SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 338 अलङ्कारमणिहारे नवनीतम्। हन्त हरेः किंन्विदमिति मनःकषायं ममातिकटु हेयम् ॥ १९८६॥ ___ इदं किंन्विति किंवस्त्विति हरेरिति योजना। मनसः कषायं रागादिवासनां प्रसिद्धनिम्बादिक्काथनिष्पादितं कषायं च 'निर्यासेऽपि कषायोऽस्त्री' इत्यमरः । अत्र वक्तुमनःकषायस्य पयस्त्वाद्यभावः प्रसिद्ध एव कथ्यमानस्तस्या स्वादुतमक्षीरादिहरण एव तवादरः न त्वस्मदीयजुगुप्सिततरमनःकषायहरणे इति परिहासमभिप्रेति । स च अतिकटु हेयामिति विशेषणाभ्यां कषायमिति विशेष्येण च प्रादुष्कृतः ॥ इत्यलङ्कारमणिहारे प्रतिषेधसरो द्वयधिकशततमः. अथ विधिसरः (१०३) सा विध्यलंकृतिर्यत्र सिद्धमेव विधीयते । यन्नितिविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भिकारेण सु. न्दरतरं स विधिनामाऽलंकारः । यथाऽऽहुः ज्ञातार्थस्य विधानं यदुपयोगपरिच्युतम् । अभिप्रायान्तरं गर्भीकुर्वद्विच्छित्तिशालि चेत् ॥ विध्यलङ्कारमाहुस्तं साहित्यपरिशोलिनः । इति ॥ यथावा तत्वं ब्रवीमि भगवस्त्वं त्वं जीवस्तु जीव एव हरे। जगदीश्वरतहासौ जगदाते केन मतिमताऽनन्यौ ॥ १९८७ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy