________________
२६८
संगीतरत्नाकरः
एकतालीप्रबन्धः द्विरुद्ग्राहो ध्रुवोऽपि द्विराभोगधुवको ततः। गीत्वान्यासो यत्र'सा स्यादेकताल्येकतालिका॥१८०॥ अस्यामालापमात्रेण केचिदुद्ग्राहमूचिरे ।
___ इत्येकतालीप्रबन्धः।
इति सूडप्रबन्धनिरूपणम्। -षडक्षरेति । षडक्षरचरणमारभ्य त्रिंशदक्षरचरणपर्यन्ता एकैकाक्षरवृद्धया पञ्चविंशती रासा भवन्ति । कश्चित् षडक्षरचरण: ; कश्चित् सप्ताक्षरचरण: ; कश्चिदष्टाक्षरचरण इत्यादि । तथा अष्टमात्राचरणादारभ्यैकैकमात्रावृद्धया षष्टि. मात्रपर्यन्तास्त्रिपञ्चाशन्मात्रिका मात्रागणभेदा रासा भवन्ति । एतेभ्योऽन्ये च लक्ष्येऽप्रसिद्धत्वान्नोक्ताः ॥ १७५-१७९ ॥
(क०) अथैकताली लक्षयति-द्विरुदग्राह इत्यादिना । तत आभोगध्रुवको गीत्वेत्यनेन तयोः सकृद्गानं गम्यते ; यतः पूर्वमेव ध्रुवोऽपि द्विरिति ध्रुवस्य द्विर्गानं विहितम् ; अत्र द्विरित्यनुक्तत्वाच्च । न्यास इति स्थानविशेषनिर्देशाभावेनोक्तावपि संनिहिते ध्रुवे न्यासः कर्तव्य इत्यवगम्यते । एकतालीति संज्ञा । एकतालिकेति । एकतालेन निवृत्तेत्यत्रार्थे ठकि विहिते रूपम् । आलापमात्रेणेति । आलापोऽत्र प्रयोगः । मात्रपदेन तस्य वाचकपदरहितत्वमुच्यते । केवलालापेनोद्ग्राहः कर्तव्य इति केषांचिन्मतम् । मतान्तरे तु वाचकपदैरेवोद्ग्राहः कर्तव्य इत्यर्थः । तालनियमान्नियुक्तोऽयम् । मेलापकाभावात् त्रिधातुः । पदतालबद्धत्वेन द्वयङ्गः । तारावलीजातिमान् ॥ १८०, १८१॥
(सं०) एकताली लक्षयति-द्विरिति । उद्गाहो ध्रुवश्च द्विर्गीयते;
1 अन्यत्र इति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute