Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
गुणप्रकरणम्
291
त्रयोऽपि तेजोविभवादृशस्ते
त्रयोऽपि देवास्तव चांशभूताः ॥३१९ ॥ २३) 'स्वरारोहावरोहरम्यत्वं गतिः ॥ यथा
गुणानां वर्णनायां ते परिशेषमुपेयिवान् । सहस्रवदनश्शेष इत्युक्तो रघुनन्दन ॥३२० ॥
अत्र पूर्वार्दै दीर्घाक्षरप्रायत्वात् स्वरारोहः। उत्तरार्द्ध तदभावात् अवरोहः ।
एते गुणाः सधर्मा एव समुचितवर्णै: व्यज्यन्ते। न सङ्घटनाधर्माः । ननु गुणानां सङ्घटनाधर्मस्वाभावे गुणालङ्कारस्वरूपभेद एव दुर्निरूपः ।
यो हेतुः काव्यशोभायाः सोऽलङ्कारः प्रकीर्त्यते । गुणोऽपि तादृशो ज्ञेयो दोषस्स्यात्तद्विपर्ययः ॥ इति
रुद्रटेन गुणालङ्कारस्वरूपप्रतिपादनादिति चेन्मैवम् । नेदं गुण स्वरूपमिति प्रागेवोक्तत्वात् । नाप्यलकारस्वरूपमिति वक्ष्यमाणत्वाच्च । गुणादीनां शौर्यादीनामिव समवायसम्बन्धाङ्गीकारात् अलकाराणां च हारादीनां कण्ठादिनेव संयोगसम्बन्धाङ्गीकारात् सम्बन्धभेदेनैव गुणालङ्कारभेदसिद्धेश्च ।
'त' प्रतो 'लोकास्त्रियामो रघुनाथसृष्टिः' इति वर्तते। सोऽपि
न युक्तः। अतः अत्र लोकास्त्रयस्ते रघुरामसृष्टिः इति शोधितः । 1 स्वराणामारोहावरोहरम्यत्वं गतिः-त * गतिर्नाम सुरम्यत्वं स्वरारोहाबरोहयोः ॥ (प्र. रु. गु. प्र.)
परधर्मा एव-म
19.

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354