SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भारण्टी] १० २० को०-उल्लास ४, परीक्षण . [आरभटी।] मायेन्द्रजालबहुला चित्रयुद्धनियन्त्रिता। विज्ञेयाऽऽरभटी वृत्तिः कपटैबहुभिवृ(?)ता ॥ वस्तूत्थापनसंफेटौ संक्षिप्तकावपातको । एते भेदास्तु चत्वार आरभव्याः प्रकीर्तिताः॥ कार्य विभाव्यते यत्र सविद्रवमविद्रवम् । अनेकरससंयुक्तं तद्वस्तूत्थापनं मतम् ॥ ॥ इति वस्तूत्थापनम् ॥ १॥ शस्त्रप्रहारबहुलो युद्धसंरम्भसंकुलः। संफेटो नाम विज्ञेयो निर्भेदकपटाकुलः॥ ३२10 ॥ इति संफेटकः ॥२॥ अन्वर्थक(?शिल्पसंयुक्तो बहुसुस्तपवोयु(?पुस्तोपयोग)तः। संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको बुधैः॥ ॥ इति संक्षिप्तः ॥ ३॥ भयहर्षसमुत्थानां विनिपालससंभ्रमः। प्रवेशनिर्गमायुक्तः सोऽवपात इति स्मृतः ॥ ॥ इत्यवपातः॥४॥ ॥ इत्यारभटी॥ एताः प्रोक्ताश्चतस्रस्तु वृत्तयः काव्यसंश्रयाः। युद्धे नियु(ब?)द्धे काव्ये ता उपयोगं व्रजन्ति वै॥ वृत्तिर्वापि रसो वापि भावो वापि प्रयोगतः। पुष्पावकीर्णाः कर्तव्याश्चित्रमाल्यानुकारिणः ॥ ॥ इति चतस्रो वृत्तयः॥ [अथ कलासा लक्ष्यन्ते । यद्यपि भेदा लोके भूयांसः करणमार्गगास्तदपि। तानिह विमुच्य यत्नात् कलासकरणानि वक्ष्यन्ते ॥ ३७ विद्युत्खड्गौ मृगषल(?क)संज्ञौ प्लवसंज्ञमपरमपि द्वितयम् ।। एते हि षट् प्रभेदाः पृथग्विभिन्नाः कलासकरणस्य ॥ ३८ 1 नाशा समुत्थान (अ. २०, श्लो. ६९. G. 0. S.) 2 ABO कारिणैः। 15
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy