Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ घण्टापथः। चतुर्थभाग-घण्टापथः। अर्हम्। इह हि प्रायोऽनवद्यहृद्यविद्याविद्योवितान्तःकरणानामनवरतान्तः स्थमहासपत्नपरासनप्रयतानाममेध्यहेयहिंसाऽऽदिगद्यपदार्थसार्थगहनतरगहनागमविच्छेदपर्श्वधिधाराधराणामधरीकृतधराधरक्षमाधराणामपूर्वपूर्वभवोपार्जितशुभयुकर्मपरिपाकसमुखीनानामसंमुखीकृतपरावज्ञाऽज्ञानतिमिराणाममितचरित्रपवित्रितान्तःकरणानां विलक्षणलक्षणानां स्वेतरदोषदर्शनदवीयसां मनस्विमहीयसां दुरितभरितक्षीवक्षितिपतिप्रसादनिरादराणामहो खलु साम्प्रतं मम पचेलिम भागधेयमिति मन्यमानानां द्राघिष्ठमुदकमुन्निनीषूणां विगतकुहनाऽऽटोपाना मुक्तिमहेलासंवरणोत्सुकानां प्रादुर्भूतविशङ्कट बोधानां किम्पचानप्रतिपन्थिनां समवगलितनवतत्त्वनिकुरकुरम्बाना महत्याऽऽरभट्या धर्मदेशनाश्रावणाऽभयविश्राणनसमुत्सुकानां खलोक्तिकाटवमपि मर्षणीयमिति निर्धारितमानसानां प्रपदनिमग्ननृपतिनिटिलकिरीटानां वरिष्ठ प्रष्ठानां सततमहोत्सवमासेदुषां विदुषां परमहंसानां मानसं स्वच्छन्दोच्छलदच्छसंवराऽऽशयसमं सन्मतावागाहनाऽवसरे मध्यमभुवनभागधेयपरिपाक स्वरूपं तत्त्वाप्रस्थितिशुभशृङ्गाटकानुकारि मिथ्यात्विदर्शनाकूपाराऽऽचान्त्यै लोपामुद्राधवमुद्राधरं गाधीकृतसौगतशासनाऽऽशयनिगूढतत्त्वं प्रालेयमहीध्रवन्नितान्तयशोविशदमस्तोकमुक्ताफलाऽऽपीडवशिरसा श्लाधनीयमुत्कटप्रत्यग्रप्रसृमरनीरन्ध्रसदुपदेशसुधाविन्दुवृष्टिभिराप्याचितभव्यभविकस्वान्तक्षेत्रं पठनाऽऽकर्णनाभ्यां माध्वीकमृद्वीकयोरप्यधरीकृतमाधुर्य जनिताऽऽमोदभूमो-- दयं मानसकासारमिवाऽऽर्हन्मतमेवाजस्रं धिनोति / यत्र शृङ्गग्राहिकया जीवाजीवाऽऽदिसमस्तवस्तुविवेचन विधीयते यत्र च सुखतल्पकल्पेऽनल्पनिद्रामुद्रितनयनस्य विद्रावितद्वापरस्याऽऽकल्पं निद्राणस्याकुतोभयस्य जल्पाकेन साकं जल्पाऽऽयासावसरमपि नायाति, गम्भीरगर्जनविद्रावितगिरिग्रावस्य गिरिगर्भ शयानस्य पञ्चाननस्येव यस्य नामश्रवणमात्रेण मदमलिनगण्डाऽऽभोगाः पद्मिन इव कुमतावलम्बिनो गृहीतदिकाः पुनरावर्तनमपि न स्पृहयन्ति, येनाऽऽस्थानीमास्थितस्य वादकथासंप्रलग्नरस निकटं जयोऽवश्यमभ्युपैति, कौक्षेयकमिव यमवलम्ब्य प्रत्यर्थिप्रवर्तितप्रेतानुकारिनिग्रहस्थानकन्धराकर्तनाय कुशलीभवति भव्यवर्गः, योयुपगतोपघ्नानां निजनिघ्नानां विघ्नसङ्घ मपहस्तयते / प्रातिस्विकरूपेण निर्धारितोऽयमर्थः प्रथमभागोपोद्घातेऽस्माभिरित्यलं प्रसक्तानुप्रसक्त्याऽकाण्डताण्डवाऽऽडम्बरेण वा / किं बहुना यत्प्रवर्तका एव परार्थसंपादनसमर्पितजीविताः स्वार्थनिरपेक्षाः समस्तजीवजीवातुप्रदानदक्षाः सौधर्मेन्द्राऽऽदिनिर्वर्तितजन्माभिषेकाः सुधाधोरणीकल्प- | नजदेशनया संसारासातसंतप्तजन्तूनां विहितसेका अष्टमहाप्रातिहार्यपरिकलिताश्चतुस्त्रिंशदतिशयविराजिता रागद्वेषाऽऽद्यन्तरङ्गारिविप्रमुक्ता पराभिसंधानाध्ययनविमुखास्तत्त्वपारावारतलस्पर्शिनः परमदुर्गतिसमापन्नदुर्भगजनतानिरीक्षणसमुत्पन्नकरुणरसोद्गारपुलकितान्तः करणा दरीदृश्यन्ते, तद्वचनसुधासारणीसमवगाहनसुखैषिणः पुरोभागिभिन्नाः के वा न भवेयुः? यद्यपि तृतीयभागप्रस्तावे समारोन निरूपितोऽयं विषयः प्रयत्नप्रयतैरस्माभिस्तथापि वाचकवर्गमनः पोषाय कदाग हग हिलतोषाय सोहापोहं भगवता तीर्थकृतां रागद्वेषविप्रमुक्तत्वमेवोद्घाट्यते, यत्सत्तायामेव तेषामुपादेयवचनताऽनिर्वचनीयतामावहति / तथाहि-ननु तीर्थकृतां रागाऽऽदिभिः सहाऽऽत्यन्तिको वियोगोऽसंभवी, प्रमाणवाधनात् / तच्च प्रमाण-मिदम् यदनादिमद् न तद्विनाशमाविशति, यथाऽऽकाशम्, अनादिमन्तश्व रोगाऽऽदय इति / किश-रागाऽऽदयो धर्माः,ते च धर्मिणो भिन्नाः, अभिन्ना वा? यदि भिन्ना स्तर्हि सर्वेषामविशेषेण वीतरागत्वप्रसङ्गः, रागेभ्यो भिन्नत्वात्, विवक्षितपुरुषवत् / अथाभिन्नास्तर्हि तत्क्षये धर्मिणोऽप्यात्मनः क्षयः, तदभिन्नत्वात्, तत्स्वरूपवत्, इति कुतस्तेषां वीतरागत्वम्? तस्यैवाऽभावादिति / अत्रोच्यते-इह यद्यपि रागाऽऽदयो दोषा अनादिमन्तः, तथापि कस्यचित स्त्रीशरीराऽऽदिषु यथाऽवस्थितवस्तुतत्त्वावगमेन तेषां रागाऽऽदीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः संभाव्यते-- विशिष्टकालाऽऽदिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः / अथ यद्यपि प्रतिपक्षभावनात : प्रतिक्षणमपचयो दृष्टस्तथाऽपि तेषामात्यन्तिकोऽपि क्षयः संभवतीति कथमसेयम्? उच्यते-अन्यत्र तथा प्रतिबन्धग्रहणात् / तथाहि- शीतस्पर्शसंपाद्या रोमहर्षाऽऽदयः, ते च शीतप्रतिपक्षस्य वहेमन्दतायां मन्दा उपलब्धाः,उत्कर्षे च निरन्वयविनाशधर्माणः / ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मन्दतादर्शनाद बाधकोत्कर्षेऽवश्यं बाध्यस्य निरन्वयो विनाशो वेदितव्यः, अन्यथा बाधकामन्दतायां मन्दताऽपि न स्यात् / अथाऽस्ति ज्ञानस्य ज्ञानाऽऽवरणीय कर्म बाधक, ज्ञानाऽऽवरणीयकर्ममन्दतायां च ज्ञान-स्यापि मानगमन्दता / अथ च प्रबलज्ञानाऽऽवरणीयकर्मोदयोत्कर्षेऽपि ज्ञानस्य न निरन्वयो विनाशः / एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागाऽस-दीनामत्यन्तोच्छेदो भविष्यतीति / तदयुक्तम् / द्विविधे हि बाध्यम् संहभूतस्वाभावमभूतम्, सहकारिसंपाद्य स्वभावभूतं च। तत्र यत् सहभूत्स्वभावभूतं, तन्न कदाचिदपि निरन्वयविनाशमाविशति, ज्ञानं चाऽऽत्मनः सहभूतस्वभावभूतम्, आत्मा च परिणामी नित्यः, ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानाऽऽवरणीयकर्मोदये न निरन्वयविनाशो ज्ञानस्य रागाऽऽदयस्तु लोभाऽऽदिकर्मविपाकोदयसंपादितसत्ताकाः, ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति / नन्वा सता कर्मसंपाद्या रागाऽऽदयः, तथापि कर्मनिवृत्तौ ते निवर्तन्ते इति नावश्यं नियमः। न हि दहननिवृत्तौ तत्कृता काटेऽङ्गारता निवर्तते। तदसत्। यत इह किशित्वचित् निवर्त्य-विकार

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 1456