SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २० ॥ प्रज्वलन्त्यूर्ध्ववक्रस्य, मूषकेण दुरात्मना । पतिता नीयमाना मे, नेत्रस्योपरि वार्तिका ॥ ५०२ ॥ विचिन्तयितुमारब्धं, मयेदं व्याकुलात्मना । जागरित्वा ततः सद्यो, दह्यमाने विलोचने ॥ ५०३ ॥ यदि विध्यापयाम्यग्निं, हस्तमाकृष्य दक्षिणम् । तदा कुप्यति मे कान्ता, दक्षिणाथ परं परा ॥ ५०४ ॥ ततो भार्याभयग्रस्तः स्थितस्तावदहं स्थिरः । स्फुटित्वा नयनं यावद्वामं काणं ममाऽभवत् ॥ ५०५ ॥ ज्वलित्वा स्फुटिते नेत्रे, शशाम ज्वलनः स्वयम् । नाकारि कश्चनोपायो, मया भीतेन शान्तये ॥ ५०६ ॥ मह सदृशो मूर्खो, विद्यते यदि कध्यताम् । यः स्त्रीत्रस्तो निजं नेत्रं, दह्यमानमुपेक्षते ॥ ५०७ ॥ स्फुटितं विषमं नेत्रं, स्त्रीभीतस्य यतस्ततः । ततः प्रभृति संपन्नं, नाम मे विषमेक्षणः ॥ ५०८ ॥ मेक्षणतुल्यो यो, यदि मध्येऽस्ति कश्चन । तदा विभेम्यहं भद्रा !, भाषमाणोऽपि भाषितुम् ॥ ५०९ ॥ एकत्रावसिते मूर्खे, निगद्येति खमूर्खताम् । द्वितीयेनेति प्रारब्धा, शंसितुं ध्वस्तबुद्धिना ॥ ५१० ॥ एकीकृत्य समस्तानि, विरूपाणि प्रजासृजा । कृते भार्ये ममाभूतां, द्वे शङ्केऽर्ककलाघरे ॥ ५११ ॥ वहन्ती परमां प्रीतिं, प्रेयसी चरणं मम । एका क्षालयते वामं, द्वितीया दक्षिणं पुनः ॥ ५१२ ॥ रुक्षीखरीति संज्ञाभ्यां, ताभ्यां सार्धमनेहसि । प्रयाति रममाणस्य, ममेष्टसुखभागिनः ॥ ५१३ ॥ एकं रुक्षी निचिक्षेप, प्रक्षाल्य प्रीतमानसा । पादस्योपरि मे पादं प्राणेभ्योऽपि गरीयसी ॥ ५१४ ॥ परीक्षा. ॥ २० ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy