________________
%
%
%
%
विलोक्य वेगतः खर्या, क्रमस्योपरि मे क्रमः । भमो मुशलमादाय, दत्तनिष्ठुरघातया ॥ ५१५॥ अर्थतयोमहाराटिः, प्रवृत्ता दुर्निवारणा । लोकानां प्रेक्षणीभूता, राक्षस्योरिव रुष्टयोः॥ ५१६ ॥ अरे रक्षतु ते पादं, त्वदीया जननी खयम् । रुष्टखर्या निगद्येति, पादो भग्नो द्वितीयकः ॥ ५१७ ॥ उभाभ्यां चकितश्चाहं, मूकीभूय व्यवस्थितः। व्याघीभ्यामिव रुष्टाभ्यां, छागः कम्पितविग्रहः ॥ ५१८ ॥ यतो भार्याविभीतेन, पाद(दो)भग्नोऽप्युपेक्षितः । कुटहंसगतिर्नाम, मम जातं पुनस्तदा ॥ ५१९ ॥ मम पश्यत मूर्खत्वं, तदा योऽहं व्यवस्थितः। स्थिरो वाचंयमीभूय, कान्ताभीतिकरालितः ॥५२० ॥ कुटहंसगतेस्तुल्या, ये नराः सन्ति दुर्धियः । न तेषां पुरतस्तत्त्वं, भाषणीयं मनीषिणा ॥ ५२१ ॥ निगद्येति निजां वाता, द्वितीये विरते सति । तृतीयो बालिशो दिष्टया, भाषितुं तां प्रचक्रमे ॥ ५२२ ॥ खकीयमधुना पौरा, मूर्खत्वं कथयामि वः । सावधानं मनः कृत्वा, युष्माभिरवधार्यताम् ॥ ५२३ ॥ एकदा श्वशुरं गत्वा, मयाऽऽनीता मनःप्रिया । अजल्पती मया प्रोक्ता, शयनीयमुपेयुषी ॥ ५२४ ॥ यो जल्पत्यावयोः पूर्व, हार्यन्ते तेन निश्चितम् । कृशोदरि! दशापूपाः, सपिर्गुडविलोडिताः ॥ ५२५ ॥ ततो वल्लभया प्रोक्तमेवमस्तु विसंशयम् । कुलीनाभिर्वचो भर्तुः, कापि न प्रतिकूल्यते ॥ ५२६ ॥ आवयोः स्थितयोरेवं, प्रतिज्ञारूढयोः सतोः। प्रविश्य सकलं द्रव्यं, चौरेणाहारि मन्दिरे ॥ ५२७ ॥
%
%