________________
*
*
*
मनोवेगस्य तस्याऽऽसीत् , प्रियापुरीपतेः सुतः । पवनवेग इत्याख्यः, सुहृदत्यन्तवल्लभः ॥ २१॥ स्थातुमन्योऽन्यमुन्मुच्य, क्षणमेकं न तो क्षमौ । दिनार्काविव विख्यातौ, तावभूतां प्रतापिनी ॥ २२ ॥ मिथ्यात्वमूढःपवनवेगोऽभूदैवयोगतः । कुयुक्तिहेतुदृष्टान्तवादी तत्त्वपथोज्झितः ॥ २३ ॥ मिथ्यात्वयुक्तं तन्मित्रं, जिनधर्मपराङ्मुखम् । दृष्ट्वा तताप शोकेन, मनोवेगः पवित्रधीः ॥ २४ ॥ निवारयामि मिथ्या(मित्रत्वात् , पतन्तं दुर्गतावमुम् । प्राहुस्तं सुहृदं प्राज्ञा, धर्मे योजयते हि यः॥ २५ ॥ मिथ्यात्वत्यागतो धर्मे, योजनीयः कथं मया । एप इत्याप चिन्तातो, नैव निद्रां मनोजवः ॥ २६ ॥ *मनोवेगो वन्दमानो, जिनेन्द्रायतनानि सः । भ्रमति स्म यदालस्यभाजो धर्मे न सजनाः ॥ २७ ॥ नत्वा जिनेन्द्रबिम्बानि, कदाचित् प्रतिगच्छतः । मनोवेगस्य स्खलितं, विमानं व्योनि सत्वरम् ॥ २८ ॥ वैरिणा स्खलितं मे किं, विमानं वा तपखिना? । दध्याविति मनोवेगो, व्याकुलो वीक्ष्य निश्चलम् ॥२९॥ ज्ञातुमिच्छुस्तत स्खलनाहेतुं पश्यन्महीमधः । ददर्श मालवं देशं, प्रामाकरपुराचितम् ॥ ३०॥ तस्यालुलोके मध्यस्थामुजयिनी महापुरीम् । भूमिं द्रष्टुं समायातां, पुरन्दरपुरीमिव ॥ ३१॥ तस्या उत्तरदिग्भागे, महोद्यानं सदाफलैः । वृक्षः प्रीणितपान्योघं, चकास्ति जितनन्दनम् ॥ ३२॥ तत्रालोक्य मुनि देवव्योमचारिनरार्चितम् । मुदं प्राप मनोवेगः, केवलज्ञानभास्करम् ॥ ३३ ॥
*****
*
*
*
*
*
*