Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
प्रमाणपरक्षिा ।
ज्ञानात्मैव प्रमाता स्यात् , अज्ञानात्मनः खादः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणं स्वार्थप्रमितौ ज्ञानक्रियात्मिकायां करणत्वात् । अज्ञानात्मनस्तत्र साधकतमत्वाघटनानाज्ञानं प्रमाणं, अन्यत्रोपचारतः । ततोनाज्ञानेन इंद्रियसन्निकर्षलिंगशब्दादिना साधनस्य व्यभिचारः। नापि व्यतिरकासिद्धिः सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्तौ प्रमाणत्वस्य साधनस्य पटादौ विनिवृत्तिविनिश्चयात् । केवलव्यतिरेकिणोऽपि साधनस्य समर्थनात् । ततः सूक्तं सम्यग्ज्ञानमेव प्रमाणमज्ञानस्य प्रमाणत्वायोगान्मिथ्याज्ञानवदिति ।
किं पुनः सम्याग्ज्ञनं ? अभिधीयते-स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसायात्मकं तन्न सम्यग्ज्ञानं यथा संशयविपर्यासानध्यवसायाः। सम्यग्ज्ञानंच विवादापन्नं तस्मात्स्वार्थव्यवसायात्मकमिति सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधादीनां साध्यधर्मिणि सद्भावात् । स्वसंवेदनेंद्रियमनोयोगिप्रत्यक्षैः सम्यग्ज्ञान:-अव्यवसायात्मकैर्व्यभिचारी हेतुः इति स्वमनोरथमात्रं सौगतस्य तेषां सम्यग्ज्ञानत्वविरोधात्। सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तं तदभावे तदसंभवात् । तदपि प्रवर्तकत्वेन व्याप्तं तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन अर्थप्रापकस्याविसंवदित्वात् । निर्विषयज्ञानवत् । तदपि प्रवर्तकत्वेन व्याप्त अप्रवर्तकस्यार्थाप्रत्यायकत्वात् । तद्वत् प्रवर्तकत्वमपि विश्वविषयोपदर्शकत्वेन व्याप्तं स्वविषयमपदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं रूपं दर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं च इत्यविसंवादकं सम्यग्वेदकं प्रमाणं तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धेः संशयवदिति धर्मोत्तरमतं । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते तस्य स्वविषयोपदर्शकत्वाऽसिद्धेः । तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यदव्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकं यथा गच्छतः तृणस्पर्शसंवेदनं । अध्यवसायि प्रसिद्धमव्यवसायात्मकं च सौगताभिमतदर्शनमिति व्यापकानुपलब्धिः सिद्धा। व्यवसायात्मकस्य व्यापकस्याभावे तद्व्याप्यत्वस्य स्वविषयोपदर्शकत्वस्याननुभवात् ।
स्यादाकूतं-- तेन व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धिमधिवसति तस्य व्यवसायजनकत्वेन व्याप्तत्वात् । नीलधवलादौ व्यवसायजननाद्दर्शनस्य तदुपदर्शकत्वव्यवस्थितेः। क्षणक्षयस्वर्गप्रापणशक्त्यादी व्यवसायाजनकत्वात् तदनुपदर्शकत्वव्यवस्थानात् । गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव स्वविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात् अन्यथानध्यवसायित्वाघटनात् इति ? तदेतदविचारितरमणीयं ताथागतस्य व्यवसायो हि दर्शजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा ? इति विचार्यते- यद्यपदर्शकस्तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् संवादकत्वात् सम्यक्संवेदनवत् । न तु तन्निमित्तं दर्शनं सन्निकर्षादिवत् । अथानुपदर्शकः ? कथं दर्शनं तज्जननात् स्वविषयोपदर्शकं ? अतिप्रसंगात् । संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्विकल्पतजनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयं दर्शनविषयसामान्यस्यान्यापोहलक्षणस्यावस्तुत्वात् । तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायाद्वस्तूपदर्शक एव व्यवसाय इत्यपि मिथ्या तयोरेकत्वाध्यवसायासंभवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजोव्यवसायो वा ज्ञानांतरं वा ? न तावदर्शनं तस्य विकल्पाविषयत्वात् । नापि तत्पृष्ठजो व्यवसायः तस्य दृश्यागोचरत्वात् । तदुभयविषयं ज्ञानांतरं तु निर्विकल्पकं विकल्पात्मकं वा ? न तावन्निर्विकल्पकं तस्य दृश्य विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकं तत एव । नच तद् द्वयाविषयं संवेदनं तदुभयैकत्वमध्यवसातुं समर्थ । तथाहि- यद्यन विषयी कुरुते न तत्तदेकत्वमध्यवस्यति यथा रससंवेदनं स्पर्श रूपोभयं । न विषयी कुरुते च दृश्यविकल्प्योभयं किंचित्संवेदनं, इति न कुतश्चिदृश्यविकल्प्ययोरेकत्वाध्यवसायः सिद्धयेत् ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननादर्शनं स्वविषयवस्तूपदर्शकं योगिप्रत्यक्षस्य विधूतकल्पनाजालस्य सर्वदा वस्तुविकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवेदनमपि न तस्य स्वरूपोप

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182