SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः आलिप्रबन्धनिरूपणम् वर्णप्रबन्धः बिरुदैर्वर्णतालेन वर्णः कर्णाटभाषया ॥ १८१ ॥ तालत्रैविध्यतस्तस्य त्रैविध्यं गदितं बुधैः । इति वर्णप्रबन्धः। वर्णस्वरप्रबन्धः स्वरैः पाटैः पदैस्तेनै रचना वाञ्छितक्रमात् ॥ १८२ ।। आभोगध्रुवावर्थत: सकृद्गीत्वा, आभोगध्रुवाभ्यामन्यत्रोद्ाहे न्यासः समाप्तिः सा एकतालोपनिबढेकतालिका । अस्यामुगाह आलापमात्रेणेति केषांचिन्मतम् ॥ १८०, १८१॥ (क०) अथालिक्रमेषु प्रथमोद्दिष्टं वर्णप्रबन्धं लक्षयति-विरुदैरित्यादिना । तालत्रैविध्यत इति । तालस्य वर्णतालस्य त्र्यश्रमिश्रचतुरश्रत्वभेदेन वक्ष्यमाणत्वात् त्रैविध्यम् ; तस्मात् । अत्रोद्ग्राहादीनामनुक्तावप्युग्राहध्रुवयोः सकलपबन्धेषु नियतत्वात्तयोरावश्यकत्वेनात्र तौ बिरुदबद्धौ कर्तव्यौ । 'अनुक्ताभोगवस्तूनां पदैराभोगकल्पना' इति परत्र परिभाष्यमाणत्वादत्र पदैराभोगः कर्तव्यः । तेनायं त्रिधातुर्भवति । तालभाषानियमान्निर्युक्तः । विरुदपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ १८१, १८२ ॥ (सं०) सूडस्थान् प्रबन्धान् लक्षयित्वा आलिक्रमस्थान् लिलक्षयिषुः प्रथमनिर्दिष्टं वर्ण लक्षयति-बिरुदैरिति । वर्णतालेन कर्णाटभाषया विरुदैरुपनिबध्यमानो वर्ण इत्युच्यते । तालाध्याये वर्णतालस्य त्रैविध्यं लक्षयिष्यति । ततो वर्णप्रबन्धस्यापि त्रैविध्यं ज्ञेयम् ॥ १८१, १८२ ॥ (क०) अथ वर्णस्वरं लक्षयति-स्वरैः पाटैरित्यादिना । वाञ्छित Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy