतेनन्विति । अभिधेयज्ञानस्याङ्गत्वे न प्रमाणमिति परिहरति-सत्यमिति । तत्र तत्र विवशत्वसंकीर्तनादिति भावः । अतत्परत्वं-विवशत्वपरत्व. भावः । प्रतिज्ञातार्थे हेतुमाह-अभ्यासेति। अभ्यास एकत्र पुराण श्रावृत्तिः । गतिसामान्यमनेकपुराणप्रतिपन्नत्वम् । अपिशब्दादिति । अ. वशेनापि दस्युच्छलेनापीति । एषां वाक्यानां भागासिद्धिमेवाहयदिति । तदर्थस्य = अपिशब्दार्थस्य । विवशेनापि संकीर्तनं पावनंकिमुत ज्ञानपूर्वकमित्यस्येत्यर्थः। अत्र हि विवशत्वेन नामकीर्तनस्य पावनत्वं श्रुतं; तस्य न बाधोऽपिशब्देनेत्युपसंहरति एवं चेति। तदपि स्थादित्यर्थः । न तु तदेवेति । एकमेवेत्यर्थः । एतावदित्यपिशब्दाद्विव. तितमिति, ततश्च विवशत्वेन ज्ञानपूर्वकं च नामकीर्तनं पावनमिति भावः। न पुनस्तदिति । तच्छूयमाणं न भवत्येवेत्यपि विवक्षितं नेति भावः। शङ्कते-नन्विति। अन्यत्रेति । विवशत्वादिति शेषः। तदेवोपपादयति-तात्पर्येति । बाधकाभःवेन दूषयति-ज्ञानेति। उपपत्त्यर्थवा. दत्वमेवाह-सर्वेति । नामकीर्तनस्येति शेषः। ननु सर्वानर्शनिबर्हण. ब्रम्हविद्योत्पादकत्वे किं मानं? तत्राह-नामेति। किमत्र मोक्षसाधनत्वे विधिनेत्याह-मोक्षेति । श्रुतं पापक्षयसाधनत्वं तदुपपत्तय इत्यर्थः । अत्रापि = यतस्तद्विषयामतिरित्यत्रापि, न विधिरित्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #126
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
१०७ नन्वर्थवादाविधिः श्रेयान् , तत्र श्रेयान् यत्र गुणवादः प्रसज्येत, इह पुनरर्थवादत्वेऽपि यथार्थवाद एवेति नायं न्यायः, अपि च बहुतराणां खरसत एव प्रतीयमानंप्रमाणान्तरैरविरुद्धमनधिगतमुपयुक्तमर्थमनुवाद्य; द्वित्राणांवा विधित्वं कल्प्यतां सर्वेषां च स्वं स्वमर्थमजहतामर्थवादत्वमिति मीमांसायामपङ्क्तिभेद एव श्रेयान् , अपि च कैमुत्यविवक्षायां दृष्टान्ता नोपपद्यन्ते
अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् । संकीर्तितमघं पुंसां दहत्येधो यथाऽनलः ।। यथाऽगदं वीर्यतममुपयुक्तं यदृच्छया। अजानतोऽप्यात्मगुणान् कुय्योन्मन्त्रोऽप्युदाहृतः॥ हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकइत्यादयः, साध्यवैकल्पाद्, न हि तेषु कैमुत्यमस्ति; अपितु ज्ञानाज्ञानयोः साधारण एव साधनभावः, अपि च
"नारायणेत्येतजगाद चतुरक्षरं" "हरिरित्यक्षरद्वयमि"ति वदन् शब्द एव विवक्षितोनार्थानुसंधानमित्यभिसंधत्त, अन्यच्च " यतस्तद्विषया मतिरि" त्यादौ न विधिः कल्पयितुं शक्यते, साधिकारं हीदं वाक्यं, न च साधिकारे वाक्ये गुणविधिमनुमन्यन्तेन्यायविदः, वैरूप्यंहि तदा प्रसज्येत, प्रवृत्तिरपि स्वविषयज्ञानापेक्षिणी न पुनर्नामिज्ञानापेक्षिणी, तस्मान्नज्ञानमङ्ग कीर्तनस्य,नाप्यधिकारहेतुः । यदप्युक्तम्-अनुतप्ताननुतप्तभेदेन सकृत् कृतमावर्तितं च कीर्तनं व्यवस्थितमिति; तदपि नातीवाभिप्रेतं, तथा हि-विधाद्वयमप्येतत् किं विधिसामर्थ्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #127
--------------------------------------------------------------------------
________________
१०८
प्रकाशसहिता
न्निवर्त्तकं पातकस्य; किं वा खसामर्थ्यात् ? तत्र यदि विधिसामर्थ्यात् तर्हि भवितव्यमुभयत्राप्यनुतापेन, अनुतप्ताएव हि प्रायश्चित्तविधावधिक्रियन्ते, यदि स्वसामर्थ्यात् तर्हि न कुत्रचिदनुतापोपयोगः, न खलु पदार्थस्वभावः पुरुषगतां योग्यतामपेक्षते, न हि तपनस्तपस्विनयनाङ्गनगतामेव तमस्तमालण्डलीमुन्मूलयति न तु चाण्डालचक्षुश्चत्वरवर्त्तमानामित्यस्ति नियमः, अपि चेह स्वमहिम्नैव पावनत्वमुचितं न तु विधिसामर्थ्याद्, विधेर्हि विधाद्वयं लिङादियुक्तं वाक्यं; लिङाद्यर्थश्च तत्र प्रथमोविधिः प्रमाणमेव, प्रमाणं च प्रमेये न कथं चिदविद्यमानं महिमानमुत्पादयति, अपि तु यथाऽवस्थितमेव वस्तुतत्त्वमनवगतमवगमयत्येव, उक्तं हि मीमांसाभाष्यकृद्भिः " उपायं तु न वेद तस्योपायः कथनीय" इति, नैष्कर्म्यसिद्धिकारैरपि
"उपायान् प्राप्तिहानार्थान् शास्त्रं भासयतेऽर्कवदि”ति, द्वितीयः पुनः फलसाधनत्वमेव न तस्य पुनः साधनाधीनसाधनत्वं, तस्मात्स्वमिहम्नैव पावनत्वं स्वमहिम्नैव चेदमंहसां निवर्त्तकं कीर्त्तनमावृत्तेरुच्चाटन मन्त्रो जप्त एव श्रद्धाऽऽदीनामपि न हि मिहिरस्तिमिरं विहन्तुमुदयमावर्त्तयति श्रद्धाऽऽदिकं वाऽपेक्षते, न च मन्तव्यमावृत्तस्यैव तादृशः प्रभावः न तु सकृत्कृतस्येति ? सकृत्कृतस्पापि पावनत्वप्रतिपादकानां वचनानामनेकेषां दर्शितत्वाद् । न च तेषामवयवानुवादानां द्वादशकपालप्रशंसार्थतावदावृत्तिगुणयुक्तकीर्त्तनप्रशंसार्थतेति वाच्यं खार्थे प्रामाण्यस्य प्रबन्धेन प्रतिपादितत्वात् तस्माद् व्यवस्थैव परं परिशिष्यते सा च न संभवतीत्यभिहितमेव ।
"
,
द्वित्राणामिति । यतस्तद्विषया मतिरित्यादांना मित्यर्थः । मोमांसायां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #128
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
१०६ संदेहे । अपक्तिभेद-इति । अवैषम्यमित्यर्थः। कैमुत्येति । अज्ञानादपि नामकोर्त्तने पापक्षयो भवति किमुत ज्ञानपूर्वक इति विवक्षायामित्यर्थः। अगदमोषधम् । साध्यवैकल्यमेवाह-न होति । साधिकारमिति ।
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरितिवाक्ये नामोच्चारणस्य पापक्षयफलसंबन्धात्मकोऽधिकारः प्रतिपाद्यत इत्यर्थः। तावताकि ? तत्राह-नचेति।वैरूप्यमिति। पापक्षयोद्देशेन नामोच्चारणं विधीयते, तदुद्देशेन चाभिधेयज्ञानात्मकगुणविधाममित्ये. कस्य नामोच्चारणस्योपादेयत्वोद्देश्यत्वविधेयत्वानुवाद्यत्वगुणत्वप्रधा. नत्वमिति विरुद्धत्रिकद्वयापत्तिरित्यर्थः। श्रभिधेयज्ञानाभावे कथं नामोचारणे प्रवृत्तिः? तत्राह प्रवृत्तिरपोति । स्वविषयो नामोच्चारणम् । नामीपरमात्मा । नाप्यधिकारेति । अभिधेयज्ञानवानधिकारीत्यपि नेत्यर्थः। मानाभावादेवेति भावः । विधाद्वयमिति । अनुतप्ताननुतप्तकृतं नामकी. निमित्यर्थः । इह = नामोच्चारणे । प्राप्तिरिष्टस्य हानमनिष्टस्य तदर्थानित्यर्थः। द्वितोयो = लिङाद्यर्थः। पावनत्वं पापक्षयसाधनत्वं, ततश्चा. त्माश्रयनेत्यर्थः। स्वमहिम्नेति । नामकीर्तनमहिनेत्यर्थः। फलितमाहस्वमहिम्नैवेति । अंहसां पापानाम् । उच्चाटनमभावः । अतएव श्रद्धाऽऽ. दीनामप्युच्चाटनमित्यनुषङ्गः। मिहिरः सूर्यः । अवयवानुवादानामिति । "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेनपुनातो"त्यादीनां "वैश्वा. नरं द्वादशकपालं निर्वपेदि"त्येतद्विधिविहितयागार्थवादत्वं यथा; तथेत्यर्थः। प्रबन्धेन = विस्तरेण । अनुतप्तस्य सकृन्नामोच्चारणमितरस्यासकृदिति ब्यवस्था ।
ननु तर्हि कथमनुतापमावृत्तिं चाभिदधद्वाक्यजातंव्याख्येयम् ? व्याख्यायते-कृते पापेऽनुताप इत्यस्य तावत्पापक्षयसाधनं कीर्तनमित्येतावानेवार्थः, तथा हि-प्रायश्चित्तशब्दस्तावत्कीर्तने न मुख्यः, ___ "प्रायो नाम तपः प्रोक्तं चित्तं निश्चयउच्यत" इति व्याख्यानाद्, न च कीर्तनं तयोरन्यतरदुभयं वा, अतोगौणोऽयं, यथा प्रायश्चित्तं हितसाधनं; तथेदमपि, हितं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #129
--------------------------------------------------------------------------
________________
११०
प्रकाशसहिता
"
च द्विविधं सुखप्रासिरनर्थपरिहारश्च तत्राप्यनर्थपरिहारलक्षणं हितं विध्यपेक्षितत्वं समर्पयति,
"कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इति
यो हि यस्मादनुतप्तस्तस्य तन्निवृतिरेव हितं ततश्च पापादनुतप्तस्य कीर्त्तनं हितसाधनमित्युक्ते पापक्षयसाधनमित्युक्तं भवति, परशब्दश्च केवलशब्द पर्य्यायः, कीर्त्तनमेव पुष्कलं साधनमित्यर्थः । एकमिति सकृदितिच हरिकीर्तनस्य सर्वस्यैव स्मारकत्वात् संस्मरणमित्यनुवाद:, स च प्ररोचनफलः; समीचीनं ह्येतदिति, स्वर्गकामादिपदमपि समीहितलक्षणस्य विधेः प्रथमापेक्षितसमीहित विशेषण समर्पण परमेव न पुरुषपरम्, अर्थतस्तु स्वर्गकामोऽधिकारीति मीमांसाहृदयवेदिनांनिर्णयः ।
नविहापि तर्ह्यनुतप्तस्याधिकारः प्राप्त एव ? मैवम्, अत्यन्त सुकरत्वेनान्यथाऽपि प्रवृत्तिसंभवाद्, अशाब्दत्वादेव च फलकामनायाः प्रकारान्तरेणापि प्रवृत्तस्य पापक्षयो भवेदेव |
नन्वेवं तर्ह्यस्वर्गकामस्यापि यागादौ प्रवृत्तस्य स्वर्ग: किं न स्यात् ? को वा ब्रूते प्रवृत्तस्य न स्यादिति ? किन्तु प्रवृत्तिरेव तस्मिन् फलकामनामन्तरेण न संभाव्यते; दुर्भरगरिमत्वात्, कौतूहलादिकमपि न सकलाङ्गकलापव्यापिनीं प्रवृत्तिमुत्पादयितुमलम्, अतस्तत्कामस्यैव तत्राधिकारः, इह पुनः फलाभिसंधिमन्तरेणापि स्वभावसुभगतया सुकरतया च सुलभा प्रवृत्तिरिति सर्वस्यैवाविकलवागिन्द्रियस्याधिकारः, अत एव सुकरेषु कर्मसु फलकामनां विनाऽपि प्रवृत्तिः संभवति, प्रवृत्तस्य च
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #130
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
फलसिद्धेरनिवार्यत्वात्, तस्वाश्च संसारहेतुभावाद् मुमुक्षोः काम्यकर्मत्यागं समादिशद्भगवान्
“काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरि” ति, तस्मादनुताप नाधिकारे हेतुः ; नाप्यङ्गं कीर्त्तनस्य; श्रवशेनेत्यादिप्रमाणविरोधात्, कृष्णानुस्मरणं परमित्यनापि परमुत्कृष्टं प्रायश्चित्तमत्यन्तशुद्धिसाधनमावृत्तिगुणकं कृष्णकीर्त्तनमिति विवक्षितम्, अत्यन्तशुद्धिश्व सह वासनाभिः पापानां परिक्षय इति प्रपञ्चितमेव, ततश्च भविष्यद्भिः पापैरनुपश्लेषः फलमावृत्तेः कीर्त्तनमात्रस्य पुनः प्राचीन पापक्षय इत्युक्तं भवति, अत एवोक्तमुत्तरश्लोकेन " कृते पापेऽनुतापो वै यस्ये” ति, अन्यथा हि सामान्येन पापादनुतापो यस्येत्यवदिष्यद् । एवं सर्व्वत्रावृत्तानावृत्तकीर्त्तनविषयाणि वचनानि व्याख्येयानि । अत्रावृत्तिविषयाणि तावद् -
नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्द्धावति चेदसत्पथे । तत्कर्मनिहरमभीप्सतो हरेगुणानुवादः खलु सत्त्वभावनइत्यत्रावृत्तस्व भगवत्कीर्त्तनस्यात्यन्तशुद्धिहेतुत्वं
स्पष्टमेव ।
वक्षिता ।
१११
नातः परं कर्मनिबन्धकृन्तनंमुमुक्षतां तीर्थपदानुकीर्त्तनादित्यत्रापि मुमुक्षूणामधिकृतत्वादत्यन्तशुद्धिरेव वि
·
Shree Sudharmaswami Gyanbhandar-Umara, Surat
किंकरा दण्डपाशौ वा नियमो न च यातनाः
www.umaragyanbhandar.com
Page #131
--------------------------------------------------------------------------
________________
११२
प्रकाशसहिता समर्थास्तस्य यस्यात्मा केवलालम्बनः सदेत्यत्रापि यस्यात्मा केवलालम्बनस्तस्य सदा न समर्थाइत्यन्वयः, वचनान्तरानुरोधाद्,
गोमूत्रयावकाहारो ब्रह्महा मासिकैर्जपै
रित्यदावपि मोक्षसाधनत्वादष्टाक्षरब्रह्मविद्यायाः, मोक्षस्य च परमशुद्धिरेव विवक्षिता न पापक्षयमात्रं, ततश्च तत्तदावृत्तिविशेषात्तत्तत्पापवासनाविनिवृत्तिस्ततश्च पुष्कलशुद्धिरिति । अथ वा सकृत्कीर्तनादेव प्रक्षीणेऽपि पापे कस्य चिदश्रद्धारोपितमपूतत्वमात्मनि मन्यमानस्य तन्निबन्धनं दुःखं न निवर्त्तते; तस्य तदारम्भकपातकप्रध्वंसायावृत्तिविशेषयुक्तं मन्त्राध्ययनं विधीयते, प्रारब्धपरिक्षये च युक्तमेवावृत्त्यपेक्षणम् , अारोग्यादिषु तथादर्शनात् ।
ननु यथोक्तावृत्तिविहीनाभ्यामपि श्रवणकीर्तनाभ्यां प्रारब्धपरिक्षयोऽपि श्रीस्कन्दपुराणनरसिंहपुराणयोदृश्यते ? सत्यं, तत्त श्रीमत्पञ्चाक्षरनारदादिमहापुरुषानुग्रहसहचारितयेति निश्चीयते; तस्मादावृत्तिविधीनामन्यार्थत्वादप्रारब्धप्राचीनपापक्षये सकृत्कीर्तनमेव साधनमिति निरपवादम्, अत्र वचनानि सन्त्यनन्तानि, तथा हि
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रतीति,
परिकरबन्धश्चात्र प्रक्षीणपापत्वमेव, तत् खलु प्रथम सोपानमपवर्गप्रासादारोहणस्य, तथा । हत्याऽयुतं पानसहस्रमुग्रं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #132
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। गुङ्गनाकोटिनिषेवणं च । स्तेयान्यसंख्यानि हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यइत्यत्रापि सद्यस्तदानीमेवेत्यावृत्तिनैरपेक्ष्यं दर्शयति, प्रातर्निशि तथा संध्यामध्यान्हादिषु संस्मरन् । नारायणमवाप्नोति
सद्यः पापक्षयं नरइत्यत्रापि सद्य इत्युपजीव्यते, नरमात्रस्याधिकृतत्वाद् विश्वासादिनिरपेक्षता, प्रातरादीनां च विकल्पो; न तु समुच्चयः, सद्यस्त्वव्या वातात्, ततश्च कालविशेषोनादरणीय इत्यर्थः।
ननु कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इत्यादिवाक्यादनुतप्तस्य सकृन्नामोच्चारणेऽधिकारःप्रतीयते ? तत्राह-कृतइति । तयोरिति। तपोनिश्चययोरित्यर्थः। उभयं वा; न चेत्यनुषङ्गः। ततःकिप्रकृते ? तत्राह-तत्रेति। विध्यपेक्षितमिति । विधेः पुरुषार्थपर्यवसायि. स्वादितिभावः। कथमनेन हितविशेषः समय॑ते ? अताह-यो होति। परशब्दार्थमाह-परेति । एकशब्दार्थमाह-एकमिति । नन्वत्र स्मरणस्य फलसंबन्धःयतेन कीर्तनस्य ? तत्राह-हरीति। किमर्थोऽनुवादः? तत्राह-सचेति । प्ररोचना प्राशस्त्यज्ञानं फलं यस्य सः। प्ररोचना. मेवाह-समीचीनमिति । एतत्कीर्तनं संसारनिवर्तकं हरिस्मरणफलक. स्वादिति भावः । तदेवं कृते पापेऽनुतापोवै इत्यादिकं नानुतप्ताधिकारि. समर्पकं किं तु पापक्षयफलपरं, तत्र दृष्टान्तमाह-स्वर्गेति । कथं तर्हि स्वर्गकामाधिकारित्वसिद्धिः ? तत्राह-अर्थतस्त्विति। प्राप्त एवेतिअर्थतइति भावः। अन्यथा प्रवृत्तावपि पापक्षयो न भवेदत पाह-प्रशा. द्वत्वादेवेति।प्रकारान्तरं सांकेत्यपरिहासादि। नन्वित्यादिशङ्कापरिहारौ प्रौढिवादेन, अर्थात्स्वर्गकामाधिकारिसिद्धः । इह पुनरित्यादिकमपि प्रौढिवादो ज्ञानादथ वाऽज्ञानादित्यादिवचनादेव सर्वाधिकारसिद्धः, किं तु सांकेत्यपरिहासादिकृतनामकीर्तनेऽपि पापक्षयं कत्तुं प्रवृत्ति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
___www.umaragyanbhandar.com
Page #133
--------------------------------------------------------------------------
________________
११४
प्रकाश सहिता
संभव एवोच्यते श्रत एवेत्यादिरपि प्रौढिवादः, सुकरासुकरसाधारणकाम्यकर्मत्यागस्य भगवतोपदिष्टत्वात् । प्रायश्चित्तान्यशेषाणीति वाक्यंनामावृत्तिपरत्वेन व्याचष्टे - कृष्णेति । उत्तरश्लोके कृत इत्युपजीव्यम् । सदापदस्य व्यवधानेन संबन्धमाह - यस्यात्मेति । वचनान्तरेति । सकृन्नामोच्चारणस्य सकलपापक्षयहेतुत्वप्रतिपादकवचनान्तरानुरो
धादित्यर्थः । अष्टाक्षरेति । नारायणविद्याया इत्यर्थः । श्रीमान् पञ्चा क्षरश्च नारदादि महापुरुषानुग्रहश्च तत्सहचारितयेत्यर्थः । उत्तरो ग्रन्थः स्पष्टार्थः ।
तथा
श्रवशेनापि यानि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहस्तैर्मृगैरिवे— त्यत्रापि सद्य इति विवक्षितम् । सिंहस्तैर्मृगैरिवेत्यस्यायमर्थः - यथा कश्चिद्राजकुमारः सिंहशिशुं - परिगृह्य पञ्जरे निधाय पुष्णाति तेन च यूना परिचय - प्ररूढानुरागेण वनान्तरे विहरति तस्माच्चकितैर्वन गजव्याघ्रादितिर्मुच्यते दूरात्; तथा वदनपङ्कजस्थान्नरहरिनामधेय कण्ठीरवाद भीतैः पातकैः पुरुषः परिहियतइति । तथा
यत्कीर्त्तनं यच्छ्रवणं यदर्पणंयद्वन्दनं यत्स्मरणं यदर्हणम् । लोकस्य सद्यो विधुनोति किल्बिषं - तस्मै सुभद्रश्रवसे नमो नम इति, श्रस्यार्थः – अर्पणमन्त्रात्मनिवेदनम्, अर्हणमर्चनम्, अत इह षड्भक्तयो गृह्यन्ते, ताश्च प्रत्येकं किल्विषविधूननेन संबध्यन्ते, न च ताभिर्विशिष्टं किल्बिषविधूननमेव वाक्यार्थः, तस्य फलत्वेनाविधेयत्वाद्, न च तासांपार्ष्टिकः परस्परान्वयः, क्रियात्वाद्, न चात्र चादि:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #134
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी |
११५
श्रूयते समासो वा द्वन्द्वः, येनाग्नेयादीनामिव समुच्चयः स्यात्, तस्मा "लोकस्य सद्यो विधुनोति किल्विषमि " ति पदचतुष्टयस्य तन्त्रेणावृत्त्या वा षडिमानि वाक्यानि, ततश्च तासां समशिष्टत्वादन्योन्यनिरपेक्षाणां पापक्षयसाधनत्वं तच्च सद्य एवेति श्रवृत्तिनिरपेक्षतेति, अनुवादोऽप्ययमेतादृशं विधिमनुमापयतीति तद्वारेण प्रमाणमेव, श्रीरामवाक्यं च
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वदा दास्य इति जन्मत्रतं ममेति ।
अवतारान्तराणि कदा चित्कपटमप्परिषु प्रयुञ्जते प्रयोजनवशाद् न भक्तेषु, श्रीरामचन्द्रः पुनः परिपन्धिsaपि न मनामनोविसंवादिनीं वाणीं प्रयुङ्क्ते । अन्यान्यप्येवंजातीयकान्युदाहार्थ्याणि तस्मादप्रारब्धप्राचीनपापक्षयः सकृत्कीर्त्तनादेवेति ।
9
श्रवशेनापीत्यत्र सिंहस्तैर्मृगैरित्यसम्बद्धं न हि सिंहत्रस्तैः पुमान्विमुच्यतेऽतो व्याचष्ठे – यथा कश्चिदिति । कण्ठीरवः सिंहः । यत्कीर्त्तनमित्यादिवाक्ये षड्भक्तीनां समुच्चितानाम् पापक्षयसाधनत्वंनिराकरोति - तथेति । विशिष्टम् = महत् । न च तासामिति । श्ररुयैकहायन्येत्यादौ क्रियासाधनानामारुण्यादीनां पार्ष्टिकोऽन्वयो; न क्रियाणां क्रियाश्चैताः कीर्त्तनाद्या इति न तासां पार्ष्टिकान्वयेनारुणादिवत्समुच्चय इत्यर्थः । चादयो निपाताः समुच्चयावेदकाः; दर्शपूर्णमासाभ्यामितिवद् द्वन्द्वो वा न श्रूयत इत्याह-न चेति । तन्त्रेणेत्यापाततः । सकृदुच्चरितस्य षट्सु वाक्यार्थेष्वन्वयानुपपत्तेः । तासां - भक्तीनाम् । तथाऽपि कथं सकृन्नामकीर्त्तनस्य पापक्षयसाधनत्वं ? तत्राह - तच्चेति । नन्वस्मिन्वाक्ये विधिर्न श्रयते कथम् प्रामाण्यं १ तत्राह श्रनुवादोऽपीति । तद्वारेण = विधिद्वारेण । विधिश्व सकृन्नाम · कीर्त्तयेदित्यादिरनुमेयः । श्रीरामेणोक्तत्वात्सकृत्वं तत्तात्पर्यविषय इत्याह-अवतारान्तराणीति । परिपन्थिनो विरोधिनः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #135
--------------------------------------------------------------------------
________________
११६
प्रकाशसहिता नन्वनागतानामनुपश्लेषोऽपि सकृत्कीर्तनादेव दृश्यते
वर्तमानं च यत्पापं यद्भतं यद्भविष्यति । तत्सर्व निर्देहत्याशु गोविन्दानलकीत नमिति ?
तदसद्, अत्राप्यावृत्तेरुपसंहाराद्, न चाशुशब्दस्तदु. पसंहारविरोधी, अाशुभावो हि शीघ्रता, सा च सातिशया, अतिशयश्चापेक्षिकः ततश्च, साधनान्तरेभ्यः सका. शादाशुत्वं न पुनः सद्यः साधनत्वमिति, यत्पुनरुक्तंमरणावसरे कृतस्य कीर्तनस्य विश्वासाद्यभावेऽपि साघसंहारित्वमिति ? तदप्यसद्, नियमाणो हरेर्नाम गृह्णन पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन्निति खयमेव मरणकालस्याविवक्षितत्वप्रतिपादनाद्,
नन्वपिना ग्रस्तमविवक्षितं भवति; तत्प्रतियोगि च कैमुत्येन संबध्यते तत्र श्रद्धायाः कैमुत्येनान्वयादश्रद्धयमेवापिशब्देन संबध्यते; पुत्रोपचरितमपि हरेर्नाम गृणन्निति; तस्मात्तस्या एवाविवक्षा न म्रियमाणतायाः ? अनोच्यते-हरेन्नामग्रहणमिह विशेष्यं तस्य च म्रियमापः पुत्रोपचारितं श्रद्धया चेति विशेषणानि; प्रधानान्वयित्वाद् गुणानां, विशेषणं च विवक्षितमविवक्षितं. वा, तत्र कैमुत्येनान्वयो विवक्षितस्य, अविवक्षितस्य पुनरपिना, तत्र यदि म्रियमाणो मुख्योऽधिकारी तर्हि खस्थोऽप्येवं किमुत म्रियमाण इत्यवक्ष्यद्, न चैवमवोचत, तस्माद म्रियमाणो नश्यचेताः श्रद्धातमसमर्थोऽपि पत्रोपचरितमपि गृणन्नजामिलो हरेर्धामैवागात् किमुत श्रद्धया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #136
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी। हरिमेव गृणन्निति; अविवक्षितैव म्रियमाणता, श्रद्धाऽपि मुक्तयर्थमेव विधीयते न पापक्षयमात्रार्थम् , अगाधामेति वचनात् , सा च
यद्यस्तीति न वक्तव्यं पुत्रसंदिग्धकं वचः । सर्वस्मादधिकोऽस्त्येन शिवः परमकारणमि
त्याद्यक्तलक्षणा, न तु कीर्तनविधिविषयिणी, तस्याः फलोपकारित्वस्य निराकृतत्वाद् । अपि चाजामिलस्यापि न मुख्या नियमाणता कीतनोत्तरकालमप्यवस्थानप्रतिपादनात्, तस्य च तावतैव पापक्षयप्रतिपादनाद्, अविवक्षित एव मरणकालः:"नामानि येऽसुविगमे विवशा गृगन्ती"त्यत्रापि विवशसाहचर्यादसुविगमोन विवक्षितः, न हि विवशत्वं विधीयते तद्वदसुविगमोऽपि, ततश्चासुविगमेऽपीत्यर्थः न पुनरसूविगमएवेति. एवं मरणे हरिमुच्चरेदित्यत्रापि मरणेऽपि हरिशब्दमुच्चरेदिति व्याख्येयंसमानविषयत्वात्, तत्सालोक्यादिफलेषु पुनरुपासनेध्वन्त्यप्रत्ययोऽभ्यर्हितः, “यथा ऋतुरमिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवती"तिश्रुतेः, ततश्च
प्रयाणकाले मनसाऽचलेन बुद्ध्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यमित्यादिषु विवक्षित एव कालः । ये पुनर्ग्रहणादयः कालविशेषाः पर्वताग्रादयश्च देशविशेषाः तत्र तत्रोक्तास्ते पुरश्चरणादिकाङ्गभूताः, पुरश्चरणं च मन्त्राणां संस्कारकम् प्राधानमिवानीनां, संस्कृतानां च तेषामैहि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #137
--------------------------------------------------------------------------
________________
११८
प्रकाशसहिता
कामुष्मिक फलसाधनेषु कर्मसु विनियोग इति तत्रैवोपयोगस्तेषां न तु पापक्षयोपयोग इति । ये च प्रत्याहारादयो धर्माः
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जपसंपत्तिहेतव
इत्यादिशास्त्रोक्ताः, तेऽपि न जपमात्रोपयोगिनः तत्संपत्तिहेतुत्वाभिधानात् संपत्तिश्च विशिष्टेष्टप्राप्तिसाधनत्वलक्षणा; तस्यां चोपयुज्यन्त एव ते, पापक्षयः पुनः कीर्त्तनादेवेति पटहघोषः पुराणानाम् ।
1
उपसंहारादिति । अध्याहारादित्यर्थः । नन्वाशुशब्दात्सकृत्त्वम् प्रतीयते ? तत्राह-न चेति । श्रपिनाऽजामिलोऽपीत्यपिशब्देन तत्प्रतियोग्यविवक्षाविरुद्धम् । ततः किं ? तत्राह - तत्रेति । किमुत श्रद्धया गृणन्निति वचनादिति भावः । श्रश्रद्धेयमेवाह - पुत्रेति । गृणन्नित्यस्योपरि हरेर्धामागादिति द्रष्टव्यम् । तस्या इति । श्रश्रद्धाया इत्यर्थः । विशेष्यं प्रधानं फलत्त्वादिति भावः । तस्य चेति । विशेषणानीति सम्बन्धः । तत्र हेतुमाह - प्रधानेति । विशेषणद्वैविध्यमाह - विशेपणं चेति । कैमुत्यान्ययस्यापिशब्दान्वयस्य च व्यवस्थामाहतत्रेति । प्रकृत आह-तत्र यदीति । फलितमाह - तस्मादिति । न चैवं श्रद्धाऽपेक्षत्वं प्रतीयते किमुत श्रद्धया गृणन्नितिवचनात्तत्राह - श्रद्धाऽपीति । तत्र गमक माह अगाद्धामेति । सालोक्यस्य मुक्तिमध्ये गणनादिति भावः । ननु कीर्त्तनविधिविषयिणी श्रद्धा कीर्त्तनफलोपकाररिणी न मुक्तयर्था ? तत्राह - सा चेति । परमात्मविषयिणी श्रद्धेति भावः । कीर्त्तनश्रद्धा याः फलोपकारित्वं च नास्तीत्याह-तस्याइति । सुविगमो मरणं, विधीयते विवक्षितमित्यर्थः । ततश्चाविवक्षितविवशत्वसाहचर्याद सुविगमोऽप्यविवक्षितइत्यभिप्रायः । ततश्चाविवक्षासूचकोऽपिशब्दोऽध्याहर्तव्य इत्याह- ततश्चेति । ननु नामोच्चारणे मरणकालाविवक्षायामुपासनेऽप्यविवक्षा मरणकालस्य प्रसज्येत ततश्च प्रयाणकाल इत्यादि वचनविरोधः ! तत्राह तत्सालोक्येति । हरिस्तच्छद्वार्थः । ननु नामात्मका मन्त्राः पुरश्चरणं च तेषामुच्चारणं तत्र देशकाल -
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #138
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
११६ विशेषादयोऽङ्गत्वेन स्मर्यन्ते ततः कथं निरपेक्षं नामोच्चारणं पापक्षय. हेतुः?तत्राह-ये पुनरिति।नतु पापेति।पाप जयस्तु देशकालाद्यपेक्षपु. रश्चरणसंस्कृतानामपि नामात्मकमन्त्राणामुच्चारणादेवेत्यर्थः । विशिष्टमिष्टं मोक्षः। ___ अथ वा जपस्यैवैते धर्मा न तु कीर्तनस्य; अन्योहि जपोऽन्यच्च कीर्तनं भिन्नविषयत्वात्तयोः, तत्र मन्त्रोचारणं जपः, नामोचारणं तु कीर्तनं, मन्त्रोऽपि नाम सः; यः स्वरादिविशिष्टो देवताप्रकाशको वर्णसमुदायः, विशिष्टदेवताबाचकं तु पदमात्रं नाम, ___"क जपो वासुदेवेति मुक्तिबीजमनुत्तममि"त्यत्र तु कीत्तनमेव जपशब्देनोच्यते संवुड्यन्तत्वाद्वासुदेवशब्दस्य, श्रीमद्वादशाक्षरविवक्षायां हि चतुर्थ्यन्तेन तेन भवितव्यम् ।
ननु जपगता एव धर्मा देवतासामान्यात्कीर्तनेऽतिदिश्यन्ते
श्रीविष्णुधर्मचक्राङ्कितस्य नामानि सदा सर्वत्र कीर्तयेत् ।
नाशौचं कीर्तने तस्य स पवित्रकरो यत इति देशकालशौचानामनपेक्षणीयत्वप्रतिपादनादेव केवलश्रुतिविरोधाच ?
+ननु कीर्तनेऽपि श्रूयन्ते धाः
नक्तं दिवा च गतभीर्जितनिद्र एकोनिईन्छ ईक्षितपथो मितभुक् प्रशान्तः । यद्यच्युते भगवति खमनो न सज्जे
नामानि तद्रतिकराणि पठेदलनइति ? सत्यं श्रूयन्ते; ते तुमोक्षसाधनस्य कीर्तनस्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #139
--------------------------------------------------------------------------
________________
१२०
प्रकाशसहिता ङ्गभूताः; न पुनरघविधातकस्य, यद्यच्युते मनो न सज्जेदिति समाधेरनुकूलत्वेन कीर्तनस्य विधानात् , समाधेश्च मोक्षफलत्वेन प्रसिद्ध। ___ ननु कीर्तनं क्रिया, न च क्रियासाधनो मोक्षः, तस्य श्रुतिस्मृतीतिहासपुराणागमयुक्तिभिर्ज्ञानकोपायत्वेना. चाय्रवधारितत्वाद् ज्ञानसाधनत्वमेव तस्य मोक्षसाधनत्वम् , अत एव समाधेःकायें विधानं, न हि समाधिरपि मोक्षसाधनं, किं तर्हि ? ज्ञानसाधनमेव, तदपि न साक्षात् श्रवणवद्, अपि तु प्रतिबन्धनिरासद्वारेण, एवंकीर्तनमपि । ___ जपकीर्तनयो देन समाधानान्तरमाह-अथ वेति । विषयभेदेन तयोर्भेदमाह-तत्रेति । मन्त्रनाम्नो दमाह-मन्त्रोपीऽति । आदिशद्वेन बीजादि।नानो लक्षणमाह-विशिष्टेति।ननु कीर्तनेऽपि जपशब्दो दृश्यते तत्राह-क्व जप इति। लाक्षणिक इति भावः। किमिति लाक्षणिकं; वासु. देवविद्यैव विवक्ष्यतां? तत्राह-संबुद्ध्यन्तत्वादिति। संबोधनान्तत्वादित्यर्थः। संबोधनान्तत्वेऽपि म वासुदेवविद्याविवक्षा,नचापशद्वत्वेनानुधारणप्रसङ्गः, हरिनामानि कीर्तयेदिति प्रातिपदिकमात्रोच्चारणस्य विहितत्वात् । ननु जपगताः शौचापेक्षत्वादयः कीर्तनेऽप्यतिदिश्यन्तांदेवतासामान्याद् ? नेत्याह-न विति। केवलेति । देशकालशौचापेक्षारहितस्य नामकीर्तनस्य पापक्षयसाधनत्वे विरोधाभावाश्चेत्यर्थः । नन्विति। श्रूयन्ते धर्मा इति । मोक्षसाधनार्था इति शेषः, समाधत्तेसत्यमिति । ज्ञानोपायत्वेनेति बहुब्रीहिः । आचार्यैः = व्यासादिभिः । समाधत्ते-झानेति।श्रवणवदिति व्यतिरेकदृष्टान्तः-यथाश्रवणं प्रमा. णखरूपान्तःपातितया साक्षात्साधनं नैव समाधिरित्यर्थः । प्रति. बन्धो = विपरीतभावना । परम्परासाम्येनाह-एवमिति।
तत्रायं क्रमः-कीर्तनात् पापक्षयः, तदावृत्त्या तद्विषयाणां वासनानां प्रचयः, अपचयश्च पापवासनानां, ततो भगवजनसेवासातत्यं, ततस्तदुपवर्णितमहिमनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #140
--------------------------------------------------------------------------
________________
१२१
श्रीभगवनामकौमुदी। भगवति पुण्यश्लोकशेखरे भगवती नैष्ठिकी भक्तिः, ततः शोकादीनामत्यन्तोच्छेदः, ततः सत्त्वस्य परमोत्कर्षः, ततस्तत्त्वसाक्षात्कारः, ततो मुक्तिरिति, अयमर्थः श्री भागवते सविस्तरमुपवर्णितः, तत्र तत्रोक्तं च भगवता.
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यत इति,
तत्र श्रुतिशिरःसिद्धान्तं यस्य श्रतवतोऽपि कुतश्चित्प्रतिबन्धात्तत्त्वज्ञानमुत्पन्नमपि निमीलितमिव तस्य भगवद्भक्तिरुक्तया रीत्या प्रतिबन्धं निरुध्य तत्त्व. ज्ञानमुन्मोलयति, यः पुनरश्रुतवेदान्तसिद्धान्त एव जगदेकनियन्तुर्निर्यन्त्रणदयाऽमृतमहार्णवस्य महाविष्णोः प्रह्लादहृदयसुधासरित्पतिपर्यङ्कशायिनः श्रीनृसिंहस्य नामानि निरन्तरमावर्त्तयति; तस्य भगवान् स्वयमेव देहावसानसमये संसारतारकमात्मज्ञानमनुगृणाति, श्रयतेहितापनीये-"देहान्ते देवः परं ब्रह्मतारकंव्याचष्टेइति तान् प्रजापतिरब्रवीद् एतैमन्त्रैर्देवं स्तुध्वं ततोदेवः प्रीतो भवति स्वात्मानं दर्शयति य एतैर्मन्त्रनित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छति, य एवं वेदेति च,” अत्र च स्तुतो देवः प्रीतो भवति खात्मानं दर्शयतीत्येतावदुपजीव्यते, जपकीर्तनयोः साधारण्यात् , साधारण्यं च प्रसिद्धमेव, तथा हिस्तुतःप्रीतो भवतीति स्वात्मनि परत्र च दृष्टमेव, प्रीतश्च खात्मानं दर्शयेदेव, अवश्चनरसत्वात् प्रेम्णः।
परम्परामेव प्रपञ्चयति-तत्रेति । तत्र प्रमाणमाह-अयमर्थ इति । व्यवस्थाऽन्तरमाह-तत्रेति । अनुगृणाति = उपदिशति । कथमशरीरउपदिशेद् ? अतमाह-श्रूयते हीति । अतएवाह-अत्र चेति। ननु जपमात्रस्येदं प्रयोजनं न कीर्तनमात्रस्येति ? प्रताह-जपति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #141
--------------------------------------------------------------------------
________________
१२२
प्रकाशसहिता साधारण्यं समानफलत्वम् । नन्वेवमपि मन्त्रराजेनैव स्तुतिरेवंफ लिका स्याद् ? नेत्याह-स्तुतिस्त्विति । तत्र हेतुमाह-नानामिति । दीर्घतमा मन्त्रस्यर्षिः। तच्छद्वार्थमाह-अस्तीति । अधिष्ठानमुपा. दानम् । अधिष्ठातारं कर्तारम् । औपनिषदा वेदान्तिनः । विपरिणामो. विध्यर्थत्वेन व्याख्यानात् । ननु गुणकीर्तनं सर्वाधिकारमुच्यते न च वैदिकैर्मन्त्रैः सर्वे गुणकीर्तनं कत्तुं शक्नुवन्ति ? तत्राह-न चैवमेवेति । श्रौतैर्वैदिकैः। तान्त्रिकैरागमिकैः। पौरुषेयैः संस्कृतैः प्राकृतैश्च। न च प्राकृतानामपशद्वत्वान्न म्लेच्छतवा इति निषेधविषयत्वं ? विहिते निषेधाप्रवृत्तेः । न च विहितत्वासिद्धिः ? यथा विद तथा स्तुध्वमि. त्यनेनैव संस्कृतानभिज्ञान्प्रति विहितत्वात्। न च मन्त्रत्वादविधायकत्वं? मूलकृतैवानुपदं निराकरिष्यमाणत्वात् । न चैतावता संस्कृतानभिज्ञानां प्राकृतेन परमेश्वरगुणानुवादेऽनधिकार इति वाच्यम् ? यथा विदेत्यस्य विधेः संकोचप्रसङ्गात् । तथा हि श्रुतिस्मृति. पुराणादिषु भगवद्गुणानुवादः कर्तव्य इति विधिः सुप्रसिद्धः। तत्र करणाकाझायां सामर्थ्याज जिव्हा संबध्यते तत्र चाधिकारोकाहायांसामर्थ्यान्मनुष्यमात्राधिकारत्वं, विशेषग्राहकमानाभावाच्च । न च संस्कृतवाक्यैरिति व चिच्छूयते सामर्थ्यात्तु संस्कृतप्राकृतसाधारणवाक्यमात्रमन्वेति । न च म्लेच्छतवै, म्लेच्छो ह वा एष यदपशब्द इति निषेधादर्थासंस्कृतवाक्यैर्गुणानुवादः कर्त्तव्य इति वाच्यं ? निषेधो. हिप्राप्तिमपेक्षते, प्राप्तिश्च रागतो विधितश्च, तत्र प्राकृतवाक्यैर्भगवद्गु णानुवादो न रागतः प्राप्तो भोजनवद् दृष्टफलत्वाभावाद्, विधितः प्राप्तत्वे सिद्धं नः समोहितं तत्र निषेधाप्रवृत्तः, विहितनिषिद्धत्वे विक. ल्पापत्तेः षोडशिग्रहणवत् पक्षे विहितत्वसिद्धः। न च यथा कथं चिद्भगवद्गुणानुवादो लोकपूज्यताहेतुरिति रागतः प्राप्तिरिति शङ्कनीयं ? तथा सति । संस्कृतवाक्यैरपि भगवद्गुणानुवादस्याविहितत्वापत्तेः। अग्निहोत्राद्यनुष्ठानस्यापि तत्वाञ्च, सवत्र पूजाविधाषु गीतवाद्यादिविधानाच, यथा
अन्नाद्यगीतवाद्यानि पर्वणि स्पुरुतान्वहमित्येकादशस्कन्थे,' तत्रैव पूजाप्रकरणे
स्तवैरुश्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपीति प्राकृतानामेव कण्ठरवेण गृहीतत्वाच्च । अत्र स्तवस्तोत्रयोभँदो विशदीक्रियते-पौराणैः प्राकृतैरिति, यद्वाऽप्रगीतवाक्यसा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #142
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
१२३
ध्यानि स्तवाः प्रगीतवाक्यसाध्यानि स्तोत्राणीति वैदिकस्तोत्रस्य तादृशत्वाद्, श्रथ वा स्तवा गुणकीर्त्तनानि, स्तोत्रैरिति ग्रन्थनामधेयम् । तेषामुच्चावचत्वं दर्शयति - पौराणैः प्राकृतैरिति । उच्चावचत्वं प्राकृतविशेषणं वा, तच्च कर्तृकृतं, भगवद्गुणकीर्त्तनस्य स्वरूपेणोच्चावचत्वामावाद, ग्रन्थकृतस्योश्चावचत्वस्य पौराणैः प्राकृतैरित्यनेनैव सिद्धत्वात्, सर्वथाऽपि प्राकृतानां कण्ठरवेण विधानम् । किं च विष्णुपुराणादौ वैद्यस्य भगवति त्वंकथाऽऽदिभिद्वेषं विदधतोऽपि भगवत्प्राप्तिः श्रूयते, न चासौ संस्कृतवाक्यैरेव भगवद्वेषं विदध इति प्रमाणमस्ति तस्माद्यथा कथं चिद्भगवद्गुणानुवादो विहित एव, अन्यथा पौराणिकानां - प्राकृतवाक्यैरर्थकथनाचारो बाध्येत । श्रत एव गोपीरधिकृत्यः
यासां हरिकथोद्गीतं पुनाति भुवनत्रय
मित्युक्तं श्रीभागवते । श्रत एव तच्छ्रवणमपि विहितमेव भगवत्स्मा. रकत्वात् । तत्स्मरणस्य "चापवित्रः पवित्रो वे" त्यादिवाक्यैः पापक्षयहेतुत्वप्रतिपादनात् । श्रत एव " ग्राम्यगीतं न शृणुयादिति वाक्ये भगवद्गीतं तु शृणुयादेवेत्युक्तं श्रीधरस्वामिभिः, श्रतश्च प्राकृतवाक्यै - रहर्निशं परनिन्दाऽऽदि कुर्वन्तो ये प्राकृतवाक्यैर्भगवद्गुणानुवादमकर्तव्यं निरूपयन्ति तेषां भगवदनुरागाभाव एवापराध्यतीत्यलमतिविस्तरेण ।
स्तुतिस्तु श्रीमन्मन्त्रराजेन मन्त्रान्तरैर्वा नामभिर्व्वा, नाम्नां च सर्वेषामेव श्रुतिसंमतत्यात्, "तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भ जनुषा पिपर्त्तन । श्रस्य जानन्तो नाम चिद्विविक्तन महस्ते विष्णो सुमतिं भजामहे " इति,
श्रूयते दीर्घतमसो वाक्यमेतद्, अस्यार्थः - उकारः छन्दः पूरणार्थः, हे जानन्तः ! स्वार्थकुशला जनास्तं देवम्, अस्ति कश्चिदीश्वर इत्याबालगोपालप्रसिद्धं; पूर्व्यं पुरातनंसर्व्वस्याधिष्ठानमधिष्ठातारं च तस्य गर्भम् उपनिषदस्तज्जन्यज्ञानस्य वा जठरे वर्त्तमानम् ; औपनिषदसिद्धान्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #143
--------------------------------------------------------------------------
________________
१२४
प्रकाशसहिता सिद्धयाथात्म्यं, स्तोतार; श्रौतैस्तान्त्रिकैः पौराणिकैः पौरुषेयैर्वा स्तुध्वमिति विपरिणामः, न चैवमेव स्तोतव्यमिति कश्चिदस्ति नियमः, यथा विद यथा जानीथ तथा स्तुध्वं मन्त्रः स्तुध्वमिति भावः, ततश्च जनुषा पिपर्त्तन छान्दसस्तनबादेशः कर्मकत्तु व्यत्ययश्च जनुषा जन्मना पिपर्त्तन पिपृत पूर्यध्वं जन्मनः पूर्ति प्रामत जन्मानि समापयतेति भावः, अथ वा तं देवं जनुषा पिपर्तन खच्छन्दचरितेन बहुविधेन जन्मना पूरयत मत्स्याद्यवतारैरन्वितं वर्णयतेत्यर्थः। अथैवमपि मयं स्तोतुमसमर्थाः, अस्य भगवतः श्रीमन्नामाप्याविवक्तन सदा कीर्तयत, हे विष्णो व्यापक ! ते महः प्रकाशं त्वत्खरूपप्रकाशिकांसुमतिं शोभनां मतिं भजामहे इति, अत्रापि व्यत्ययः भजामह इति ब्रह्मविद्यामाशासानाः कीर्तयतेत्यर्थः, ततश्चापवर्गफलकज्ञानसाधनत्वमेवापवर्गसाधनत्वं कीर्सनस्य, मन्त्रोऽप्ययं विधायको भविष्यति,
विधिशक्तिर्न मन्त्रस्य नियोगेनापनीयते । खतो विधास्यति ह्येष नियोगात् स्मारयिष्यतीति
न्यायेन । एवमन्येऽपि नाममन्त्रस्यैव पुरुषार्थसाधनत्वद्योतका मन्त्राः सन्त्यनेकशः"कस्य नूनं कतमस्यामृतानांमनामहे चारु देवस्य नाम"।
"सदा ते नाम खयशो विवक्मि” । "भूरि नाम मनामहे"
इत्यादयः, तेषां च तैस्तैरसाधारणैरमृतानां प्रथमस्ये. त्यादिभिर्लिङ्गभगवद्विषयत्वमाकाशस्तल्लिङ्गादिति न्यायेन पुरुषार्थसाधनत्वं च नानो ज्ञानद्वारेणैवाभिप्रेतं पूर्वेण समानार्थत्वात्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #144
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
१२५
छान्दसइति । पितृतेति वक्तव्ये पिपर्त्तनेति छन्दसि भवति । कर्मेति । जन्म पूर्यतामिति कर्मकर्तृप्रयोगे कर्तव्ये जनुषेति करणत्वनिर्देशो व्यत्यस्तः छान्दसः । फलितमाह-ब्रम्हेति । ननु मन्त्रस्यास्य कथं विधायकत्वं तत्राह - मन्त्रोऽपीति । नियोगो विनियोगः । यथा वसन्ताय कपिञ्जलानालभेतेति मन्त्रोऽपि विधायकोऽपीति । कथमेतेषां - परमात्मविषयत्वं ? तत्राह तेषां चेति । प्रथमे मन्त्रे - " अग्नर्वयं प्रथमस्यामृतानामिति पूर्वपादो भगवद्विपयत्वे लिङ्गम् । द्वितीये "न ते गिरो अपि मृष्येतुरस्य न सुष्टुतिमसुर्यस्य विद्वानि "ति वाङ्मनसागो. चरत्वे लिङ्गम् । तृतीये " मर्त्ता श्रमर्त्यस्य ते" इति पूर्वपादोक्ते लिङ्गम् । श्राकाशइति । " श्रस्य लोकस्य का गतिरित्याकाश इति होबाचे"त्यत्राकाशशंद्वो ब्रम्हपरः । सर्वाणि ६ वा इमानि भूतान्याकाशादेब समुत्पद्यन्तइति ब्रम्हणो लिङ्गादित्यर्थः ।
"प्रतत्ते श्रद्य शिपिविष्ट ! नामार्थः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके" इत्यादिषु स्पष्टमेव भगवद्विषयत्वम् । श्रस्यार्थः-शिपिः शरीरं, - हे शिपिविष्ट अन्तर्यामिन् ! तत्प्रसिद्धं ते तव नाम प्रशंसामि प्रकर्षेण कीर्त्तयामि, यद्यप्युत्तमपुरुषोऽयं विधिशक्तिप्रतिबन्धकस्तथाऽपि मन्त्र - लिङ्गकल्पितो विधिः स्मृतानां मूलमभिप्रेयते, कीर्त्तनस्य फलमाह - श्रार्य इति, श्रेष्ठ इत्यर्थः, वयुनानि सामर्थ्यानि नाम्नस्तवैव वा विद्वान् जानमित्यर्थः श्रनेन तत्रैव प्रवृत्तिहेतुरुक्तः । उत्तरार्धे त्वा त्वांगृणामि स्तोम तवसं महान्तम् मतव्यानल्पोऽहं क्षयन्तं निवसन्तमस्य रजसो लोकस्य पराके परे पारइत्यर्थः । ननु नामकीर्त्तनस्य क्रियारूपस्य कथं मोक्षसाधनत्वं ? तत्राह - पुरुषार्थेति । पूर्वेण तमु स्तोतार इत्यनेन । पुराणवाक्यं च
यावज्जीवं प्रणवमथ वाऽऽवर्त्तयेद्रुद्रियं वा यजुर्वेदं वसतिमथ वा वारणस्यां विदध्यात् । हित्वा लज्जां कलिमलकुलच्छेदकानीरयेद्वा विष्णोर्नामान्यनिशममृतत्वाप्तिरेषा चतुर्थेति, बाराणसीवासस्य तारकब्रह्मबोधद्वारेणामृतत्वप्राप्तिसाधनत्वं काशीखण्डादिषु प्रसिद्धं तत्समभिव्याहारा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
,
Page #145
--------------------------------------------------------------------------
________________
प्रकाशसहिता
दनुकीर्त्तनस्यापि तद्वदेवेति । एवं चामृतत्वसाधनस्य कीर्त्तनस्य धर्मा गतभीत्वादद्यो; न पापक्षयसाधनस्य, पापक्षयस्तु यथा कथं चिजिह्वाऽङ्गनमागतान्नाममात्रादेवेति, अत एव सौरपुराणे निरन्तरं हननापहारादिषु प्रवृत्तस्यापरानपि तत्रैव प्रवर्त्तयितुमाहर प्रहर संहरेति व्याहरतो व्याडिनाम्नो व्याधस्य पदान्तरावयवत्वेन प्रसङ्गागतादपि हरशब्दात् सर्व्वाघसंहारो वर्णितः, तदद्भ्यासाहि - तात्संस्कारप्रचयादनन्तरजन्मनि तत्त्वज्ञानमपि वर्णितम् ।
ननु यदि न का चिदितिकर्त्तव्यता कीर्त्तनस्य कथंविधानम् अङ्गप्रधानवत्यां भावनायां युगपत्पुरुषनियोगइति शावर भाष्यं, भट्टवार्त्तिकं च
१२६
किमाद्यपेक्षितैः पूर्णः समर्थः प्रत्ययो विधाविति ? सत्यवदनादीनामिवेति ब्रूमः, न हि तत्र किं चिदङ्गमुपदिश्यते, नाप्यतिदेष्टुं शक्यते, तल्लिङ्गाभावाद्, न चैतावता प्रतीयमानो विधिरपलपितुं शक्यते, तथेहापि भविष्यति ।
ननु तत्रापि लौकिकं किं चिदुपकारकमस्त्येव सर्व्वथैवानुपकृतत्वे तु तत्रापि विधानं नाभविष्यदेव ? इहापि तर्हि मनोवाक्कायस्थानानामन्योन्यसंयोगो लौकिक एवोपकारको भविष्यति येन विना शब्दोच्चारणमेव न संभवति, अथवा किमस्माकं विध्यन्तर साधर्म्य समर्थनेन ? ईदृश एवायमपूर्वी विधिः स्वरूपकथनं वा प्रमाणान्तरानवगतं कीर्त्तनस्य पापक्षयसाधनत्वमवाधितमवगम्यमानमषन्होतुं न शक्तमः ।
ननु किं समस्तानामेव भगवन्नाम्नामेतादृशं सामर्थ्यमुत व्यस्तानामपि ? न तावत्समस्तानामेव, अवशेने -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #146
--------------------------------------------------------------------------
________________
श्रीभगवनामकौमुदी।
૨૨૭ त्यादिविधिना विरोधाद्, न ह्यवशेन समस्तानामुच्चारणंसंभवति, अथ व्यस्तानां; तत्रापि किं सर्वेषामेव; उत केषां चिदेव ? तत्र यदि सर्वेषामपि नरकस्टष्टेरानर्थक्यंप्रसज्येत; न ह्यजातिबधिरस्य कस्याप्येतत्संभाव्यते यन्नामसहस्रमध्ये किं चिदपि कदा चिदपि कथं चिदपि न शृणोति न गृह्णाति, अपिच यदि सर्वेषांसमानं सामर्थ्यम् एकेनैव पुरुषार्थसिद्धरन्येषामानर्थक्यं प्रसज्ज्येत, अन्यच्च समानमहिम्नां नाम्नां समाहारे तन्महिम्नामपि समा. हाराद् एकस्य श्रीरामनाम्नो मामसहस्रसाम्याभिधानंनावकल्पते, न हि प्रदीपसहस्रस्य यावान् प्रकाशः तावानेकस्य प्रदीपस्य भविष्यति, सामथ्यस्य च वैषम्ये तु भवत्येव, यावत् स्खलु खद्योतसहस्रस्य तेजस्तावदेकस्यापि प्रदीपस्य, अथ केषां चिदेव; तर्हि
सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यच्चाभिरुचितं नाम तत्सर्वार्थेषु योजयेदिति
श्रीविष्णुधर्मगतवचनविरोधः, अन्येषामानर्थक्यं. च तदवस्थमेवेति ?
अत्राभिधीयते-सर्वेषामपि भगवन्नाम्नां प्रत्येकमेतादृशं सामर्थ्य, न च नरकसृष्टेरानर्थक्यं, दग्धेऽपि कथंचित्प्राचीने पाप्मनि तदुत्तरकालभाविभिरंहोभिर्मह. दवमानश्च नरकपातस्यापि संभवाद्, न चावृत्तिगुणकमेव कीर्तनं सर्वस्यापि भविष्यतीति कश्चिदस्ति नियमः, अत एव भरतदेवस्थापि ऋषभदेवेनानुगृहातस्थापि प्रतिबद्धापरोक्षानुभवत्वाद् अन्तरायैरत्यन्तसमुच्छिन्नभगवदुपासनत्वाच्च तदुत्तरकालभाविना मृगासक्तिरूपेण कर्मणा निकृष्टदेहारम्भः, अथ वा मृगत्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #147
--------------------------------------------------------------------------
________________
१२८
प्रकाशसंहिता मपि तजातिस्मरणवैराग्यभूतदयाऽऽदिगुणोपेतत्वान्मोक्षानुकूलमेवेति न तदारम्भकस्य कर्मणो निवृत्तौ प्रयतते भक्तिः। जयविजययोश्च वैकुण्ठवासिनोरपि ब्रह्मविदवमानादधःपतनं, ब्रह्मविदवमानजनितं हि दुरितंदुरत्ययं भगवदुपासनेनापि भगवद्भक्तावमानजनितं. च, प्रपञ्चितं चैतत्ततीयस्कन्धे
सोऽहं भवत्समुपलब्धसुतीर्थकीर्तिश्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृतिमित्यादिना, नवमे चाम्बरीषोपाख्यानेअहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ! साधुभिर्ग्रस्तहृदयो भक्तभक्तजनप्रियइत्यादिना । अमतत्वं मोक्षः। गतभोत्वादयो “नक्तंदिवा च गतभीर्जितनिद्र एक"इत्यादिपूर्वोदाहृतश्लोकोक्ताः । यथा कथं चिज्जिन्हाऽङ्गनमागता. दित्युक्तं सौरपुराणेतिहासेन द्रढ़यति अतएवेति । किमादीति । किं केन कथमित्यपेक्षितैः फलकरणेतिकर्तव्यतांऽशैः पूर्णः प्रत्ययो विधाने समर्थः इत्यर्थः। सत्येति । "सत्यं ब्रयाद्वैयं कुर्यात्प्राङ्मुखोऽन्नान्यनीते"त्या. दयः। स्वरूपकथनेऽपि पापक्षयसाधनत्वमस्त्येवेत्याह-प्रमाणान्तरेति। अनधिगतमबाधितमिति हेतुगर्भ विशेषणद्वयम् । नन्विति। मिलिताना. मेतत्सामर्थ्य प्रत्येक वेति विकल्पार्थः । नरकसृष्टेरानर्थक्यं परिहरतिदग्धेऽपोति । श्रावृत्तनामकीर्तने तर्हि कथं नरकपातस्तत्राह-न चेति । नामकीर्तनावृत्तिशून्यानामुत्तरकाले पापाचाराणां नरकपात इति भावः । तत्रोदाहरणमाह-अतएवेति । प्रतिबद्धोऽपरोक्षानुभवो यस्य तस्य भाबस्तत्त्वम् अत्यन्तसमुत्पन्नं भगवदुपासनं यस्य तस्य भाव. स्तत्त्वम्। नन्वावय॑माना हरिभक्तिः कथं मृगासक्तिं नोन्मूलयेत् ? तत्राह-अथ वेति । भवद्भ्यः समुपलब्धा सुतीर्थरूपा कीर्तिर्येन सः । स्वबाहुमिन्द्रमपि; इति सनकादीन्प्रति भगवद्वाक्यम्।
वेनस्य तु भगवन्निन्दाप्रतिबद्धसामर्थ्य सकृत्कीर्तन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #148
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
१२8 मावर्त्यमानमपि न पापक्षयायालं, शिशुपालादीनांपुननिर्भरवैरानुबन्धपरिकल्पितसंपदः समाधेरिव निन्दादोषस्यापि दग्धत्वात् पुरुषार्थप्राप्तिरिति स्वयमेव सप्तमाद्ये समर्थितं श्रीशुकेन। . ___ यदप्युक्तम्-एकेनैव पुरुषार्थसिद्धरन्येषामानर्थक्यमिति, तदप्ययुक्तं, पुरुषभेदेन सर्वेषामपि पुरुषाथसाध. नत्वोपपत्तेः।
यत्तु समानमहिम्नां समाहारे तत्तन्महिनामपि समाहाराराद् नैकस्य तादृशो महिमेति ? तदपि परिच्छिन्नप्रभावेषु प्रदीपादिषु घटते; न पुनर्निरङ्कुशमहिमसु भगवन्नामसु,
न खलु चिन्तामणीनां निचयस्य; एकस्य वा चिन्तामणेः, कल्पशाखिनां वनस्य; एकस्य वा कल्पशाखिनः, कामधेनूनां यूथस्य; एकस्या वा कामधेनोः, कश्चिदस्ति विशेषः,
समाहृतानामुच्चारणमपि नानर्थकं संस्कारप्रचयहेतुत्वाद् एकैस्यवोच्चारणप्रचयवत्, तस्मात् श्रद्धाभक्तिज्ञानवैराग्याभ्यासदेशकालविशेषादिनिरपेक्षं भगवन्नामकीर्तनमेव महदवमानातिरिक्तमप्रारब्धं प्राचीनमंहः सर्वमेव संहरति, आवर्त्यमानं पुनदुर्वासनाविध्वंसद्वारेण श्रद्धाभक्तिवैराग्यज्ञानान्युत्पादयदपवर्गसाधन: प्रारब्धपापनिवर्तकं च कदा चिदुपासकेच्छावशाद्,
महदवमानस्य तु भोगएव निवर्तकः तदनुग्रहो वा, न पुनरन्यत् किं चिदिति स्थितम् ।।
ननु वेनस्य कथमसद्गतिस्तेनापि भगवनिन्दायै भगवन्नामावृत्तः कृतत्वाद् ? मतभाह-चेनस्येति । भगवन्निन्दया प्रतिबद्धं सामथ्यं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
ald surat
www.umaragyanbhandar.com
Page #149
--------------------------------------------------------------------------
________________
१३०
प्रकाशसहिता यस्य तत् । कथं तर्हि शिशुपालस्य सद्गतिस्तस्यापि भगवन्निन्द. कत्वाद् ? अत आह-शिशुपालेति । निर्भरमतिशयेन यो वैरानुबन्धस्तेन परिकल्पिता या संपत्श्रीमत्कृष्णविषयचित्तपरिपाकस्तस्मानिन्दादोषस्य दग्धत्वादित्यर्थः। परिच्छिन्नेति । प्रदीपसहस्त्रस्य यावान्प्रकाशस्तावानेकस्य न भवतीति घटते परिच्छिन्नत्वात्। निर. ङ्कशत्वमपरिच्छिन्नत्वम् । तत्रोचितं दृष्टान्तमाह-न खल्विति । तत श्चकस्य श्रीरामनाम्नः सहस्रनामतुल्यत्वाभिधानं घटत इति भावः। तबनेकेषामुच्चारणमनर्थकं ? तत्राह-समाहृतानामिति । संस्कारो. भगवद्विषयस्तस्य प्रचयः पौष्कल्यम् । उपसंहरति-तस्मादिति। श्रद्धाऽनेनास्ति परलोक इति बुद्धिः। भक्तिस्तत्रानुरागः । ज्ञानं परमात्मविषयम् । अभ्यासो नामावृत्तिः । देशः सत्क्षेत्रम् । कालः पूर्वा. ह्लादिः । श्रादिशब्देन शौचादि । महद्वमानेति । भगवद्भक्तयोरपि सनकाद्यवमानादधःपातश्रवणात् । अप्रारब्धमिति । नामकीर्तनेऽपि जीवनदर्शनात्प्रारब्धमेतदेहारम्भकम् । तादृक्पापनिवर्तकत्वं च न स्वभावादित्याह-कदा चिदिति । महदिति । यथा जयविजययोरेव।
नन्वेवं पुराणार्थे परिगृह्यमाणे स्मृतीनामत्यन्तबाध. एव स्याद् ? न च तदुचितं पुराणैरेव तदर्थस्याप्यङ्गीकारात्
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभि
रित्यादिभिः ? तत्र समाधिः-एकत्रैव प्रवृत्तिनियमोऽन्यत्र प्रवृत्तिं प्रतिबध्नाति, न च कीतने प्रवृत्तिनियमः; अश्रद्धोपहतत्वात् प्रायेण पुरुषबुद्धीनां, साङ्कत्यनिवन्धना प्रवृत्तिन्न नियन्तुं शक्यते, तस्मादस्त्येवावकाशः स्मृतीनां, दृश्यते च सुकरदुष्करयोर्विकल्पो वैद्यकेषु, तत्र च किं चित्सुकरमपि कस्मै चित्स्वभावादेव न रोचते, अतस्तदर्थदुष्करमपि चिकित्सान्तरं विधीयते तद्वदिहापि दुर्वारदुर्वासनावासितचेतसः प्रायेण पराङ्मुखा एव पुरुषोत्तमात्पुरुषाः; तदर्थं प्रायश्चित्तान्तरविधानम् । , सुकरण नामकीर्तनेन पापतये स्मार्तप्रायश्चित्तेषु कोऽपि न प्रवत्तेतेति शङ्कते-नन्विति । तदर्थस्येति । स्मृत्यर्थस्य तपोदामादे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #150
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
१३१ रित्यर्थः । सांकेत्यादीति । "सांकेत्यं पारिहास्यं वे"त्यादिश्लोको. क्तनामग्रहणे प्रवृत्तिनियमो नास्त्यनियतनिमित्तत्वादित्यर्थः । कथं. वैद्यकेऽपि सुकरदुष्करयोर्विकल्पाभिधानं ? तत्राह-तत्रेति । ततश्च. सुकरदुष्करयोरपि नामकीर्तनस्मार्तप्रायश्चित्तयोर्विकल्प उपपद्यत. इति भावः।
अत्र यत् कैश्चिदुच्यते-एकापूर्वप्रयुक्तमनेकमेकदृष्टम्पकारं कुर्वत् विकल्प्यते यथा व्रीहियवादयः, स्मार्तपौराणयोः पुनरपूर्व भेदाददृष्टार्थत्वाच न विकल्पइति ?
तत्र च वक्तव्यं-विकल्पनिराकरणेन किमनयोः समुच्चयः साध्यते किंवा व्यवस्था किं वाऽन्यतरस्यासाधनत्वं ? समुच्चयव्यवस्थे तावन्निराकृते, अन्यतरस्यासाधनत्वेऽपि तावन्नामकीर्तनस्य नासाधनत्वं तत्परत्वात्पुराणानाम् , अतः स्मात्तस्यासाधनत्वमेव परिशिष्यते, न च तस्याप्यसाधनता, एकापूर्वप्रयुक्तानामेव विकल्पइति नियमाभावात्, लौकिकानामश्चशिबिकाऽऽदीनामपि गमने विकल्पदर्शनाद्, भावार्थभेदेऽपि दाहच्छे. दादीनां चिकित्सायां, न च दृष्टार्थानामेव विकल्पः, अदृष्टार्थयोरपि ग्रहणाग्रहणयोस्तदर्शनाद्, अथ तत्र विरुद्धसमुच्चयायोगाद्विकल्पः ? तीहापि निरपेक्षसाधनसमुच्चयायोगाद्विकल्प एव । अपि च-अनेकापूर्वप्रयुक्तानामपि क्रममुत्तयर्थानां शाण्डिल्यदहरादिविद्यानां विकल्पो दृश्यते, न च वाचनिकोऽसाविति वाच्यं,वाऽऽदीनामश्रवणात् , तस्मात्तुल्यार्थत्वमेव विकल्पे प्रयोजकं; नान्यद्, न च दर्शपौर्णमासज्योतिष्टोमादिसाध्यस्वर्गभेदवदेवस्य पापस्य विनाशव्यक्तिभारोऽस्ति, येन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #151
--------------------------------------------------------------------------
________________
१३२
प्रकाशसहिता
ब्रह्महा द्वादशाब्दानि चरेद्, ब्रह्महा हरिं कीर्त्तयेदित्यनयोरपि भिन्नत्वाद् विकल्पः, तस्मादबाधितार्था एव स्मृतयः, न च विदुषः कर्मानुष्ठानायोगवद् अकृताधानस्योत्तरक्रतुकरणायोगवच्च, अकृतभगवत्कीर्त्तनस्य प्रायचित्तान्तरासंभवः, येन विद्वद्वाक्यवत् पूर्णाहुत्या सर्वान् कामानवाप्नोतीतिवाक्यवद्वा कीर्त्तनविषयाणामपि वाक्यानामानर्थक्यादर्थवादत्वमाश्रीयेत, तस्माद्यथाश्रुतएवार्थः पुराणवचनानामुदाहृतानामिति ।
एकेति । " चमसेनापः प्रणयेद्रोदोहनेन पशुकामस्ये” ति चमसगोदोहनयोरप्प्रणयननिष्पत्तिरूपैकोपकारकत्वेऽपि न विकल्पस्ततउक्तम् - एकापूर्वप्रयुक्तमिति । तयोस्तु नैकापूर्वप्रयुक्तत्वं गोदोहनस्य काम्यत्वेन दर्शाद्यपूर्वप्रयुक्तत्वाभावात् । श्रवघातप्रोक्षणयोरेकाग्नेयापूर्वप्रयुक्तत्वेऽपि न विकल्पोऽत उक्तम् - एकमुपकारं कुर्वदिति । दृष्टमिति । श्रदृष्टार्थानां विकल्पायोगादिति भावः ।
उक्त विकल्पप्रयोजकमङ्गीकृत्य दूषयति-तत्रेति । न च तस्यापीति । स्मृतिप्रामाण्यादिति भावः । उक्तं विकल्पप्रयोजकं दूषयतिएकेति । तत्र हेतु लौकिकानामिति हेतुगर्भं विशेषणम् । एकमुपकारं - कुर्वदित्यंशं दूषयति- भावार्थेति । भावार्थभेदो धात्वर्थभेदस्तेन चोपकारभेदो लक्ष्यते । विकल्पदर्शनादित्यनुषङ्गः । चिकित्साफलत्वेऽपि दाहच्छेदयोर्धात्वर्थयोर्भिन्नत्वादुपकारभेदेनावश्यं भवितव्यमिति भावः । श्रदिशब्देन भेषजपानम् । अथ तत्रेति । ग्रहणाग्रहणयोरित्यर्थः । इहापीति । नामकीर्त्तनस्मार्त्तप्रायश्चित्तयोरित्यर्थः । तत्र ब्रीहियववदश्वशिबिकावदिति दृष्टान्तद्वयं द्रष्टव्यम् । क्रममुक्त्यर्थानामिति । तुल्यार्थत्वं विकल्पहेतुरुक्तः । न च शाण्डिल्यादिविद्यानां विकल्पे मानाभावः, उत्तरमीमांसायां तत्साधनादिति भावः । वाssदीनामित्यादिशब्देन विकल्पशद्वः । स्वयं विकल्पप्रयोजकमाह-तस्मादिति । ननु दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामोयजेतेत्यैकस्वर्गार्थत्वेऽपि न विकल्पस्ततः कथं तुल्यार्थत्वं विकल्पप्रयोजकं ? यदि च न तत्रैकः स्वर्गस्तर्हि प्रकृतेऽपि नैकः पापक्षय इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #152
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी।
१३३ न विकल्प इत्याशङ्क्याह-नचेति।एकस्य पापस्येति हेतुगर्भ विशेषणं, स्वर्गे हि वैजात्यं, प्रकृते त्वेकस्य पापस्य विनाशमुद्दिश्य नामकीर्तनस्मार्तप्रायश्चित्तयोर्विधानाद्विकल्प इति भावः । ननु यथा “तरति ब्रम्ह हत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेदे"त्यश्वमेधचानस्य ब्रम्हहत्या. विनाशकत्वं, यथा वा “पूर्णाहुत्या सर्वान्कामानाप्नोति" इत्याधानाङ्गपूर्णाहुतेः सर्वकामहेतुत्वं श्रूयमाणमर्थवादमात्रमेवं नामकीर्तने पापक्ष. यहेतुत्वं श्रूयमाणमर्थवादमात्रमस्तु ? तत्राह-न चेति । अश्वमेधज्ञानपूर्णाहुत्योरश्वमेधाधानाङ्गत्वात्तावन्मात्रेण फलसिद्धौ क्रत्वनुष्ठानवैय.
•दर्थवादत्वं युक्तं, नामकीर्तनस्य तु स्मार्त्तप्रायश्चित्ताङ्गत्वे मानाभावात्पूर्वोक्तविधया स्मार्त्तप्रायश्चित्तानुष्ठानवैयर्थ्याभावाच्चपापक्षयश्रवणं. नार्थवाद इति भावः । अक्षरार्थस्तु-अविदुषः कर्मानुष्ठानायोगो, ऽशक्तरकृताधानस्योत्तरकतुकरणायोगोऽग्यभावादाधानसाध्यत्वादग्नीनाम् , एवमकृतनामकीर्तनस्य स्मार्त्तप्रायश्चित्ताभावो, न चेत्यन्वयः। विद्वद्वाक्यं “यउ चैनमेवं वेदेति पूर्वोक्तम् ।।
ननु यदि विनैव श्रद्धा कीर्तनादेव पापक्षयः तर्हि किमस्य प्रकरणस्य प्रयोजनम् ? अनेन हि श्रद्धव साध्यते, सत्यम्, अपगतेऽपि पापे मनोगतमश्रद्धानिवन्धनंदुःखं न निवर्तते, ततस्तदपगमलक्षणाय मनःसमाधानाय प्रकरणमेतदिति प्रकरणस्य प्रयोजनं, तस्मात्सवमनवद्यम् ।
सत्यमिति। नामकीर्तनाङ्गश्रद्धतद्वन्थप्रयोजनमिति न ब्रमः किं. तु श्रद्धाऽस्तु वा मा वा, नामकीर्तनं पापक्षयहेतुरेव, एतद्वन्थसाध्यश्रद्धायास्त्वश्रद्धानिबन्धनदुःखनिवृत्तिः प्रयोजनं, ततश्च मनसः समाधानम् ।
प्राकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसामाचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः । नो दीक्षां न च दक्षिणां न च पुरश्चयां मनागीक्षते मन्त्रोऽयं रसनास्पृगेव फलति श्रीरामनामात्मकः॥१॥ प्रन्थं परिसमाप्य नाममाहात्म्यानुसंधानलक्षणं मङ्गलं विधत्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #153
--------------------------------------------------------------------------
________________
१३४
प्रकाशसहिता आकृष्टिरिति । आकर्षणं बुधानामित्यर्थः। वश्यं - वशीकरणम् । मूकाः केवलं मुक्तिस्त्रियं वशीकर्तुमसमर्थाः; इतरे त्वाचण्डालं नाममा न्त्रेण वशीकर्तुं समर्थाः इत्यर्थः । प्रसिद्ध मन्त्रवैलतण्यमाह-नो दीक्षामिति । एवशब्देनाभ्यासाद्यनपेक्षत्वम् ॥ १॥ . • श्रीरामेति जनार्दनेति जगतां नाथेति नारायणेत्यानन्देति दयाधरेति कमलाकान्तेति कृष्णेति च । श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुमुह्यन्तं गलदधारमवशं मां नाथ नित्यं कुरु ॥२॥ नामकीर्तनाभिरुचिं प्रार्थयते-श्रीरामेति । नामैवामृताब्धिस्तल्लहरोकल्लोले मग्नं नाममात्रासक्तमित्यर्थः । मुह्यन्तं विषयानुसंधानशून्य, त्वात्। अवशं देहानुसंधानरहितम् ॥२॥
यदङ्कमालोकितुमाशु धावतांमुकुन्दयात्रोत्सवमीक्षितुं च यद् । अतच तच्च स्खलितं समं सता
मतो न लज्जा स्खलतामपीह नः ॥३॥ भगवन्नाममाहात्म्यनिरूपणे स्वकृते संभावितं स्खलितं न दोषा. येत्याह-यदङ्कमिति । अङ्कः कलङ्कः दुष्टं कर्मत्यर्थः। दुष्टकर्मावलोकनाय धावतां यत्स्खलितं परमेश्वरोत्सवदर्शनाय धावतां यत्स्ख. लितं तद्वयंसतांनसमं पूर्व लजाऽऽवहं; द्वितीयं तद्विपरीतमित्यर्थः । इह भगवन्नाममाहात्म्यनिरूपणे स्खलतोमप्यस्माकं न लजेति भावः॥३॥ - अपि च. . सुरसरित इव महामहाचल
गहनगुहाजायजालभेदिन्याः। हरिचरणजन्मभूमेः
स्खलितमपि कृतेरलंकृतिर्ननु नः ॥४॥ . प्रत्युत तदेतत्स्खलितं गुण इत्याह-सुरसरित इति।महान्तोऽचला. 'स्तेषांगहना गुहास्ता जाड्यजालानि मोहजालानि च भिनत्ति सुरस. रित्,कतिरपि महाचलगुहावजायजालानि मोहजालानि भिनत्तिा४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #154
--------------------------------------------------------------------------
________________
श्रीभगवन्नामकौमुदी ।
-
अथ वा
हरिभक्ति राजमार्गे गुरुपदनखचन्द्रिकाधौते । श्रुतिजननीपदपद्धतिमनुसरतां नः कुतः स्खलितम् ॥ ५ ॥ इदानीं नः स्खलितमेव नास्तीत्याह- हरिभक्तीति । हरिं भजतांगुरुसंप्रदायवतां श्रुतिमनुसरतां च नः स्खलितं न संभवतीति
१३५
भावः ॥ ५ ॥
धर्मः संविद्विषयविरतिः सिद्धयश्वाणिमाद्यायस्य श्रीमच्चरणनलिनद्वन्द्वपीठे लुठन्ति । यस्योन्मेषः सकलभुवनाम्भोजराजीनिमेषः सोऽस्मत्स्वामी जयति जगतां मङ्गलं यस्य नाम ॥ ६ ॥ महेशं प्रणमति-धर्म इति । संविद् ज्ञानं । विषयविरतिर्वैराग्यम् । नलिनं कमलम् | उन्मेषस्तृतीयनेत्रस्य, भुवनान्येवाम्भोजानि तेषां : राजी पक्तिस्तस्या निमेषः संकोचो नाश इति यावत् ॥ ६ ॥
अपि चस्वपादपङ्केरुहसीकरस्य निमज्य माहात्म्यमहार्णवे यः । दधौ पुनस्तं स्वयमेव मौलौ स नो गुरुस्तत्कुलदैवतं नः ॥७॥
गुरुं हरिहर कुलदैवतैर भेदेन चिन्तयन्स्तौति - खपादेति । स नोऽस्माकं गुरुर्जयतीति शेषः । स्वशब्दो हरिणा सहाभेदाभिप्रायेण हरिचरणोदकमाहात्म्यनिरूपणमहार्णवे निमज्येति संकीर्त्तनरूपहरिभक्तिप्रदर्शनम् । तं स्वपादपङ्केरुहसीकरं गङ्गाऽऽत्मकं स्वयमेव मौलौ दधाविति हरेणाभेदनिर्देशः, तत्र कुलदैवतमिति कुलदेवतया सहाभेदः ॥ ७ ॥
यदङ्घ्रिनखमण्डलाद्विगलितस्य पूर्व पुन|| दीपकबरी भरार्णवमुपेयुषः पाथसः । शेषजगदं हसां किमपि नाम निर्णेजनंदयाऽमृतमहाम्बुधेः किमुत नाम तस्यैव तत् ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #155
--------------------------------------------------------------------------
________________
१३६
प्रकाशसहिता
यदीति । यस्य विष्णोरङ्घ्रिकमलात्सदाशिवस्य च कबरीभराजटामण्डलाद्भूमिभागमागतस्य पाथसो जलस्य गङ्गाऽऽत्मकस्य नाम हसां पापानां निवर्त्तकं, “गङ्गा गङ्गेति यो प्रयादित्यादि " वाक्यात्, तस्य परमात्मनो; विष्णोः शिवस्य वा नाम पापनिवर्त्तकमिति किं वक्तव्यमित्यर्थः ॥ ८ ॥
नाधाय किं चिदपनीय न किं चिदन्तः स्वात्मैव येन सुखसिन्धुरगाधबोधः । आविष्कृतः करुणया करवै किमस्य तन्नाम्नि मग्नमिदमेव मनोऽस्तु पूजा ॥ ॥ स्वकीयकृतार्थतामभिनयति — नाधायेति । वस्तुतोऽनाधेयातिशयत्वान्निष्कलङ्कत्वाच्चात्मन इयमुक्तिः । येन गुरुणा परमात्मना वा करुणयाऽऽत्माऽऽविष्कृतस्तस्य किं करवै? श्रतस्तन्नाम्नि नम्रमभिमुखंमन एव पूजाऽस्तु ॥ ६ ॥
झटिति जगतामहस्तुलं दहद्दहनो महद्दहरकुहरध्वान्तं ध्वंसं नयन्नभसो मणिः । किरण लहरी चान्द्री चेतश्वकोरचमत्कृतिभवतु भवतां नामज्योतिर्मुदे मदनद्रुहः ॥ १० ॥ इति श्रीमदनन्तानन्दरघुनाथ परमहंस परिव्राजकाचार्य्यपादपद्मोपजीविनः श्रीमन्नृसिंहसृनोर्लक्ष्मीधरस्य कृतौ भगवन्नामकौमुद्यां नामकीर्त्तनस्य केवलस्यैव पुरुषार्थसाधनत्वप्रतिपादनं नाम तृतीयः परिच्छेदः ।
नन्दानन्दकरं करम्बितकरं हैयङ्गवीनैर्नवः शोभामादधतं नवीनजलदे मीलत्सुधांशोः स्फुटम् । भक्तानां हृदयस्थितं सततमप्याभीरदृग्गोचरंगोपालं भजतां मनो मम सदा संसारविच्छित्तये ॥ वद जिह्वे वद जिह्वे चतुरे श्रीराम रामेति । पुनरपि जिह्वे वद वद जिह्वे वद राम रामेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #156
--------------------------------------------------------------------------
________________
श्रीभगवन्नाम कौमुदी |
नादौ संसारे निरवधिक जन्मखविरतैर्महाघैरेवान्तश्चितकलुषताया हि दहनम् । महीघ्राणां भस्मीकृतिगहन संवर्त्तशिखिनोभवन्नाम्नः कुत्तेः कियदिव हरे ! खण्डनलवत् ॥ इति । शम् ।
-
टितीति । मदनदुहः सदाशिवस्य नामज्योतिर्भवतां मुदे भवतु, ज्योतिष्षं विवृणोति – जगतामहस्तूलं दहन् दहनः महतां दहरकुहरे स्वान्ताकाशे ध्वान्तमज्ञानलक्षणं नाशं नयन् नभसो मणिः सूर्यः, चान्द्रो किरणलहरीति ; चेतश्चकोराणां चमत्कृतिर्यस्याः सकाशादिति ॥१०॥ भगवन्नामकौमुद्याः प्रकाशोऽयं विनिर्मितः । संतोषयतु भक्तानां चेतः कुमुदमण्डलीम् ॥ १ ॥ इत्येषा वाङ्मयी पूजा श्रीमङ्गोपालपादयोः ॥ अर्पिता तेन मे देवः प्रीयतां गोकुलेश्वरः ॥२॥
इति श्रीमदापदेवसूनुनाऽनन्तदेवेन विरचिते श्रीभगन्नाम कौमुदी प्रकाशे तृतीयः परिच्छेदः समाप्तः ॥
१३७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #157
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #158
--------------------------------------------------------------------------
________________
श्रीः।
तेनो
स्माद्द
सटिप्पनीकटीकासहितश्रीभगवन्नामकौमुद्याः
शुद्धिपत्रम्पृ० ५० अशुद्धिः। शुद्धिः। पृ० ५० अशुद्धिः। शुद्धिः । ३२२० उम्मेषो- उन्मेषो- ८०१३ भावानामङ्ग भावाङ्ग
२८ ते श्रुते ,, ।१६ निजसुख निजस्व १७.२३ वा श्र वाऽश्र ८२।१६ धाव धाघ
१६१० भवत भवति ,, २६ निज हणम्,निज ~ २७चिच्छ चिच्छ
१०।२१ णान्त रणन्ति २४।२१ तेतो
६३।२१ व्यर्थ प्यनर्थ ,, २८ वातु वानु ६५॥ ४ स्माद्द , ३१ सत्र सूत्र १००।२२ बहू २६॥ ७ सव
१०३।२० कश्ये क्रुश्ये २७५ सत्रे सूत्रे ,, ।२२ बहू ३८। १ मुक्त मुक्त १०६।६मर्थ ४२॥ २ शाब्द शाब्दा १२१॥ ६ नापि ४३॥ १ जना
१९६।११ कीत्त ५०१८ अन्य अन्ये १२२२२६ सव ५१२२१ तद्
१२५॥२३ मात मोक्ष , २८ भिव भिर्वि १२७२३ हात ५७। २ पत्तित्ति पत्ति १२६। २ नान्न नर्नि ,,। ७ माद मादे
"। ६षाथ ६२१६ णोभ्य णेभ्य
, १७ कैस्य
कस्यै ६२ - तब तह
, २५ वृत्तः ७४।१२ वक्त वकृ निर्दिष्टाशुद्धीविहायापि बहुत्र बवयोमिथोजातोव्यत्ययो विज्ञविवेच्यः।
किंचव्यशीतितमपृष्ठस्थटीका घशीतितमपृष्ठीयटीकाया अग्रिमा बोध्येति ।
बह
নখ प्रापि
जाना
सर्व
हीत
वृत्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #159
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #160
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com