SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ गुणप्रकरणम् 291 त्रयोऽपि तेजोविभवादृशस्ते त्रयोऽपि देवास्तव चांशभूताः ॥३१९ ॥ २३) 'स्वरारोहावरोहरम्यत्वं गतिः ॥ यथा गुणानां वर्णनायां ते परिशेषमुपेयिवान् । सहस्रवदनश्शेष इत्युक्तो रघुनन्दन ॥३२० ॥ अत्र पूर्वार्दै दीर्घाक्षरप्रायत्वात् स्वरारोहः। उत्तरार्द्ध तदभावात् अवरोहः । एते गुणाः सधर्मा एव समुचितवर्णै: व्यज्यन्ते। न सङ्घटनाधर्माः । ननु गुणानां सङ्घटनाधर्मस्वाभावे गुणालङ्कारस्वरूपभेद एव दुर्निरूपः । यो हेतुः काव्यशोभायाः सोऽलङ्कारः प्रकीर्त्यते । गुणोऽपि तादृशो ज्ञेयो दोषस्स्यात्तद्विपर्ययः ॥ इति रुद्रटेन गुणालङ्कारस्वरूपप्रतिपादनादिति चेन्मैवम् । नेदं गुण स्वरूपमिति प्रागेवोक्तत्वात् । नाप्यलकारस्वरूपमिति वक्ष्यमाणत्वाच्च । गुणादीनां शौर्यादीनामिव समवायसम्बन्धाङ्गीकारात् अलकाराणां च हारादीनां कण्ठादिनेव संयोगसम्बन्धाङ्गीकारात् सम्बन्धभेदेनैव गुणालङ्कारभेदसिद्धेश्च । 'त' प्रतो 'लोकास्त्रियामो रघुनाथसृष्टिः' इति वर्तते। सोऽपि न युक्तः। अतः अत्र लोकास्त्रयस्ते रघुरामसृष्टिः इति शोधितः । 1 स्वराणामारोहावरोहरम्यत्वं गतिः-त * गतिर्नाम सुरम्यत्वं स्वरारोहाबरोहयोः ॥ (प्र. रु. गु. प्र.) परधर्मा एव-म 19.
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy