Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 62
________________ ४ सनातनजैन ग्रंथमालायां त्येवोच्यते न पुनः स्वरूपं गृह्णाति ग्राह्यग्राहकवैधुर्य च स्वरूपादव्यतिरिक्तं गृह्णाति जानातीत्यभिधीयते । निरंशसंवेदनाद्वैते तथाभिधानविरोधादिति । तदपि न पुरुषाद्वैतवादिनः प्रतिकूलं स्वयं प्रकाशमानस्य संवेदनस्यैव परमपुरुषत्वात् । नहि तत्संवेदनं पूर्वापरकालव्यवच्छिन्नं संतानांतरवहिरर्थव्यावृत्तं च प्रतिभासते यतः पूर्वापरक्षण संतानांतर बहिरर्थानामभावः सिध्धेत् तेषां संवेदनेनाग्रहणाभाव इतिचेत् स्वसंवेदनस्यापि संवेदनांतरेणाग्रहणादभावोऽस्तु तस्य स्वयं प्रकाशनान्नाभाव इतिचेत् पूर्वोत्तरस्वसंवित्क्षणानां संतानांतरसंवेदनानांच बहिरर्थानामिव स्वयं प्रकाशमानानां कथमभावः साध्यते कथंतेषां स्वयं प्रकाशमानत्वं ज्ञायत इतिचेत् स्वयमपूकाशमानत्वं तेषां कथं साध्यत इति समानः पर्यनुयोगः ॥ स्वसंदेनस्वरूपस्य प्रकाशमानत्वमेव तेषामप्रकाशमानत्वमितिचेत्तार्ह तेषां प्रकाशमानत्वमेव स्वसंवेदनस्यैवापूकाशमानत्वं किं न स्यात् ? स्वसंवेदनस्य स्वयमप्रकाशमानत्वे परैः प्रकाशमानत्वाभावः साधयितुमशक्यः प्रतिषेधस्य विधेर्विषयत्वात् सर्वत्र सर्वदा सर्वथाऽप्यसतः प्रतिषेधविरोधात् इतिचेत्तर्हि स्वसंवेदनात्परेषां प्रकाशमानत्वाभावे कथं तत्पूति - षेधः साध्यत इति समानश्चर्चः । विकल्पपूतिभाषिणां तेषां स्वसंवेदनावभासित्वं पूतिषिध्यत इतिचेन्न विकल्पावभासित्वादेव स्वयं प्रकाशमानत्वसिद्धेः । तथाहि यद्यद्विकल्पपूतिभासि तत्तत्स्वयं प्रकाशते यथा विकल्पस्वरूपं तथा च स्वसंवेदन पूर्वोत्तरक्षणाः संतानांतरसंवेदनानि वहिरर्थाश्चेति स्वयं प्रकाशमानत्वसिद्धिः शशविषाणादिभिर्विनष्टानुत्पन्नैश्च भावैर्विकल्पावभासिभिर्व्यभिचार इति चेन्न तेषामपि प्रतिभासमात्रांतर्भूतानां स्वयं प्रकाशमानत्वसिद्धेः अन्यथा विकल्पावभासित्वायोगात् । सोऽयं सौगतः सकलदेशकालविप्रकृष्टानप्यर्थान् विकल्पबुद्धौ पूतिभासमानान् स्वयमभ्युपगमयन् स्वयंपूकाशमानत्वं नाभ्युपैतीति किमपि महाद्भुतं ? तथाभ्युपगमे च सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्वसिद्धेः पुरुषाद्वैतसिद्धिरेव स्यात् न पुनस्तद्वहिर्भूतसंवेदनाद्वैतसिद्धिः । माभून्निरंश संवेदनाद्वैतं चित्राद्वैतं चित्राद्वैतस्य व्यवस्थापनात् । कालत्रयत्रिलोकवर्ति पदार्थाकारासंविश्चित्राप्येका शश्वदशक्यविवेचवत्सर्वस्य वादिनस्तत एवक्कचिदेकत्वव्यवस्थापनात् अन्यथा कस्यचिदेकत्वेनाभिमतस्याप्येकत्वासिद्धिरिति चेन्न एवमपि परमब्रह्मण एव प्रसिद्धेः सकलदेश कालाकारव्यापिनः संविन्मात्रस्यैव परमब्रह्मत्ववचन त् । नचकक्षणस्थायिनी चित्रांसंवित् चित्राद्वैतमिति साघयितुं शक्यते तस्याः कार्यका रणभूतचित्र संविन्नांतरीयत्वाच्चित्राद्वैतप्रसंगात् तत्कार्यकारणचित्रसंविदो ऽनभ्युपगमे सदहेतुकत्वा न्नित्यत्वसिद्धेः कथं न चित्राद्वैतमैव ब्रह्माद्वैतमिति न संवेदनाद्वैतवश्चित्राद्वैतमपि सौगतस्य व्यवतिष्ठते सर्वथा शून्यं तु तत्वमसंवेद्यमानं न व्यवतिष्ठते ॥ संवेद्यमानं तु सर्वत्र सर्वथा सर्वदा परमब्रह्मणो नातिरिच्यते तत्राक्षेपसमाधानानां परमब्रह्मसाधनानुकूलत्वात् । ततो न सुगतस्तत्वतः संवृत्या वा विश्वतत्वज्ञः संभवतीति न निर्वाणमार्गस्य प्रतिपादकः स्यात् ॥ परमपुरुष एव विश्वतत्वज्ञः श्रेयोमार्गस्य प्रणेता व्ववतिष्ठतां तस्योक्तन्यायेन साधनात् इत्यपरः सोऽपि न विचारसहः । पुरुषोत्तमस्यापि यथा प्रतिपादनं विचार्यमाणस्यायोगात् । प्रतिभासमात्रं चिद्रूपं परमब्रह्मोक्तं तच्च यथा परमार्थिकं देशकालाकाराणां भेदेऽपि व्यभिचाराभावात् तत्प्रतिभासविशेषाणामेव व्यभिचारादव्यभिचारित्वलक्षणत्वात्तस्येति तच्च विचार्यते । यदेतत्प्रतिभासमात्रं तत् सकलप्रतिभासविशेषरहितं तत्सहितं वा स्यात् ? प्रथमपक्षे तदसिद्धमेव सकलप्रतिभासविशेषरहितस्य प्रतिभासमात्रस्यानुभवाभावात् । केनचित्प्रतिभासविशेषेण सहितस्यैव तस्य प्रतिभासनात्कचित्प्रतिभासविशेषस्याभावेऽपि पुनरन्यत्र भावात्कदाचिदभावेऽपि चान्यदा सद्भावात्केनचिदाकार विशेषेण तदसंभवेऽपि चाकारांतरेण संभवाद्देशकालाकारविशेषापेक्षत्वात् तत्प्रतिभासविशेषाणां तथा व्यभिचाराभावादव्यभिचारित्वसिद्धेः तत्वलक्षणानतिक्रमान्न तत्वबहिर्भावो युक्तः । तथाहि यद्यथैवाव्यभिचारि तत्तथैव तत्वं यथा प्रतिभासमात्रं प्रतिभासमात्रतयैव व्यभिचारि तथैव तत्वं । अनियत देशकालाकारतयैवाव्यभिचारी च प्रतिभासविशेष इति प्रतिभासमात्रवत्प्रतिभासविशेष

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182