Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 40
________________ समातननग्रंथमालायांसद्वाहिणः प्रत्ययस्य भावात् स्वसंतानस्याप्यनिष्टौ संविदद्वैतं कुतः साधयेत् स्वतःप्रतिभासनादिति चेन्न। तथा वासनाविशेषादेव स्वतःप्रतिभासस्यापि भावात् । शक्यं हि वक्तुं स्वतःप्रतिभासवासमावशादेव स्वतःप्रतिभासः संवेदनस्य न पुनः परमार्थत इति न किंचित्पारमार्थिकं संवेदनं सिध्येत् । तथाच स्वरूपस्य स्वतोगतिरिति रिक्ता वाचो युक्तिः । तदनेन कुतश्चिकिचित्परमार्थतः साधयता दूषयता वा साधनज्ञानं दूषणज्ञानं वाऽभ्रांतं सालंबनमभ्युपगंतव्यं । तद्वत्सर्वमबाधितं ज्ञानं सालंबनमिति कथमिहेदमिति प्रत्ययस्याबाधितस्य निरालंबनता येन वासनामात्रहतुरयं स्यात् । नापि निर्हेतुकः कदाचित्कत्वात् । ततोऽस्य विशिष्टः पदार्थो हंतुरभ्युपगंतव्य इति वशषिकाः तेऽप्येवं प्रष्टव्याः । कोऽसौ विशिष्टः पदार्थः समवायः संबंधमात्रं वा ! न तावत्समवायः, तद्धतुकत्व साध्यऽस्यहदमिति प्रत्ययस्यह कुंडे दधीत्यादिना निरस्तसमस्तबाधकेन प्रत्ययेन व्यभिचारित्वात् , तदपीहेदमिति विज्ञानमबाधं भवत्येव । नच समवायहेतुकं तस्य संयोगहेतुकत्वात् । संबंधमात्रे तु तन्निबंधने साध्ये परषां सिद्धसाधनमेव, स्याद्वादिनां सर्वत्रेहेदं प्रत्ययस्याबाधितस्य संबंधमात्रनिबंधनत्वेन सिद्धत्वात् । स्यान्मतं । वैशेषिकाणामबाधितेहेदं प्रत्ययाल्लिंगासामान्यतः संबंधे सिद्धे विशेषणावयवावयविनोगुणगुणिनोः क्रियाक्रियावतो: सामान्यतद्वतोविशेषतद्वतोश्च यः संबंध इहेदं प्रत्ययलिंगः स समवाय एव भविष्यति लक्षणविशेषसंभवात् । तथा हि "अयुतसिद्धानामाधार्याधारभूतानामिहदं प्रत्ययलिंगो यः संबंधः स समवाय इति प्रशस्तकरः" । तत्र इहेदं प्रत्ययलिंगः समवाय इत्युच्यमानेऽतरालाभावनिबंधनेन इह प्रामे वृक्ष इति इहेदं प्रत्ययेन, व्यभिचारात् संबंध इति वचनं । संबंधो हि इहेदं प्रत्ययलिंगो यः स एव समवाय इष्यते नचांतरालाभावो प्रामवृक्षाणां संबंधइति न तेन व्यभिचारः । तथापि इहाकाशे शकुनिरिति इहेदं प्रत्ययेन संयोगसंबंधमात्रनिबंधनेन व्यभिचार इत्याधाराधेयभूतानामिति निगद्यते । न हि यथाऽवयवावयव्यादीनामाधाराधेयभूतत्वमुभयोः प्रसिद्ध तथा शकुन्याकाशयोरौत्तराधर्यायोगात् आकाशस्य सर्वगतत्वन शकुनेरुपर्यपि भावादधस्तादिवति न तत्रंहेदंप्रत्ययेन व्यभिचारः । नन्वाकाशस्यातींद्रियत्वात्तदस्मदादीनामिहेदं प्रत्ययस्यासंभवात् कथं तेन व्यभिचारचोदना साधीयसीति न मंतव्यं । कुतश्चिल्लिंगादनुमितऽप्याकाशे श्रुतिप्रसिद्धर्वा कस्यचिदिहेदमिति प्रत्ययाविरोधात् तत्र, भ्रांतेन वा कषां चिदिहेदमिति प्रत्ययेन व्यभिचारचोदनायाः न्यायप्राप्तत्वात् तत्परिहारार्थमाधाराधयभूतानामिति वचनस्योपपत्तेः । नन्वेवमपीह कुंड दधीति प्रत्ययेनानेकांतस्तस्य संयोगनिबंधनत्वन समवायाहेतु. त्वादिति न शंकनीयमयुतसिद्धनामिति प्रतिपादनात् । नहि यथावयवावयव्यादयोऽयुतसिद्ध स्तथा दधिकुंडादयः तेषां युतसिद्धत्वात् । तह्ययुतसिद्धानामवति वक्तव्यमाधागधेयभूतानामिति वचनस्याभावऽपि व्यभिचाराभावादिति न चेतसि विधेयं । वाच्यवाचकभावनाकाशाकाशशब्दयोय॑भिचारात् ॥ इहाकाशे वाच्ये वाचक आकाशशब्द इति इहेदंप्रत्ययलिंगस्यायुतसिद्धसंबंधस्य बाच्यवाचक भावप्रसिद्धः तेन व्यभिचारोपपत्तेराधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वाधाराधेयभूतानामयुनसिद्धानामपि संबंधस्य विषयविषयिभावस्य सिद्धेः कुतः समवायसिद्धिः । नह्यात्मनि-इच्छादीनां ज्ञानमयुतसिद्धं न वभति । तथाहमितिज्ञानमाधाराधेयभावस्याप्यत्र भावात् नचाहमिति प्रत्ययस्यात्मविष यस्यायुतसिद्धस्यात्माधारस्य विषयविषयिभावोऽसिद्ध इति कुतस्तयो: समवाय एव सिध्येदिति न वक्तव्यं । आधाराधेयभूतानामेवायुतसिद्धानामवति चावधारणात् । वाच्यवाचकभावो हि युतसिद्धानामनाधाराधयभूतानां च प्रतीयते विषयविषयिभाववत् । ततेऽनेनानवधारितविषयेण न व्यभिचारः संभाव्यते । नन्वेवमयुतीसद्धानामेवेत्यवधारणाद्व्यभिचाराभावादाधाराधेयभूतानामिति वचनमनर्थकं स्यात् आधाराधेयभूतानामेवेत्यवधारणे सत्ययुतसिद्धानामिति वचनवत् ॥ विषयविषयिभावस्य वाच्यवाचकभावस्य च युतसिद्धानामप्यनाधार्याधारभूतानामिव संभवात् तेन व्यभिचाराभावादिति च . अयुतसिद्धभिनानामित्यर्थः ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182