Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 198
________________ १७८ अलङ्कारसूत्रं [विकल्प विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात् तुल्यबलयोरेकत्र युगपत् प्राप्तौ विरुद्धत्वादेव यौगपद्यासम्भवे विकल्पः । औपम्यगर्भत्वाच्चात्र चारुत्वम् । यथा - 'नमयन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणविशिष्टत्वम् । सन्धिविग्रह चात्र क्रमेण तुल्ये प्रमाणे, प्रतिराज - विषयत्वेन स्पर्धया द्वयोरपि संभाव्यत्वात् । द्वौ चेमौ विरुद्धाविति नास्ति तयोर्युगपत् प्रवृत्तिः । प्राप्नुवतश्च युगपत् प्रवृत्ति प्रकारान्तरस्यात्रानाशङ्कयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । नमनकृतं च तयोः सादृश्यमित्यलङ्कारता । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्चात्र चारुत्वम् । कचिच्छ्रेषावष्टम्भेनाप्ययं दृश्यते । यथा - भुञ्जीत चेति स्नानभोजनयोरविरुद्धयोः सामानाधिकरण्येऽपि, नापि च (न) हिंस्यात् सर्वा भूतानीति, अग्नीषोमीयं पशुमालभेतेति हिंसानिषेधविध्योरेकविषयत्वे विरोधे च सत्यपि सामान्यविशेषविषयत्वेन दुर्बलप्रबलयोरित्यभिप्रायेणाह – विरुद्वयोरित्यादि । औपम्यगर्भत्वादिति । अत्र वैवक्षिकमौपम्यं विवक्षितम् । शिरःप्रभृतीनां च धनुरादीनां च प्राकरणिकाप्राकरणिकत्वाभावात् । औपम्यगर्भत्वं चालङ्कार प्रस्तावादर्थलब्धमित्याह – चारुत्वमिति । न द्यौपम्याभावे गृह्णाति न गृह्णातीत्यादौ विकल्पे सत्यप्यलङ्कारता, चारुत्वाभावात् । नमन इति । नतिं प्रति प्रयोजकव्यापारे । प्रमाणयोस्तुल्यत्वमुपपादयति – प्रतिराजवि षयत्वेनेति । प्रकारान्तरस्य सन्धिविग्रहव्यतिरिक्तस्य । एवं कर्णेत्यादि । प्रतिराजकार्ये कर्णपूरीकरणे आज्ञानां मौर्बीणां च सन्धिविग्रह १. 'द्याभावे', २. 'दौ', ३. 'हावत्र' क. ख. पाठः. ४. 'त्यल', ५. 'मानुषीणां' ग. पाठः.

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280