SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ SSACROCOCCADASAKARS मीनः कुर्मः पृथुप्रोथो, नरसिंहोऽथ वामनः।रामो रामश्च रामश्च, (कृष्णश्च) बुद्धः कल्की दश स्मृताः॥६१९॥ यमुक्त्वा निष्कलं प्राहुर्दशावर्तगतं पुनः । भण्यते स बुधैर्नाप्तः, पूर्वापरविबाधतः ॥ २०॥ प्रक्रम बलिवन्धस्य, कथयामि तवाधुना । तं योऽन्यथा जनैर्हतः, प्रसिद्धिं मुग्धबुद्धिभिः ॥६२१ ॥ बद्धो विष्णुकुमारण, योगिना लब्धिभागिना । मित्रद्विजो बलिर्दुष्टः, संयतोपद्रवोद्यतः ॥ ६२२ ॥ विष्णुना वामनीभूय, बलिर्वद्धः क्रमैत्रिभिः । इत्येवमन्यथा लोकहीतो मूढमोहितैः ॥ ६२३ ॥ नित्यो निरअनः सूक्ष्मो, मृत्यूत्पत्तिविवर्जितः । अवतारमसौ प्राप्तो, दशधा निष्कलः कथम् ? ॥ २४ ॥ पूर्वापरविरोधाऽऽढ्यं, पुराणं लौकिकं तव । वदाम्यन्यदपीत्युक्त्वा , खेटविग्रहमत्यजत् ॥ ६२५ ॥ वक्रकेशमहाभारः, पुलीन्द्रः कज्जलच्छविः । विद्याप्रभावतः स्थूल-पादपाणिरभूदसौ ॥ ६२६ ॥ ततः पवनवेगोऽपि, मार्जारः कपिलेक्षणः । मार्जारविद्यया कृष्णो, विलुप्तश्रवणोऽजनि ॥ ६२७ ॥ प्रविश्य पत्तनं कुम्भे, विडालं विनिवेश्य सः। तूर्यमाताड्य घण्टां च, निविष्टो हेमविष्टरे ॥ ६२८॥ तूर्यस्वने श्रुते विप्राः, प्राहुरागत्य वेगतः। किं रे वादमकृत्वा त्वं, वर्णपीठमधिष्ठितः १ ॥ ६२९ ॥ ततोऽयोचदसौ विप्रा!, वादनामापि वेमि नो । करोम्यहं कथं वादं, पशुरूपो वनेचरः? ॥ ६३०॥ यद्येवं त्वं कथं मू(रू)ढो, मूर्ख! काञ्चनविष्टरे । निहत्य तरसा तूर्य, भद्र! वादनिवेदकम् ॥ ६३१॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy