________________
" मयेनं " मुनिना धौते, खकौपीने सरोवरे । पीतं शुक्ररसोऽभ्येत्य, मण्डूक्या सलिलस्थया ।। १००९ ॥ तदीयपानतो गर्भे, संपन्ने सति दर्दुरी । साऽसूत सुन्दरां कन्यां संपूर्ण समये सति ॥ १०१० ॥ न जातेरस्मदीयाया, योग्येयं शुभलक्षणा । इति ज्ञात्वा तया क्षिप्ता, मण्डूक्या नलिनीदले ।। १०११ ॥ एकदा यतिना दृष्टा, सा सरोवरमीयुषा । स्वीकृंता सेहतो ज्ञात्वा, स्वबीजबलसंभवा ॥ १०१२ ॥ उपायैर्विविधैस्तेन सा प्रपाल्य विवर्धिता । अपत्यपालने सर्वो, निसर्गेण प्रवर्त्तते ॥ १०१३ ॥ उदक्यया तया तस्य, कौपीनं शुक्रकश्मलम् । परिधाय कृतं स्त्रानं, कदाचिद्यौवनोदये ॥ १०१४ ॥ जातं तस्यास्ततो गर्भ, विज्ञाय निजबीजजम् । तं मुनिः स्तम्भयामास, कन्यादूषणशङ्कितः ॥ १०१५ ॥ सप्तवर्षसहस्राणि, गर्भोऽसौ निश्चलीकृतः । अतिष्ठदुदरे तस्याः, कुर्वाणः पीडनं परम् ॥ १०१६ ॥ परिणीता ततो भव्या, रावणेन महाश्रिया । वितीर्णा मुनिनाऽसूत, पुत्रमिन्द्रजिताभिधम् ॥ १०१७ ॥ पूर्वमिन्द्रजिते जाते, सप्तवर्षसहस्रकैः । बभूव रावणः पश्चात् ख्यातो मन्दोदरीपतिः ॥ १०१८ ।। सप्तवर्षसहस्राणि, कथमिन्द्रजितः स्थितः । सवित्रीजठरे नाहं, वर्षद्वादशकं कथम् ॥ १०१९ ॥ जजल्पुर्याज्ञिकाः साधो!, तव सत्यमिदं वचः । परमुत्पन्नमात्रेण, तपोऽग्राहि कथं त्वया । ॥ १०२० ॥ १ " मयेन ऋषिणा "