Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-२, अध्ययनं-६,
४२९
स्वेच्छाचारिकारितयाऽसावपि तीर्थकृन्नामकर्मणः क्षपणायन यथाकथंचिद्, अतोऽसावग्लानः 'इह' अस्मिन्संसारेआर्यक्षेत्रेवोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनांतदुपकाराय धर्मदेशनां व्यागृणीयादसाविति । किंचान्यत्मू. (७५५) गंता च तत्था अदुवा अगंता, वियागरेजा समियासुपन्ने।
अनारिया दंसणओ परित्ता, इति संकमाणो न उवेति तत्थ ॥ वृ. 'गते' त्यादि, स हि भगवान् परहितैकरतो गत्वापि विनेयासन्नमथवाऽप्यगत्वा यथा वथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विदधति, उपकारे सति गत्वाऽपिकथयन्त्यसतितुस्थिताअपिन कथयन्तीत्यतोनतेषांरागद्वेषसंभव इति, केवलमाशुप्रज्ञसर्वज्ञः 'समतया समद्दष्टितयाचक्रवर्तिद्रमकादिषु पृष्टोऽपृष्टो वाधर्मव्यागृणीयात् 'जहापुण्णस्स कत्थइ तहातुच्छस्स कत्थइ' इतिवचनादित्यतोन रागद्वेषसद्भावस्तस्येति। यत्पुनरनार्यदशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपि परि-समन्तादिताः-गताः प्रभ्रष्टा इति-यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति।
यदिवा-अविपरीत दर्शनाः-साम्प्रतक्षिणो दीर्घदर्शनिनोन भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपरामुखेषु तेषु भगवान्न याति, न पुनस्तह्वेदिबुद्धयेति । यदप्युच्यते त्वया-'यथाऽनेकशास्त्रविशारदगुडिकासिद्धविद्यासिद्धादितीर्थिकपराभवभयेन नतस्तमाजेगच्छती'त्येतदपि बालप्रलपितप्रायं, यतः सर्वज्ञस्य भगवतः समस्तैरपि प्रावादुकैर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतःकुतस्तत्पराभवः?,भगवांस्तु केवलालोकेन यत्रैवस्वपरोपकारंपश्यति तत्रैवगत्वाऽपि धर्मदेशनां विधत्त इति । पुनरन्येन प्रकारेण गोशालक आहमू. (७५६) पन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संग।
तऊवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका॥ वृ.यथावणिक्कश्चिद् ‘उदयार्थी' लाभार्थी 'पण्यं व्यवहारयोग्यंभाण्डंकर्पूरागरुकस्तूरिकाम्बरादिकंगृहीत्वा देशान्तरंगत्वा विक्रीणाति,तथा 'आयस्स' लाभस्य हेतोः' कारणान्महाजनसङ्गं विधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणोज्ञातपुत्रइत्येवं मे मम मतिर्भवति, वितर्कोमीमांसा वेति। मू. (७५७) नवं न कुजा विहुणे पुराणं, चिच्चाऽमई ताइ य साह एवं ।
एतोवया बंभवतित्ति वुत्ता, तस्सो दयट्ठी समणेत्तिबेमि ।। वृ.एवमुक्ते गोशालकेनाक आह-'नवंन कुजा इत्यादि, योऽयं भवता दृष्टान्तप्रदर्शितः स किं सर्वसाधम्येोत देशतः ?, यदि देशतस्ततो ननः क्षतिमावहति, यतो वणिग्वत् यत्रैवोपचयंपश्यतितत्रैव क्रियां व्यापारयतिन यथाकथञ्चिदित्योतावतासाधर्म्यमस्त्येव, अथ सर्वसाधर्येण तत्रयुज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो नवंप्रत्यग्रं कर्मनकुर्यात्
तथा विधूनयति अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा त्यक्त्वा 'अमति' विमतिं त्रायी भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484