SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः २६७ रासकप्रबन्धः यो झोम्बडगतं लक्ष्म गमकस्थानकैर्विना ।। १७५ ॥ भजते रासकः सोऽयं रासतालेन गीयते । गणैर्वर्णैश्च मात्राभिः केचिदेनं त्रिधा जगुः ।। १७६ ॥ स्याद्रासवलयो हंसतिलको रतिरङ्गकः। चतुर्थस्तत्र मदनावतारइछगणादिजाः ॥ १७ ॥ षडक्षरान्रितस्त्रिंशदक्षरावधिवर्णजाः। पञ्चविंशतिराख्याताश्चरणादष्टमात्रिकात् ॥ १७८ ।। षप्टिमात्रावधिप्रोक्तास्त्रिपञ्चाशत्त मात्रिकाः। लक्ष्ये प्रसिद्धिवैधुर्यात्तेष्वस्माकमनादरः ।। १७९ ॥ इति रासकप्रवन्धः। (क०) अथ रासकं लक्षयति—यो झोम्बडगतं लक्ष्मेत्यादिना । छगणादिजा इति । तत्र छगणजो रासवलयः । पगणजो हंसतिलकः; चगणजो रतिरङ्गका ; तगणजो मदनावतार इत्यादिशब्दग्राह्या गणा द्रष्टव्याः। एवं गणजाश्चत्वारः; वर्णजाः पञ्चविंशतिः; मात्रिकास्त्रिपञ्चाशदिति रासा द्वयशीतिर्भवन्ति । तालादिनियमादयं नियुक्तः । गमकस्थानकव्यतिरिक्तझोम्बडलक्षणातिदेशेन मेलापकाभावात् त्रिधातुः । पदतालबद्धत्वाव्यङ्गः । तारावलीजातिमान् ॥ १७५-१७९ ॥ (सं०) रासकं लक्षयति-य इति । यो गमकस्थानवर्जितं झोम्बडलक्ष्म भजते, रासतालेन गीयते, स रास इत्युच्यते । मतान्तरेणास्य भेदान निरूपयति --गणैरिति । गणैर्निबद्धो रासवलयः । वर्गनिबद्धो हंसतिलकः । मात्राभिनिबद्धो रतिरङ्गः । छगणेन पूर्वोक्तेनाधिकेन संयुक्तो मदनावतार इति । अन्यान् भेदानाह 1 छगणाधिक इति सुधाकरपाठः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy