SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥ ३९॥ सतः खपरशास्त्रज्ञो, ब्याचष्टे गगनायनः । यद्येवं श्रूयता विप्राः!, स्पष्टयामि मनोगतम् ॥ ९९६ ॥ एकत्र सुसयोनार्यो-भगीरथ्याख्ययोईयोः ॥ संपन्नगर्मयोः पुत्रः, ख्यातोऽजनि भगीरथिः॥९९७ ॥ यदि स्त्रीस्पर्शमात्रेण, गर्मः संभवति स्त्रियाः। मातुर्मे न कथं जातः, पुरुषस्पर्शतस्तदा ॥९९८ ॥ धृतराष्ट्राय गान्धारी, द्विमासे किल दास्यते । तावद्रजखला जाता, पूर्व सामं प्र(सा मत्र)दानतः ॥ ९९९ ॥ चतुर्थे वासरे स्नात्वा, फनसालिङ्गने कृते । वर्धयन्नुदरं तस्या, गर्भोऽजनि महामरः ॥ १००० ।। धृतराष्ट्राय सा दत्ता, पित्रा गर्भावलोकनैः । लोकापवादनोदाय, सर्वोऽपि यतते जनः ॥ १००१॥ यदूढया तया जातं, फनसस्य फलं परम् । बभूव जठरे तस्याः, पुत्राणां शतमूर्जितम् ॥ १००२ ॥ खेटः प्राह किमीदृक्षः, पुराणार्थोऽस्ति वा नवा? | ते प्राहुर्नितरामस्ति, को भद्रेमं निषधति? ॥ १००३ फनसालिङ्गने पुत्राः, सन्तीत्यवितथं यदि । तदा नृस्पर्शतः पुत्रप्रसूतिर्वितथा कथम् ? ॥ १००४॥ श्रुत्वेति वचनं तस्य, भाषितं द्विजपुङ्गवैः । त्वं भर्तृस्पर्शतो जातो, भद्र ! सत्यमिदं वचः ॥१००५ ॥ तापसीयं वचः श्रुत्वा, वर्षद्वादशकं स्थितः । जनन्या जठरे नेदं, प्रतिपद्यामहे परम् ॥ १००६ ॥ जगाद खेचरः पूर्व, सुभद्राया मुरद्विषा । चक्रव्यूहप्रपञ्चस्य, व्यधीयत निवेदनम् ॥ १००७ ॥ तदश्रावि कथं मातुर्गर्भस्थेनाभिमन्युना! । कथं मया न भूदेवास्तापसानां वचः पुनः? ॥ १००८ ॥ ॥३२॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy