SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १ ॥ तत्रास्ति भारतं क्षेत्रं, पवित्रं जिनजन्मभिः । आरोपितज्यं यश्चापं, श्रिया जयति दीप्रया ॥ ८ ॥ वैताढ्यः पर्व्वतस्तत्र, ध्वस्तध्वान्तः प्रभाभरैः । पूर्वापराम्भोधितटावगाही योऽस्ति शेषवत् ॥ ९ ॥ इहाभूतां खगैः सेव्ये, श्रेण्यावुत्तरदक्षिणे । मदरेखे गजेन्द्रस्य, षट्पदैरुद्भटैरिव ॥ १० ॥ तत्रोत्तरस्यां पष्टि नगराणि खचारिणाम् । पञ्चाशतं दक्षिणस्यां विदुः सिद्धान्तवेदिनः ॥ ११ ॥ तत्र श्रेण्यां दक्षिणस्यां वैजयन्त्यभवत्पुरी । जयन्ती खः पुरीं गेहैर्विमानाधिकदीसिभिः ॥ १२ ॥ नभञ्चरपतिस्तत्र, जितशत्रुरभृद्गुणी । स्वधामतर्जितारातिः, खः पुर्यामिव वासवः ॥ १३ ॥ वायुवेगा प्रिया तस्य, स्मरवायुप्रवर्धिनी । जिनेन्द्रमतनिष्णाताऽजनि विद्यघसाधिका ॥ १४ ॥ रममाणस्तया सार्धं शच्येव सुरनायकः । जितशत्रुः सुखैः (खं) कालं, निनायेप्सितलाभतः ॥ १५ ॥ निषेव्यमाणा सा तेन, सुन्दरी जितशत्रुणा । असूत तनयं नाम्ना, मनोवेगं महोदयम् ॥ १६ ॥ दिने दिनेऽसौ ववृधे, भानुमानिव दीप्तिमान् । समं गुणैः कलाभ्यासी, शुद्धवृत्तधरः स्थिरः ॥ १७ ॥ विद्याः समग्रा जग्राह विद्याधरकुलोचिताः । चतुर्बुद्धिनिधिर्लक्ष्मी - निवासः स्थितिमानसौ ॥ १८ ॥ मुनिसेवापरो जैन - वाक्यपीयूषपानकृत् । धर्म्मरागी स वालोऽपि बभूव परमार्हतः ॥ १९ ॥ क्षायिकं सम्यक्त्वरत्नं, स बभार विशुद्धधीः । वशीकर्तुं सिद्धिवधूमनघाव्ययसौख्यदाम् ॥ २० ॥ परीक्षा. ॥ १ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy