SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७० संगीतरत्नाकरः यस्य स्यात्तेनकैासः स वर्णवर उच्यते । स्वरादेरादिविन्यासभेदादेष चतुर्विधः ॥ १८३ ॥ इति वर्णस्वरप्रवन्धः। गद्यप्रबन्धः गद्यं निगद्यते छन्दोहीनं पदकदम्बकम् । तत् षोढोत्कलिका' चूर्ण ललितं वृत्तगन्धि च ॥१८४॥ खण्डं चित्रं च तेषां च प्रभवः सामवेदतः। गातव्योत्कलिका वीरे रक्ता रुद्राधिदेवता ॥ १८५ ।। क्रमाद्रचनेति । अत्र स्वरपाटपदतेनानां क्रम ऐच्छिक इत्यर्थः । स्वरादेरादिविन्यासभेदादिति । स्वरस्यादौ विन्यासादेको भेदः । पाटस्यादौ विन्यासात् द्वितीयः । पदस्यादौ विन्यासात्तृतीयः। तेनस्यादौ विन्यासाच्चतुर्थः । स्वरादिप्वेकैकस्मिन्नादौ विन्यस्ते तदन्येषां त्रयाणामनियमेन विन्यासो भवति । अत्र स्वरादिषु चतुर्पु द्वाभ्यामुद्ग्राहः कर्तव्यः । द्वाभ्यां ध्रुवः कर्तव्यः । आभोगस्तु पदैः कर्तव्यः । एवमयमपि त्रिधातुः। तालनियमान्निर्युक्तः । बिरुदाभावात् पञ्चाङ्गः। आनन्दिनीजातिमान् ॥ १८२, १८३ ॥ __ (सं०) वर्णस्वरं लक्षयति-स्वरैरिति । स्वरैः पाटैः पदैस्तैनैर्यस्य विरचनं स्वाभिलषितक्रमेण च न्यासः, स वर्णस्वर इत्युच्यते । स चतुर्विधःस्वराणामादावुपनिबन्धनेनैको भेदः । पाटानामादिविरचनेन द्वितीयः । पदानामादिविरचनेन तृतीयः । तेनकानामादिविरचनेन चतुर्थ इति ॥१८२, १८३॥ (क०) अथ गद्यं लक्षयति-गद्यं निगद्यत इत्यादिना । 1षोढा कलिकेति कलानिधिपाठः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy