SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ धर्म-14 परीक्षा. ॥२५॥ सोऽवादीदहमारूढः, कौतुकेनात्र विष्टरे । न पुनर्वादिदर्पण, तूर्यमास्फाल्य माहनाः! ॥ ६३२ ॥ नाईत्वं यदि मूर्खस्य, हेमपीठाधिरोहणे । उत्तिष्ठामि तदा विप्रा!, इत्युक्त्वाऽवततार सः ॥ ६३३ ॥ विप्रैरुक्तः किमायातस्त्वमति ? ततोऽवदत् । मार्जारविक्रयं कर्तु-मायातोऽहं वनेचरः ॥ ६३४ ॥ ओतोः किमस्य माहात्म्यं ?, किं मूल्यं विद्यते ? वद । इत्यसौ ब्राह्मणैरुक्तो, निजगाद नभश्चरः ॥ ६३५॥ अस्य गन्धेन नश्यन्ति, देशे द्वादशयोजने । आखवो निखिलाः सद्यो, गरुडस्येव पन्नगाः ॥ ६३६ ॥ मूल्यं पलानि पञ्चाशत् , वर्णस्यास्य महौजसः। तदाऽयं गृह्यतां विप्रा!, यदि वोऽस्ति प्रयोजनम् ॥ ६३७ ॥ मिलित्वा ब्राह्मणाः सर्वे, वदन्ति स्म परस्परम् । बिडालो गृह्यतामेप, मूषकक्षपणक्षमः ॥ ६३८ ॥ एकत्र वासरे द्रव्यं, मूषकैर्यविनाश्यते । सहस्रांशोऽपि नो तस्य, मूल्यमेतस्य दीयते ॥ ६३९ ॥ मीलयित्वा ततो मूल्यं, क्षिप्रमग्राहि स द्विजैः । दुरापे वस्तुनि प्राज्ञैर्न कार्या कालयापना ॥ ६४०॥ नभश्चरस्ततोऽवादीत् , परीक्ष्य गृह्यतामयम् । इत्युक्त्वा(क्ता) ब्राह्मणास्तस्याङ्गोपाङ्गानि व्यलोकयन् ॥ ६४१॥ कर्णनाशं निरीक्ष्यास्य, प्रोचिरे तं द्विजातयः । कर्णच्छेदः कथं जातो?, बिडालस्याथ सोऽवदत् ॥६४२॥ गतरात्री वयं मार्गश्रान्ताः सुप्ता यदा तदा । भक्षितो मूपकैरस्य, कर्णः सुरगृहाङ्गणे ॥ ६४३॥ बभाषिरे ततो विप्रा, वचसस्ते परस्परम् । विरोधो जायते मूर्ख!, पूर्वापरविचारणात् ॥ ६४४ ॥ SASARAKA ॥२५॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy